71005: आत्मनेपदेष्वनतः¶
Padacheda: आत्मनेपदेषु | S | 7 | 3 |
अनतः | S | 5 | 1 |
Sutrartha¶
आत्मनेपदस्य विषये अनदन्तात् अङ्गात् परस्य प्रत्ययस्य झकारस्य ‘अत्’ आदेशः भवति ।
‘अनदन्तम्’ अङ्गम् इत्युक्ते ‘न अदन्तम्’ । यत्र अङ्गम् ह्रस्व-अकारान्तम् नास्ति, तत्र तस्मात् परस्य आत्मनेपदस्य ‘झ’ प्रत्ययस्य अत्-आदेशः भवति । उदाहरणानि एतानि - 1. स्वादिगणस्य ‘सु’ धातोः आत्मनेपदस्य लट्-लकारस्य प्रथमपुरुष-बहुवचनम् इदम् - सु + लट् [वर्तमाने लट् (3.2.123) इति लट्-लकारः] → सु झ [तिप्तस्झि.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य प्रत्ययः ‘झ’] → सु श्नु झ [स्वादिभ्यः श्नुः (3.1.73) इति विकरणप्रत्ययः ‘श्नु’] → सु नु अत [आत्मनेपदेष्वनतः (7.1.5) इति झकारस्य ‘अत्’ आदेशः] → सु नु अते [टित आत्मनेपदानां टेरे (3.4.79) इति एकारः] → सुन्वते [हुश्नुवोः सार्वधातुके (6.4.87) इति यणादेशः] 2. रुधादिगणस्य ‘रुध्’ धातोः आत्मनेपदस्य लङ्-लकारस्य प्रथमपुरुष-बहुवचनम् इदम् - रुध् + लङ् [अनद्यतने लङ् (3.2.111) इति लङ्] → अट् + रुध् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + रुध् + झ [तिप्तस्झि.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य प्रत्ययः ‘झ’ → अ + रु श्नम् ध् + झ [रुधादिभ्यः श्नम् (3.1.78) इति विकरणप्रत्ययः श्नम्] → अ + रु न् ध् + अत [आत्मनेपदेष्वनतः (7.1.5) इति झकारस्य ‘अत्’ आदेशः] → अरुंधत [नश्चापदान्तस्य झलि (8.3.24) इति अनुस्वारः] → अरुन्धत 3. तनादिगणस्य ‘तन्’ धातोः आत्मनेपदस्य लोट्-लकारस्य प्रथमपुरुष-बहुवचनम् इदम् - तन् + लोट् [लोट् च (3.3.162) इति लोट्] → तन् + झ [तिप्तस्झि.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य प्रत्ययः ‘झ’] → तन् + उ + झ [तनादिकृञ्भ्यः उः (3.1.79) इत्यनेन विकरणप्रत्ययः ‘उ’] → तन् + उ + अत [आत्मनेपदेष्वनतः (7.1.5) इति झकारस्य ‘अत्’ आदेशः] → तन् + उ + अते [टित आत्मनेपदानां टेरे (3.4.79) इति एकारः] → तन् + उ + अताम् [आमेतः (3.4.90) इति एकारस्य आम्-आदेशः] → तन्वताम्
Sutrartha (English)¶
The झकार of the आत्मनेपदी प्रत्यय that follows an अनदन्त अङ्ग gets the ‘अत्’ आदेश.
Vasu English Summary¶
अत् is always the substitute of झ in the आत्मनेपद when it is not preceded by a verbal अङ्ग (stem) ending in अ।
Vasu English Translation¶
अत् is always the substitute of झ in the आत्मनेपद when it is not preceded by a verbal अङ्ग (stem) ending in अ। Thus चिन्वते, चिन्वताम्, अचिन्वत; लुनते, लुनताम्, अलुनत ॥ Why in the Atmanepada? Observe चिन्वन्ति, लुनन्ति ॥ Why “when not preceded by an अ”? Observe च्यवन्ते, प्लवन्ते, in which, though the roots are च्यु and प्लु, they assume the form च्यव and प्लव when the Vikarana शप् is added; the vikarana is added first, because it is nitya; and then the substitution of अन्त or अत for झ, as the case may be. The word अनतः qualifies झ, the झ should be immediately preceded by a stem ending in a non-अ; if some other letter intervenes, the rule will not apply. Thus from शी - शयान्तै, here between शी and झ, intervenes the augment आट्, therefore झ is not preceded by a stem ending in non अ, but by आट् ॥
Kashika¶
आत्मनेपदेषु यो झकारस्तस्यानकारान्तादङ्गादुत्तरस्यादित्ययमादेशो भवति। चिन्वते। चिन्वताम्। अचिन्वत। पुनते। लुनते। लुनताम्। अलुनत। आत्मनेपदेष्विति किम्? चिन्वन्ति। लुनन्ति। अनत इति किम्? च्यवन्ते। प्लवन्ते। नित्यत्वादत्र विकरणे कृते झोऽन्तादेशेन भवितव्यमित्यदादेशो न भवति। अनकारान्तेनाङ्गेन झकारविशेषणं किम्? इह मा भूत् — अद्य श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै (वासि०गृ० १३.२४)॥
Siddhanta Kaumudi¶
अनकारात्परस्यात्मनेपदेषु झस्य अत् इत्यादेशः स्यात् । ऐधिषत । ऐधिष्ठाः । ऐधिषाथाम् ॥इणः षीध्वंलुङलिटां धोऽङ्गात् (SK2247) ऐधिढ्वम् । इड्भिन्न एव इणिह गृह्यते इति मते तु ऐधिध्वम् । ढधयोर्वस्य मस्य च द्वित्वविकल्पात्षोडशरूपाणि । ऐधिषि । ऐधिष्वहि । ऐधिष्महि । ऐधिष्यत । ऐधिष्येताम् । ऐधिष्यन्त । ऐधिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् । ऐधिष्ये । ऐधिष्यावहि । ऐधिष्यामहि । उदात्तत्वाद्वलादेरिट् ॥ प्रसङ्गादनुदात्ताः संगृह्यन्ते - ऊदॄदन्तैर्यौति, रु, क्ष्णु, शीङ्, स्नु, नु, क्षु, श्वि, डीङ्, श्रिभिः ॥ वृङ्, वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥ 1 ॥ शक्लृ, पच्, मुच्, रिच्, वच्, विच्, सिच्, प्रच्छि, त्यज्, निजिर्, भजः ॥ भञ्ज्, भुज्, भ्रस्ज्, मस्जि, यज्, युज्, रुज्, रञ्ज्, विजिर्, स्वञ्जि, सञ्ज, सृजः ॥ 2 ॥ अद्, क्षुद्, खिद्, छिद्, तुदि, नुदः, पद्य, भिद्, विद्यति, र्विनद्, ॥ शद्, सदी, स्विद्यति, स्कन्दि, हदी, क्रुध्, क्षुधि, बुध्यती ॥ 3 ॥ बन्धिर्, युधि, रुधी, राधिर्, व्यध्, शुधः, साधि, सिद्ध्यती ॥ मन्य, हन्नाप्, क्षिप्, छुपि, तप्, तिप, स्तृप्यति, दृप्यती ॥ 4 ॥ लिप्, लुप्, वप्, शप्, स्वप्, सृपि, यभ्, रभ्, लभ्, गम्, नम्, यमो, रमिः ॥ क्रुशिर्, दंशि, दिशी, दृशी, दृश्, मृश्, रिश्, रुश्, लिश्, विश्, स्पृशः, कृषिः ॥ 5 ॥ त्विष्, तुष्, द्विष्, दुष्, पुष्य, पिष्, विष्, शिष्, शुष्, श्लिष्यतयो, घसिः ॥ वसति, र्दह्, दिहि, दुहो, नह्, मिह्, रुह्, लिह्, वहिस्तथा ॥ 6 ॥ अनुदात्ता हलन्तेषु धातवो द्वधिकं शतम् ॥ तुदादौ मतभेदेन स्थितौ यौ च चुरादिषु ॥ 7 ॥ तृप्, दृपी, तौ वारयितुं श्यना निर्देश आदृतः ॥ किं च । स्विद्यपद्यौ, सिध्यबुध्यौ, मन्यपुष्यश्लिषः श्यना ॥ 8 ॥ वसिः शपा लुका यौतिर्निर्दिष्टोऽन्यनिवृत्तये ॥ णिजिर्, विजिर्, शक्लृ, इति सानुबन्धा अमी तथा ॥ 9 ॥ विन्दतिश्चान्द्रदौर्गादेरिष्टो भाष्येऽपि दृश्यते ॥ व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितम् ॥ 10 ॥ रञ्जि, मस्जी, अदि, पदी, तुद्, क्षुद्, शुषि, पुषी, शिषिः ॥ भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसंमतेः ॥ 11 ॥{$ {!3 स्पर्ध!} संघर्षे$} । संघर्षः पराभिभवेच्छा । धात्वर्थेनोपसंग्रहादकर्मकः । स्पर्धते ॥
Laghu Siddhanta Kaumudi¶
अनकारात्परस्यात्मनेपदेषु झस्य अदित्यादेशः स्यात्। ऐधिषत। ऐधिष्ठाः। ऐधिषाथाम्। ऐधिढ्वम्। ऐधिषि। ऐधिष्वहि। ऐधिष्महि। ऐधिष्यत। ऐधिष्येताम्। ऐधिष्यन्त। ऐधिष्यथाः। ऐधिष्येथाम्। ऐधिष्यध्वम्। ऐधिष्ये। ऐधिष्यावहि। ऐधिष्यामहि॥ {$ {! 2 कमु !} कान्तौ $} (धातुपाठे (01.0511)) ॥
Balamanorama¶
आत्मनेपदेष्वनतः - अथ झस्य आदेर्झकारस्य झोऽन्त इत्यन्तादेशे प्राप्ते — आत्मनेपदेषु । ‘झोऽन्त’ इत्यतो झ इति षष्ठन्तमनुवर्तते ।आत्मनेपदेष्वि॑ति षष्ठर्थे सप्तमी । आत्मनेपदावयवस्य झकारस्येति लभ्यते । ‘अदभ्यस्ता’ दित्यतोऽदित्यनुवर्तते । न अत् अनत् । तस्मादिति विग्रहः । तदाह — अनकारादित्यादना । ऐधिषतेति । झावयवझकारस्य अदित्यादेशः । च्लिः । सिच् । इट् । आट् । वृद्धिः । षत्वम् । ऐधिष्ठा इति । थास् च्लिः । सिच् इट् । आट् । वृद्धिः । षत्वं । थकारस्य ष्टुत्वेन ठकारः । रुत्वविसर्गौ । ऐधिषाथामिति । आथाम् । च्लिः । सिच् । इट् । आट् । वृद्धिः । षत्वम् । अथ ध्वमो धस्य ठत्वं स्मारयति — इणः षीध्वमिति । ऐधिढ्वमिति । ध्वम् । च्लिः । सिच् । इट् आट् वृद्धिः । धि चेति सस्य लोपः ।इणः षीध्व॑मिति धकारस्य ढत्वम् । इटो लुप्तसिज्भक्ततया सिजन्ताङ्गान्तर्भूतत्वेन इडन्तस्य इण्णन्ताऽङ्गत्वदिति भावः । इड्भिन्न एवेति । उत्तरसूत्रे ‘विभाषेट’ इत्यत्र इड्ग्रहणात्पूर्वसूत्रे इणः षीध्वमित्यत्र इड्भिन्न एव इण् गृह्रत इति केचिदाहुः । तन्मते तु प्रकृते इटः परत्वाद्धकारस्य ढत्वाऽभावे ऐधिध्वमित्येव रूपमित्यर्थः । इदं तु मतान्तरं भाष्याऽनारूढमिति सूचयितुंतु॑शब्दः । ढधयोरिति । मतभेदमाश्रित्येदम् । ढत्वाऽभावपक्षे धकारस्य अनचि चेति द्वित्वविकल्पाद्द्विधमेकधमिति रूपद्वयम् । एवं ढत्वे द्विढम्, एकढ॑मिति रूपद्वयम् । रूपचतुष्टयेऽपियणो मयो द्वे वाच्ये॑ इत्यत्र मय इति पञ्चमीमाश्रित्य वकारस्य द्वित्वविकल्पादेकवकाराणि द्विवकाराणि च प्रागुक्तानि चत्वारि रूपाणि भवन्ति । तथा च अष्टौ रूपाणि संपन्नानि । मकारस् द्वितवविकल्पादेतान्यष्टौ रूपाणि एकमकाराणि द्विमकाराणि चेति षोडश (१६) रूपाणि संपन्नानीत्यर्थः । ऐधिषीति । लुङ इडादेशः । च्लिः । सिच् । इडागमः । आट् । वृद्धिः । वहिमह्रोस्तु च्लेः सिचि इडागमेआटि वृद्धौ ऐधिष्वहि ऐधिष्महीति रूपे । इति लुङ्प्रक्रिया । ऐधिष्यतेति । लृङस्तादेशः । स्यः । इट् ।आट् । वृद्धिः । षत्वम् । ऐधिष्येतामिति । आतां स्यः । इट् । आकारस्य इय् । आद्गुणः यलोपः । आट् वृद्धिः । षत्वम् । ऐधिष्यन्तेति । झावयवझकारस्यान्तादेशः । स्यः । इट् आट् वृद्धिः । षत्वम् । ऐधिष्यता इति । थास् । स्यः । इट् आट् । वृद्धिः । रुतविसर्गौ । ऐधिष्येथामिति । आथाम् । स्यः । इट् । आकारस्य इय् । आद्गुणः । यलोपः । आट् । वृद्धिः । षत्वम् ।ऐधिष्यध्वमिति । ध्वम् । स्यः । इट् । आट् । वृद्धिः । ऐधिष्य इति । इडादेशः । स्यः । इडागमः । षत्वम् । आद्गुणः । वहिमह्रोस्तु स्यः । इट् । अतो दीर्घः । आट् । वृद्धिः । षत्वम् । ऐधिष्यावहि ऐधिष्यामहि इति रूपे । नन्वेधधातोरनुदात्तेत्कत्वादेकाच उपदेशेऽनुदात्तादितीण्निषेधः कुतो न स्यादित्यत आह — उदात्तत्वादिति । एध धातुर्यद्यपि अनुदात्तेत्तथापि अनुदात्तस्याऽतो लोपे सति परिशिष्टो धातुर्नानुदात्त इति भावः । ननु कतिपये धातवः पाणिनिना अनुदात्ता उच्चरिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह — प्रसङ्गादिति.स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः । पाणिनिपठितानामनुदात्तधातूनां तदानीन्तनशिष्यपरम्परया आनुनासिक्यवदिदानीं ज्ञनं संभवतीति भावः । ऊदृदन्तैरिति । अजन्तेषु धातुषु ऊदन्तैः ॠदन्तैस्च धातुभिर्विना, यु रु क्ष्णु शीङ् स्नु नु क्षु इआ ङीङ् श्रि — एतैश्च धातुभिर्विना, वृङ् वृञ् — आभ्यां च विना, अन्ये एकाचोऽजन्तधातवो निहिताः = अनुदात्ताः स्मृताः । पाणिनिशिष्यपरम्परया ज्ञाता इत्यर्थः । अथ हलन्तेषु अनुदात्तान्धातून् परिगणयति — शक्लृ पच् मुचिति । शक्लृ पच् मुच् रिच् वच् विच् सिच् प्रच्छि त्यज् निजिर्भज् — एषां द्वन्द्वः । तत्र कान्तेषु शक्लृ इत्येकः । ऌकार इत् । भाष्ये तु अनुबन्धरहितः पाठो दृश्यते । चान्तेषु पच् मुच् रिच् वच् विच् सिच् इति षट् । अत्र डुपचष् इत्यस्यैव ग्रहणं,प्रसिद्धत्वात्, न तु पचि व्यक्तीकरणे इत्यस्येत्याहुः । मुच्लृ मोक्षणे इत्यस्यैव ग्रहणं, न तु मुचि कल्कन इति भौवादिकस्य । अविशएषात्सर्वस्यत्यन्ये । छान्तेषु प्रच्छ् एकः । प्रच्छीतीकार उच्चारणार्थः । णिजिरित्यत्र इर इत्संज्ञा वक्ष्यते । भुञ्ज भुजित्यादि सृज इत्यन्तमेकं पदम् । जान्तेषु — त्यज् निज् भज् भञ्ज् भुज् भ्रस्ज मस्ज् यज् युज् रुज् रञ्ज् सृज् इति पञ्जदश । अद् क्षुदित्यादि नुद इत्यन्तमेकं पदम् । तत्र तुदेरिकार उच्चारणार्थः । पद्यभिदित्येकं पदम् । समाहारद्वन्द्वः ।पद्येति श्यना निर्देशः । विद्यतिरिति श्यना निर्देशः । विनदिति श्नमा निर्देशः ।शद्-सदीत्यादि बुध्यतीत्यन्तमेकं पदम् । समाहारद्वन्द्वः ।सदि स्कन्दि हदि क्षुधि इति इका निर्देशः ।स्विद्यति — बुध्यतीति श्तिपा श्यन्विकरणयोर्निदेशः । ततश्च दान्तेषु-अद् क्षुद् खिद् छिद् तुद् नुद् पद् (श्यन्विकरणः), भिद् विद् (श्यन्विकरणः), विद् (श्नम्विकरणः),शद् सद् स्विद्(श्यन्विकरणः), स्कन्द् हद् इति पञ्चदश । बन्धिरिति इका निर्देशः । युधि-रुधी इत्येकं पदम् । इका निर्देशः । ‘राधिंव्यधशुधः’ इत्येकं पदम् । राधीति इका निर्देशः । साधिसिध्यती इति द्वन्द्वः । साधीति इका निर्देशः । ततश्च धान्तेषु — क्रुध् क्षुध् (श्यन्विकरणः),बन्ध् युध् रुध् राध् व्यध् शुध् साध् सिध् (श्यन्विक्रणः) — इत्येकादश । मन्येत्यादि तिप इत्यन्तमेकं पदम् । मन्येति श्यना निर्देशः । छुपीति इका निर्देशः ।तृप्यतिदृप्यती॑इति द्वन्द्वः । श्यना निर्देशः । लिबित्यादि यम इत्यन्तमेकं पदम् । सृपीति इका निर्देशः । रमिरिति भिन्नं पदम् । इका निर्देशः । तथा च नान्तेषु मन् हन्निति द्वौ । मनिः श्यन्विकरणः ।पान्तेषु — आप् क्षिप् छुप् तप् तिप् तृप् दृप् लिप् लुप् वप् शप् खप् सृप् इति त्रयोदश । भान्तेषु — यभ् रभ् लभ् इति त्रयः । मान्तेषु — गम् नम् यम् रम् इति चत्वारः । क्रुशिरित्यादि स्पृश इत्यन्तमेकं पमद् । दृशिरितिच इरित् । कृशि दिशि दंशीति इका निर्देशः । तथा च शान्तेषु क्रुश् दंश् दृश् दिश् मृश् रिश् रुश् लिश् विश् स्पृश् इत्येते दश । कृषिरितिपृथक्पदम् । इका निर्देशः । त्विषित्यादि श्लिष्यतय इत्यन्तमेकं पदम् । पुष्येति श्यना निर्देशः । श्लिष्यतीति श्यन्विकरणस्य श्तिपा निर्देशः । तथा च षान्तेषु कृष् त्विष् तुष् द्विष् दुष् (श्यन्विकरणः), पिष् विष् शिष् शुष् श्लिष् (श्यन्विकरणः)-इत्येकादश । घसिरिति पृथक्पदम् । इका निर्देशः । वसतिरिति पृथक्पदं । श्तिपा निर्देशः । सान्तेषु घस् वस् इति द्वौ । दह्दिहिदुह इति द्वन्द्वः । दिहीति इका निर्देशः । नह मिह रुह् लिह् इति समाहारद्वन्द्वः । वहिरिति पृथक्पदम् । इका निर्देशः । तथेति चकारपर्यायः । हान्तेषु — दह् दिह् दुह् नह् मिह रुह् लिह् वह् इत्यष्टौ । द्व्यधिकं शतमिति । भाष्ये मृषेः षान्तेषु पाठस्तु लेखकप्रमादकृत इति भावः । अथ पान्तेषु द्वयोः श्यना निर्देशस्य फलमाह — तुदादाविति । यौ तृप्दृपी तुदादौ चुरादौ च मतान्तरीयत्वेन धातुपाठे स्थितौ तौ अनुदात्तेभ्यो वारयितुं श्यना निर्देशोऽभ्युपगत इत्यर्थः । अत एवशे मुचादीना॑मिति सूत्रभाष्ये तृपतो दृपित इत्युदाहृतं सङ्गच्छत इति भावः । किं चेति । अन्यदपि वक्ष्यत इत्यर्थः । अन्यनिवृत्तय इति । विकरणान्तरनिवृत्तय इत्यर्थः । तच्चाग्रे तत्तदाद्र्धदातुकनिरूपणे स्पष्टीभविष्यति । अमी तथेति । उक्तानुबन्धरहितानां व्यावृत्तय इत्यर्थः । एतदपि तत्तदार्धधातुकनिरूपणे स्पष्टीभविष्यति । अमी तथेति । उक्तानुबन्धरहितानां व्यावृत्तय इत्यर्थः । एतदपि तत्तदार्धधातुकनिरूपणे स्पष्टीभविष्यति । विन्दितिरिति । ‘विद्लृ लाभे’ इति तौदाद#इकः । चान्द्रदौर्गादिव्याकरणसम्मतः । भाष्येऽपि दृश्यत इति । विन्दतिविनत्तिविद्यतीति तत्र पाठादिति भावः । एनमिति । विन्दतिमित्यर्थः । नेह पेठुरिति । तथापि भाष्यप्रामाण्यादस्याऽनिट्कत्वमिति भावः । ‘रञ्जिमस्जी’ इत्येकं पदम् । नुद् क्षुध् इति पृथक्कृते पदे । ‘शुषिपुषी’ इत्येकं पदम् । शिषिरित्यनन्तरम् ‘इत्येते’ इति शेषः । नवेहेति । नव धातवो भाष्यानुक्ता अपि इहानुदात्तेषु परिगणिता इत्यर्थः । कुत इत्यत आह — व्याघ्रभूत्यादिसम्मतेरिति । भाष्ये त्वेभ्यो नवभ्योऽन्येषां परिगणनं नवानामप्येषामुपलक्षणमिति भावः ।तेन रक्तं रागात्,तदस्मिन्नन्नं प्रायेण॑,क्तोऽकृतमितप्रतिपन्नाः॑शुष्कधृष्टौ॑, क्तेन नञ्विशिष्टेने॑त्यादिसौत्रप्रयोगाः, नुन्नः मग्नः पुष्टः मङ्क्ता मङ्क्तव्यमित्यादिभाष्यप्रयोगाश्चात्र लिङ्गम् । [इत्यनिट्कारिकाः] । स्पर्ध सङ्घर्षे इति । ‘वर्तते’ इति शेषः । पराभिभवेति । परस्याभिभवः पराजयः । तद्विषयकेच्छेत्यर्थः । नन्वत्रेच्छायां पराभिभवस्य कर्मतया स्पर्धधातोः सकर्मकत्वद्देवदत्तो यज्ञदत्तं स्पर्धयतीत्यादौगतिबुद्धिप्रत्यवसानार्थशब्दकर्माऽकर्मकाणा॑मित्यकर्मककार्यं कथमित्यत आह — धात्वर्थेनोपसङ्ग्रहादिति ।धात्वर्थबहिर्भूतकर्मकत्वमेव सकर्मकत्व॑मितिसुप आत्मनः क्य॑जिति सूत्रभाष्ये प्रपञ्चितत्वादिति भावः । नचैवं सति पदव्यवस्थायां ‘स्पर्धायामाङ’ इत्यत्रकृष्णश्चाणूरमाह्वयते,स्पर्धत इत्यर्थ॑ इति मूलग्रन्थविरोध इति वाच्यं, तत्र स्पर्धेरभिवपूर्वकाह्वाने वृत्तेरित्यलम् । स्पर्धत इति ।कत्थन्ता षट्त्रशदनुदात्ते॑ इत्युक्तेरात्मनेपदम् । एधदातुवल्लटि रूपाणीति भावः । धातोरिजादित्वाऽभावादिजादेश्चेति लिटआम्न । अत एवा नानुप्रयोगोऽपि ।
Tattvabodhini¶
आत्मनेपदेष्वनतः - आत्मनेपदे ।झोऽन्तः॑ इत्यतोझ॑ इतिअदभ्यस्ता॑दित्यास्माददिति चानुवर्तते । तदाह — झस्य अत्स्यादिति । आत्मनेपदेषु किम् । अदन्ति । सुन्वन्ति । अनतः किम् । एधन्ते । प्लवन्ते । इड्भिन्न एवेणिति ।विभाषेटः॑ इति इटो विशिष्यग्रहणाद्गोबलीवर्दन्यायेन कैश्चिदिड्भिन्न एवेणिह गृह्रते इति भावः । ऊदृदन्तैरित । ऊदृदन्तैर्विना, यौत्यादिभिर्विना, वृङ्वृरञ्भ्यां च विना अन्ये ये एकाचोऽजन्तास्ते निहताः । अनुदात्ता इत्यर्थः । तथा च दाता धाता चेता स्तोतेत्यादिषु इण्न भवति । ऊदन्ता भूलूप्रभृतयः । ॠदन्ताः कृतृप्रभृतयः ।यु मिश्रणादौ॑ ।रु शब्दे॑,रुङ् गतिरेषणयोः॑ इत्युभयोग्र्रहणम्, निरनुबन्धपरिभाषया,लुग्विकरणाऽलुग्विकरणयोः॑ इति परिभाषया च । नच साहचर्याल्लुग्विकरणस्यैव ग्रहणमिति शङ्क्यम्, तस्याऽनितय्त्वात् ।क्ष्णु तेजने॑ ।शीङ् स्वप्ने॑ष्णुप्रस्नवणे॑ ।णुस्तुतौ॑ ।टुक्षु शब्दे॑ ।टुओश्वि गतिवृद्ध्योः॑डीङ् विहायसा गतौ॑ ।श्रिञ् सेवायाम् ।वृङ् संभक्तौ॑ ।वृञ् वरणे॑ । नन्वेतद्भिनानामेकाचामेवानुदात्तत्वे ऊर्णुतः ऊर्णुतवानित्यादि न सिध्येदिति चेत् । मैवम् ।ऊर्णोतेर्णुव्दभावो वाच्यः॑ इति वक्ष्यमाणवार्तिकेन#एष्टसिद्धः । तेन ऊर्णोनूयते इत्यत्र तुधातोरेकाच॑ इति यङ् । ऊर्णुनावेत्यत्राऽनेकाच्त्वेन प्रवनृत्तस्याऽऽमोऽभावश्च सिध्यति । उक्तं च भाष्ये -वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम् । आमश्च प्रतिषेधार्थमेकाचश्चेदुपग्रहात्॥ इति ।विभाषा गुणेऽस्त्रिया॑मिति हेतावियं पञ्चमी । हेतुरिह फलम् । एतच्च कैयटे स्पष्टम् । उपग्रहः — प्रतिषेधः । इट्प्रतिषेधार्थमित्यर्थः । एवं च णुवद्भावेनैकाच्त्वात्श्र्युकः किती॑ति निषेधप्रवृत्तेरूर्णुत इत्यादि सिध्यति ।एकाच उपदेशे॑ इतीण्निषेधस्तु न प्रवर्तते, णुवद्भावनैकाच्त्वेऽप्यनुदात्तत्वाऽभावात्, ऊर्णुधातोर्णुदातोश्चोदात्तत्वात्, तता चोर्णविता औंर्णावीदित्याद्यपि सिद्धम् ।वसतिशक्लृघस्लृभ्यः॑ इतिप्राचो ग्रन्थस्तं पाठमुपेक्ष्य हलन्तेषु कादिक्रमेणाह — शक्लृ इति । कान्त एकः । चान्तेषु पच् मुच्रिच्वच्सिचः षट् ।डुपचष् पाके॑ ।पचि व्यक्तीकरणे॑ । द्वावपिप॑चित्यनेन गृह्रेते ।मुच्लृ मोक्षणे॑ ।रि॑चित्यनेनरिचिर्विरेके॑रिच वियोजनसंपर्चनयोःर॑ इतियौजादिकश्च गृह्रेते ।व॑चित्यनेन तुवच परिभाषणे॑ ब्राउवो वचिरपि । वचिर्यौजादिकोऽपि गृह्रते ।विचिर्पृथग्भावे॑ ।षिच क्षरणे॑ । छान्तेषु प्रच्छ्येकः । जान्तेषु त्यज्निजिर्भज्भञ्ज्भुज्भ्रस्ज्मस्ज्यजयुज्रुज्रञ्ज्विजिर्स्वञ्ज्सञ्ज्सृजः पञ्चदश । भुजित्यनेनभुज पालनाभ्यवहारयोः॑भुजो कौटिल्ये॑ इति च गृह्रते । युजित्यनेनयुजिर्योगे॑,युज समाधौ॑ इति च गृह्रते । केचित्तु व्याघ्रभूतिश्लोके भाष्ये च युजित्येतत्युजिर्योगे॑ इत्यस्यैकदेशोच्चारणित्याहुस्तनमतयुज् समाधौ॑ सेट् । सृजित्यनेन तुसृज विसर्गे॑ दिवादिस्तुदादिश्च गृह्रते । दान्तेषु अद्क्षुद्खिद्छिद्तुद्नुद्पद्यभिद्विद्यतिर्विनद्शद्शद्स्विद्यस्कन्दहदः पञ्चदश । खिदित्यनेनखिद दैन्ये॑ खिद्यतिः खिन्दतिः खिनत्तिश्च गृह्रते । विद्यतीति ।विद सत्तायाम् विनदिति ।विद विचारणे॑ । धान्तेषु क्रुध् क्षुध्बुध्यबन्धयुध्रुध्राध्व्यध्शुध्साध्सिध्यतय एकादश । रुधित्येनरुधिर् आवरणे॑अनो रुध कामे॑ इति दिवादिश्च गृह्रते । नान्तेषु मन्यहनौ द्वौ ।मन ज्ञाने॑ दिवादिः । पान्तेषु आप्क्षिप्छुप्तप्तिप्तृप्यदृप्यलिप्लुप्वप्शप्स्वप्सृपस्त्रयोदश । क्षिपित्यनेनक्षिप प्रेरणे॑ क्षिप्यतिः क्षिपतिश्च गृह्रते ।छुप स्पर्शे॑ । तपित्यनेनतप संतापे॑,तप ऐआर्ये॑ दिवादिः ।तप दाहे॑ इत्यपि णिजभावपक्षे गृह्रते ।तिपृ क्षरणे॑ । तृप्यतिदृप्यत्योर्वेट्कत्वेऽपिअनुदात्तस्य चर्दुपधस्येऽत्यमर्थोऽत्र पाठः । भान्तेषु यभ्रभ्लभस्त्रयः । मान्तेषु गम्नम्यम्रमश्चत्वारः । शान्तेषु क्रुश्दंश्दिश्दृश्मृश्रिश्रुश्लिश्विश्स्पृशो दश ।रिश् रुश् हिंसायाम् ।लि॑शित्यनेनलिश् अल्पीभावे॑ दिवादिः,लिश गतौ॑तुदादिश्च गृह्रते । षान्तेषु कृष्ट्विष्टुष्द्विष्दुष्पुष्य्पिष्विष्शिष्शुष्श्लिष्य एकादश । कृषिति भौवादिकतौदादिकौ गृह्रेते । विषित्यनेनविष्लृ व्याप्तौ॑ जिष्विष्मिषितिदण्डकस्थोऽपि गृह्रते । शिषित्यनेन तुशिष्लृ विशेषणे॒॑कष खष विषे॑ति दण्डकस्थश्च गृह्रते । विषितिविष्लृ व्याप्तौ॑ इति जौहोत्यादिक एव गृह्रते न तचु दण्डकस्थः । शिषित्यनेनापिशिष्लृ विशेषणे॑ इति रौधादिक एव न तु दण्डकस्थ इति बोपदेवादयः । सान्तेषु घस्लृवसती द्वौ ।घस्लृ अदने॑ ।लुह् सनोर्घस्लृ॑ इत्यत्तेरादेशस्य तु स्थान्यनुदात्तत्वेनापि सिद्धम् । हान्तेषु दह्दिह्दुह्मिह्नह्रुह्लिह्वहयोऽष्टौ । दुहिरिति भौवादिको न गृह्रते किं तुदुह प्रपूरणे॑ इति आदादिक एवेति प्राञ्चः । इह मनोरमामां सङ्गहश्लोक उक्तः — कचच्छजा दधनपा भमशाः षसहाः क्रमात् । कचका णणटाः खण्डो गघञाष्टखजाः स्मृताः॑ इति । तत्र पूर्वार्धोपात्ता ये चतुर्दश वर्णास्तदन्ता धातव उत्तरार्धोपात्तकादिक्रमेण ये वर्णास्तत्संख्याका बोध्या इत्यर्थः । अत एवकान्त एकः, चान्ताः षट्, छान्त एकः, जान्ताः पञ्चदशेत्यादि व्याख्यातम् । क इत्येकस्य, चेति षण्णां, ण इति पञ्चदशानां संज्ञेत्याद्यभ्युपगमात् । पान्तेषु द्व्योः श्यना । निर्देशस्य फलमाह — तुदादाविति । तृप्-दृपी मतभेदेन तुदादौ स्थितौ । चुरादौ तु तृपिः सर्वमतेन स्थितः । दृपिस्त्वेकीयमतेनेति विवेकः । अत एव वक्ष्यति — तृप तृम्फ तृप्तौ॑ । द्वावपि द्वितीयान्तावित्यन्ये ।दृप दृम्फ उत्क्लेशे॑ । प्रथमः प्रथमान्तः, द्वितीयो- द्वितीयान्तः । प्रथमो द्वितीयान्त इत्येके इति च तुदादौ । चुरादौ तु-तृप तृप्तौ॑ तृप दृप संदीपने॑ इत्येके इति च । अन्यनिवृत्तये इति । निवर्तनीयास्तुञिष्विदा स्नेहनमोचनयोः॑ । पद स्थैर्ये॑ । षिध गत्याम् । षिधू शास्त्रे माङ्गल्येचट । बुधिर्बोधने॑ इति भौवादिः ।मनु अवबोधने॑ तानादिकः ।पुष पुष्टौ॑ भौवादिकः क्रैयादिश्च ।श्लिष दाहे॑ भौवादिकः ।वस आच्छादने॑ आदादिकः । एते अनुदात्तत्वराहित्यात् सेटः । युञ् बन्धने॑ क्रैयादिकोऽयमनुदात्त इत्यनिट् । श्यना निर्देशेन सङ्ग्रह्रास्तुञिष्विदा गात्रप्रक्षरणे॑ ।पद गतौ॑ । षिधू संराद्धौ॑ ।बुध अवगमने॑ । मन ज्ञाने॑ । पुष पुष्टौ॑ ।श्लिष आलिङ्गने॑ ।वस निवासे॑ । एतेऽनिटः ।यु मिश्रणामिश्रणयोः॑ अयं सेट् । अमी तथेति ।णिजि शुद्धौ॑ ।ओविजी भयचलनयोः॑ ।शक मर्षणे॑ इत्येतेषां क्रमेण आदादिकतौदादिकदैवादिकानां व्यावृत्तये सानुबन्धा निर्दिष्टा इत्यर्थः । विन्दतिरिति ।विद्लृ लाभे । इष्ट ।अनिट्त्वेने॑ति शेषः । भाष्यानुक्ता इति । भाष्याकृताऽनुक्ता, न तु प्रत्याख्याता इति नास्तीह तद्विरोधः । ततश्च व्याघ्रभूत्यादिग्रन्थानुरोधात्,शुष्कधृष्टौ॑क्तेन नञ्विशिष्टेनाऽन॑ञित्यादि सौत्रप्रयोगादत्तुं प्रतिपत्तुमित्यादिसार्वलौकिकव्यवहाराच्च उपलक्षणतयैव भाष्यां नेयमिति भावः । अकर्मक इति.अत्र केचित् — अभिभवेच्छा धात्वर्थः । तथा च स्पद्र्धार्थकस्य सकर्मकता दृश्यते,आह्वास्त मेरावमरावतीं या॑इति । उदाहरिष्यते चस्पर्धायामाङः॑ इत्यत्र स्वयमेवकृष्णश्चाणूरमाह्वयते । स्पर्धत इत्यर्थः॑ इति । श्रीहर्षोऽपि प्रायुङ्क्त — तन्नासत्ययुगान्तं वा त्रेता स्पर्द्धितुमर्हति॑ इति । अतोऽस्य सकर्मकत्वं न्याय्यमित्याहुः ।
Padamanjari¶
अनभ्यस्तार्थमिदं वचनम् । चिन्वतामिति । लोट्, टेरेत्वमामेतः । च्यवन्त इति । ननु चात्रापि प्रागेव शपः परत्वाददादेशप्रसङ्गः, अनतः इत्यस्य तु बेभिधन्ते - इत्यादिरवकशः इत्यत आह - नित्यत्वादिति । झकारविशेषणं किमिति । श्रुतानामात्मनेपदानामधिकृतस्य प्रत्ययस्य वा विशेषणे को दोष तैति प्रश्नः । शयान्तै इति । अत्राङ्गस्यानन्तरमात्मनेपदमाटस्तद्भक्तस्य तद्ग्रहणेन ग्रहतथणात्, झकारस्त्वाटा व्यवहितः । अन्तादेशस्त्वङ्गविशेषानुपादानादत्रापि भवति ॥
Nyaas¶
चिन्चेते इति। लट्, स्वरितत्वादात्मनेपदम्। चिन्वताम् इति। लेट्, झः टेरेत्त्वम्, आमेतः (3.4.90) । अचिन्वत इति। लङ्, अडागमः, हुश्नुवोः सार्वधातुके (6.4.87) इति यणादेशः। पुनते, लुनते इति। पूर्ववदाकारलोपः। च्यवन्ते, प्लवन्ते इति। अत्र शपि कृतेऽनकारान्तादङ्गादुत्तरो झकारो न भवति। ननु परत्वाददादेशेन भवितव्यम्, पश्चाद्विकरणेन? इत्यत आह - नित्यत्वादतद्र इत्यादि। नित्यत्वं तु कुताकृतप्रसङ्गित्वात्। विकरणो हि कृतेऽप्यदादेशे प्राप्नोत्यकृतेऽपि, न तु तस्मिन्? कृतेऽद्भावस्य प्राप्तिरस्तीत्यनित्यत्वमस्य। अनकारान्तेन इत्यादि। प्रत्ययः कस्मादनकारान्तेनाङ्गेन न विशिष्यते? इति मन्यमान आह - इह इत्यादि। यदि प्रत्ययो विशिष्येत शयान्तं - इत्यत्रापि स्यात्, भवति ह्यत्राप्यनकारान्तादङ्गादुत्तरो झप्रत्ययः। आटा व्यवहितत्वान्न भवतीति चेत्? न; तस्य तद्भक्तत्वान्न हि तदेकदेशेन व्यवधानं युक्तम्। झकारे तु विशिष्यमाणे न दोषः; आटा व्यवहितत्वात्। समुदायभक्तो ह्राट्? समुदायमेव न व्यवदध्यात्। अवयवं तु व्यवदधात्येव; न ह्रवयवोऽवयवान्तरस्याव्यवधायको दृष्टः। तङ्यनतः, झस्यानतः इति वा वक्तव्ये आत्मनेपदेष्वनतः इति वैचित्र्यार्थम्॥
Sutra Prayogas¶
न्यदधत (शिशुपालवधम्): आत्मनेपदेष्वनतः इति झस्यादादेशः।
शस्त्राण्युपायंसत (भट्टिकाव्यम्): आत्मनेपदेषु इत्यादिना अदादेशः।
आशासते (भट्टिकाव्यम्): आत्मनेपदेष्वनतः इत्यादादेशः।