71007: वेत्तेर्विभाषा¶
Padacheda: वेत्तेः | S | 5 | 1 |
विभाषा | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The अत् substitute of झ optionally gets the रुट् augment after the verbal अङ्ग (stem) विद् (वेत्ति).
Vasu English Translation¶
The अत् substitute of झ optionally gets the रुट् augment after the verbal अङ्ग (stem) विद् (वेत्ति). As संविदते or संविद्रते; संविदताम् or संविद्रताम्; समविदत or समविद्रत ॥ The विद् is the Adadi root here, and does not apply to विन्ते, विन्दाते, विन्दते, which belongs to the Rudhadi class (विद विचारणे) ॥
There is no augment in यङ्लुक् here also, as व्यतिवेविदते ॥
Bhashya¶
वेत्तेर्विभाषा बहुलं छन्दसि॥ अतो भिस ऐस् ॥ बहुलं छन्दसि ॥ इदं(1) द्विःक्रियते एकं शक्यमकर्त्तुम् ॥ इदं बहुलं छन्दसीति द्विःक्रियते एकं शक्यमकर्तुम् ॥ कथम् ? ॥ यदि तावत्पूर्वं क्रियते परं न करिष्यते, अतो भिस ऐसित्यत्र बहुलं छन्दसीत्येतदनुवर्तिष्यते । अथ परं क्रियते पूर्वं न(2) करिष्यते, बहुलं छन्दसीत्यत्र रुडप्यनुवर्त्तिष्यते ॥ अपर आह - (॥ उमे(1) बहुलग्रहणे एकं छन्दोग्रहणं शक्यमकर्त्तुम् ॥) उभे बहुलग्रहणे एकं छन्दोग्रहणं शक्यमकर्तुम् ॥ कथम् ? ॥ इदमस्ति वेत्तेर्विभाषा । ततः छन्दसि । छन्दसि च विभाषा । ततः (ठअतो भिस(3) ऐस् ।) अतो भिस ऐस् भवति । छन्दसि विभाषेति ॥
Kashika¶
वेत्तेरङ्गादुत्तरस्य झादेशस्यातो विभाषा रुडागमो भवति। संविदते, संविद्रते। संविदताम्, संविद्रताम्। समविदत, समविद्रत। वेत्तेरिति लुग्विकरणस्य ग्रहणं किम्? इह मा भूत् — विन्ते, विन्दाते, विन्दत इति॥
Siddhanta Kaumudi¶
वेत्तेः परस्य झादेशस्यातो रुडागमो वा स्यात् । संविद्रते । संविदते । संपृच्छते । संस्वरते ।<!अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम् !> (वार्तिकम्) ॥ अर्तीति द्वयोर्ग्रहणम् । अड्विधौ त्वियर्तेरेवेत्युक्तम् । मा समृत । मा समृषाताम् । मा समृषतेति । समार्त । समार्षाताम् । समार्षतेति च भ्वादेः । इयर्तेस्तु - मा समरत । मा समरेताम् । मा समरन्त - समारत । समारेताम् । समारन्तेति च । संशृणुते । संपश्यते । अकर्मकादित्येव । अत एव रक्षांसीति पुरापि संशृणुमहे इति मुरारिप्रयोगः प्रामादिक इत्याहुः । अध्याहारो वा, इति कथयद्भ्य इति ॥ अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् । शृणु ॥ धातोरर्थान्ते वृत्थेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ 1 ॥ वहति भारम् । नदी वहति । स्यन्दत इत्यर्थः । जीवति । नृत्यति । प्रसिद्धेर्यथा । मेघो वर्षति । कर्मणोऽविवक्षातो यथा । हितान्नयः यः संशृणुते स किं प्रभुः ।<!उपसर्गादस्यत्यूह्योर्वेति वाच्यम् !> (वार्तिकम्) ॥ अकर्मकादिति निवृत्तम् । बन्धं निरस्यति । निरस्यते । समूहति । समूहति ॥
Balamanorama¶
वेत्तेर्विभाषा - वेत्तेर्विभाषा । ‘झोऽन्तः’ इत्यतो झ इत्यनुवर्तते ।अदभ्यस्ता॑दित्यत आदित्यनुवृत्तं षष्ठ्या विपरिणम्यते ।शीङो रु॑डित्यतो रुडिति च । तदाह — वेत्तेः परस्येत्यादिना । अर्तिश्रुदृशिभ्य इति ।संपूर्वेभ्यस्त॑ङिति शेषः । द्वयोरिति । भौवादिकस्य, इयर्तेश्चेत्यर्थः । अङ्विधौ त्विति ।सर्तिशास्त्यर्तिभ्यश्च॑ इत्यत्रेत्यर्थः । मा समृतेति ।उश्चे॑ति सिचः कित्त्वान्न गुणः ।ह्रस्वादङ्गा॑दिति सिचो लोपः । माङ्योगे मा समृतेत्यादि । माङ्योगाऽभावे तु समार्तेत्यादि इत्येवं भौवादिकस्य ऋधातो रूपमित्यर्थः । माङ्योगादाडभावः । अथ माङ्योगाऽभावे आडागमे उदाहरति — समार्तेति । समा ऋ स् त इति स्थितेउश्चे॑ति कित्त्वाद्गुणनिषेधे ‘आटश्च’ इति वृदिंध बाधित्वा परत्वात्ह्रस्वादङ्गा॑दिति सिचो लोपेआटश्चे॑ति ऋकारस्य वृद्धौ रपरत्वे रूपम् । न च सिज्लोपस्याऽसिद्धत्वात् आटश्चेति वृद्धौ कृतायां ह्रस्वादङ्गादिति सिज्लोपस्याऽप्रवृत्त्या समार्ष्टेत्येवोचितमिति वाच्यम्,सिज्लोप एकादेशे सिद्धो वाच्यः॑ इति वचनेन पूर्वं सिज्लोपे पश्चादाटश्चेति वृद्धेः प्रवृत्तिसंभवादित्यलम् । इयर्तेस्त्विति । श्लुविकरणऋधातोरित्यर्थः । मा समरतेति । सर्तिश#आस्त्यर्ति॑ इत्यङ्, तत्र इयर्तेग्र्रहणादिति भावः । ‘ऋदृशोऽङि’ इति गुणः । समारतेति । ‘आटश्च’ इति वृद्धिः । इति चेति । इयर्ते रूपमत्यन्वयः । तदेवमर्तिश्रुदृशिभ्य इत्यत्र अर्तिप्रपञ्चमुक्त्वा श्रुदातोरुदाहरति — संशृणुते इति । दृशेरुदाहरति - संपश्यते इति । अकर्मकादित्येवेति ।समो गम्यृच्छिभ्या॑मित्यत्र अक्रमकादित्यनुवृत्तेरभ्युपगतत्वेन तत्रोपसंख्यातवार्तिकेऽस्मंस्तदनुवृत्तेर्युक्तत्वादिति भावः । अत एवेति ।प्रमादिक इत्याहु॑रित्यत्रान्वयः, सकर्मकत्वेनात्मनेपदाऽसंभवादिति भावः । अध्याहारो वेति ।इति कथयद्भ्यट इत्यध्याहारो वेत्यन्वयः । तथा च रक्षांसीति कथयद्भ्यः पुरा संशृणुमहे इत्यत्र कथन एव रक्षसामन्वितत्वात् श्रुवोऽकर्मकत्वादात्मनेपदं निर्बाधमिति भावः । धातोरिति । धातोरर्थान्तरे वृत्तेरिति, धात्वर्थेनोपसंग्रहादिति, प्रसिद्धेरिति, अविवक्षात इति चत्वारि वाक्यानि । अकर्मिका क्रियेति सर्वत्रान्वेति । ‘कर्मण’ इति तु द्वितीयादिषु वाक्येष्वन्वेति । वहति भारमिति । प्रापयतीत्यर्थः । अत्र सकर्मकत्वमिति भावः । अस्याऽर्थान्तरे क्वचिदकर्मकत्वमुदाहरति — नदी वहतीति । स्यन्दते इति । प्ररुआवतीत्यर्थः । धात्वर्थोपसङ्ग्रहे उदाहरति — जीवतीति । नृत्यतीति । जीवेः प्राणधारणमर्थः । नृतेस्त्वङ्गविक्षेपः । उभयत्रापि कर्मणो धात्वर्थान्तर्भावान्न सकर्मकत्वमिति ‘सुप आत्मनः’ इति सूत्रे भाष्ये स्पष्टम् । मेघो वर्षतीति । वर्षकर्मणो जलस्य प्रसिद्धत्वादकर्मकत्वम् । हितान्न य इति । हितात्पुरुषाद्यो न संशृणुते = स्वरहितं न मन्यते स किंप्रभुः, कुत्सित इत्यर्थः । अत्र स्वहितस्य वस्तुतः कर्मत्वेऽपि तदविवक्षया अकर्मकत्वमिति भावः । एवं चास्मिन्नकर्मकाधिकारे हनिगम्यादीनां सतोऽपि कर्मणोऽविवक्षया अकर्मकत्वं सिद्धमिति बोध्यम् । अकर्मकत्वनिर्णयोऽयं ‘लः कर्मणि’ इत्यादौ उपयुज्यते । उपसर्गादस्यत्यूह्रोर्वेति ।आत्मनेपद॑मिति शेषः । निवृत्तमिति । सोपसर्गयोरस्यत्यूह्योः सकर्मकत्वनियमादिति भावः ।
Tattvabodhini¶
वेत्तेर्विभाषा - वेत्तेर्विभाषा ।शीङो रु॑डित्यतो रुडनुवर्तते,अदभ्यस्ता॑ दित्यतोऽदित्यनुवर्त्त्य षष्ठन्तत्वेन विपरिणम्यत इत्याह — अतो रुडागम इति ।* अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम् । अङ्विधौ त्विति ।सर्तिशास्त्यर्ती॑ति लुप्तविकरणेन शासिना साहचर्यादिति भावः । मा समृतेति ।उश्चे॑ ति कित्त्वम् । माङ्योगादडभावपः । समार्तेति । ननु सिज्लोपस्याऽसिद्धत्वात्आटश्चे॑ति वृद्धौ कृतायांह्रस्वादङ्गा॑दिति सिज्लोपाऽप्रवृत्त्या समार्ष्टेति रूपं स्यात् । न च ह्रस्वाद्विहितस्येति व्याख्यानदिष्टसिद्धिरिति वाच्यं, विहितविशेषणे मानाऽभावात् । उदायत आहतेत्याद्यसिद्ध्यापत्तेश्च । अत्र केचित् — सिज्लोप एकादेशे सिद्धो वाच्यः॑ इत्यनेन पूर्वं सिज्लोपे पश्चाद्वृद्धिर्भवति,एकादेशे॑ इति विषयसप्तम्याश्रयणात् । न चैवमध्यैष्टेति न सिध्येत्, तत्राप्युक्तरीत्या पूर्वं सिज्लोपे वृद्धौ सत्यामध्यैतेति रूपप्रसङ्गादिति वाच्यम्,वार्णादाङ्गं बलीयः॑ इति पूर्वमेव गुणे कृते सिज्लोपो न प्रवर्तते इतिआटश्चे॑ति वृद्धौ कृतायामध्यैष्टेति रूपस्य निर्बाधत्वात् । समार्तेत्यत्र तुउश्चे॑ ति कित्त्वेन गुणाऽप्रवृत्त्या पूर्वमेव सिज्लोपे पश्चात्आटश्चे॑ति वृद्धिरिति वैषम्यमित्याहुः । अन्ये तु — सिज्लोपानन्तरं यत्रैकदेशः प्रसज्यते तत्रैव सिज्लोपः सिद्धो, यथा अग्रहीदिति । न चात्र तादृशो विषयोऽस्ति । किं चवार्णादाङ्गं बलीयः॑ इति पूर्वमेव गुणे कृते इत्यादि यदुक्तं, तदसत् । समानाश्रये हि वार्णादाङ्गं बलीयः । अन्यथा द्यौरिवाचरति द्यवतीत्यत्र यण्न स्यात् । किं तुपुगन्ते॑ति गुण एव स्यात् । तथा च समार्ष्टेत्येव वक्तव्ये समार्तेति लेखकप्रमाद इत्याहुः ।
Padamanjari¶
संविद्रत इति । समो गम्यृच्छि इत्यादिनात्मनेपदम् । वित इत्यादि । विद विचारणे, रुधादिरनुदातेत् । सतालाभार्थयोस्तु विकरणव्यवधानादेवाग्रहणम् । अत्र च बहुवचनं प्रत्युदाहरणम्, इतरयोरुपन्यासो विचारणार्थस्येदं बहुवचने रुपमिति प्रदर्शनार्थम् । विदन्ते इति रुपस्य लाभार्थे तौदादिके स्वरितेत्वादात्मनेपदे एकवचने शे मुचादीनाम् इति नुम्यपि कृते सम्भवात् । किञ्च - वेतेरिति श्तिपा निर्द्देशादेव यङ्लुकि न भवति - व्यतिवेविदते इति ॥
Nyaas¶
संविद्रते, संविदते इति। विद ज्ञाने (धातुपाठः-1064)। समोभ्यृच्छि (1.3.29) इत्यादिनाऽत्मनेपदम्, अदादित्वाच्छपो लुक्। संविद्रताम्, संविदताम् इति। लोट्। देरेत्त्वे कृते आमेतः (3.4.90) इत्याम्। वेत्तेरिति लुग्विकरणस्य ग्रहणं किम् इति। एवं मन्यते - विधेरिति सामान्यनिर्देशेन सर्वविदीनां ग्रहणमस्तु, लघु ह्रेवं सूत्रं भवति, सत्यपि सर्वविधीनां ग्रहणे लुग्विकरणादेव भविष्यति, नान्यतः, विकरणेन व्यवधानात्। यद्यविशेषेण विदीनां ग्रहण स्यात्? विद विचारणे (धातुपाठः-1450) इत्यस्मादपि रौधादिकात्? स्यात्, न ह्यत्र विकरणो व्यवधायकः; धात्वन्तःपातित्वात्? इत्यत आह - इह इत्यादि। विन्ते, विन्दाते, विन्दते इति। अनुदात्तेत्त्वादात्मनेपदम्, श्नसोरल्लोपः (6.4.111) । अत्र तु विन्दते इति बहुवचनान्तं प्रत्युदाहरणम्। एकवचनद्विवचनयोरुपन्यासो विदेर्विचारणार्थस्य रूपमिति प्रदर्शनार्थः; अन्यथा विन्दते इत्येताचत्युच्यमाने लाभार्वस्य विदेरेकवचनान्तमिदं रूपमिति कस्यचिद्भ्रान्तिः स्यात्। श्तिपा निर्देशाद्यङ्लुकि न भवति - संवेविदते, व्यतिवेविदते॥ अदुह्य इति। स्वरिरेत्त्वादात्मनेपदम्। ननु च विभाषाग्रहणानुवृत्तेरेवादुह्यतेत्यादि सिद्धम्, किं बहुलवचनेनेति यश्चोदयेत्? तं प्रत्याह - बहुलवचनात् इत्यादि। विभाषानुवृत्त्या हि विकल्पमात्रं लभ्यते, न त्वन्यत्रापि भवति। बहुलवचनादन्यत्रापि भवति। तेन विभाषायां प्रकृतायां बहुलवचनमिति भावः। अदृश्रन् इति। दृशेर्लुङ्, झेरन्तादेशः, इरितो वाट (3.1.57) इति च्लेरङ्, तस्य रुट्? `इतश्च (3.4.100) इतीकारलोपः, संयोगन्तस्य (8.2.23) इति तकारस्य च, अतो गुणे (6.1.97) पररूपत्वम्। अथात्र ऋवृशोरङि (7.4.16) इति गुण कस्मान्न भवति? क्ङिति च (1.1.5) इति प्रतिषेधादिति चेत्? न; तसय ङित्येव विधानात्। सार्वधतुकस्य ङितमाश्रित्य प्रतिषेधः प्राप्नोतीति चेत्? न; एकादेशः पूर्वविधौ स्थानिवद्भवतीति यश्चोदयेत्, तं प्रत्याह - ऋदृशोऽङि गुणः इति॥
Prakriyasarvasvam¶
अस्मात्परस्य झादेशस्यातो वा रुट् स्यात् । संविद्रते, संविदते । संवित्से । संविध्वे । संविदे । संविद्वहे । संविदीत । संविदीयाताम् । संविदीरन् । संवित्ताम् । संविदाताम् । संविद्रताम् । संविदताम् । संवित्स्व । संविध्वम् । संवेदै । संवेदावहैं । समवित्त । समविदाताम् । समविद्रत, समविदत । समवित्थाः । समविध्वम् । समविदि, समविद्वहि । समवेदिष्ट । समवेदिषाताम् । संविदाञ्चक्रे, संविदाम्बभूव, संविविदे । संविविदिषे । संवेदिषीष्ट संवेदिता । इत्यादि । एवं व्यतिवित्त इत्यादि । अस भुवि । अस्ति ।
Sutra Prayogas¶
संविद्रते (भट्टिकाव्यम्): वेत्तेर्विभाषा इति रुद।
संविद्रते (भट्टिकाव्यम्): वेत्तेर्विभाषा इति रुट्।