71006: शीङो रुट् ================ **Padacheda:** शीङः | S | 5 | 1 | रुट् | S | 1 | 1 | Sutrartha --------- **शीङ्-धातोः परस्य झ-प्रत्ययस्य यः अत्-आदेशः भवति तस्य रुट्-आगमः भवति ।** शीङ् (स्वप्ने) इति अदादिगणस्य आत्मनेपदी धातुः । अस्मात् परस्य झ-प्रत्ययस्य **आत्मनेपदेष्वनतः** (7.1.5) इत्यनेन अत्-आदेशे कृते तस्य 'रुट्' आगमः भवति । रुट्-इत्यत्र उकारः उच्चारणार्थः अस्ति, टकारः च इत्संज्ञकः अस्ति । टित्वात् **आद्यन्तौ टकितौ** (1.1.46) इति अयमाद्यवयवः भवति । यथा, शी-धातोः लट्-लकारस्य प्रथमपुरुष-बहुवचनस्य प्रक्रिया इयम् - शी + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → शी + झ [**तिप्तस्झि..** (3.4.78) इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य प्रत्ययः 'झ'] → शी + शप् + झ [**कर्तरि शप्** (3.1.68) इति ओत्सर्गिकं विकरणम् शप्] → शी + झ [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्] → शे झ [**शीङः सार्वधातुके गुणः** (7.4.21) इति अङ्गस्य गुणः] → शे + अत [**आत्मनेपदेश्वनतः** (7.1.5) इति झकारस्य अत्-आदेशः] → शे + रुट् अत [**शीङो रुट्** (7.1.6) इति रुट्-आदेशः] → शे + र् अते [**टित आत्मनेपदानां टेरे** (3.4.79) इति एकारः] → शेरते ज्ञातव्यम् - यत्र झकारस्य 'अत्' आदेशः न भवति, तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, शी-धातोः लृट्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - शी + लृट् [**लृट् शेषे च** (3.3.13) इति लृट्] → शी + स्य + लृट् [**स्यतासी लृलुटोः** (3.1.33) इति विकरणप्रत्ययः 'स्य'] → शी + स्य + झ [**तिप्तस्झि..** (3.4.78) इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य प्रत्ययः 'झ'] → शी + इट् + स्य + झ [**आर्धधातुकस्य इड्वलादेः** (7.2.35) इति इडागमः] → शे + इ + स्य + झ [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः] → शे + इ + स्य + अन्त [**झोऽन्तः** (7.1.3) इति झकारस्य अन्त् -आदेशः] → शे + इ + स्य + अन्ते [**टित आत्मनेपदानां टेरे** (3.4.79) इति एकारः] → शयिस्यन्ते [**एचोऽयवायावः** (6.1.78) इति अयादेशः] → शयिष्यन्ते [**आदेशप्रत्यययोः** (8.3.59) इति षत्वम् ] अत्र झ-प्रत्ययः अदन्तात् अङ्गात् परः आगच्छति, अतः अत्र **आत्मनेपदेश्वनतः** (7.1.5) इत्यस्य प्रसक्तिः नास्ति । अतः अत्र वर्तमानसूत्रेण रुट्-आदेशः अपि न भवति । Sutrartha (English) ------------------- When the झ-प्रत्यय attached to the verb root शीङ् gets the आदेश अत्, then this आदेश also gets a आगम 'रुट्'. Vasu English Summary -------------------- The अत् substitute of झ gets the रुट् augment after the root शी। Vasu English Translation ------------------------ The अत् substitute of झ gets the रुट् augment after the root शी। Thus शेरते, शेरताम्, अशेरत ॥ The augment र् is added at the beginning of the affix, making अत् = रत् ॥ Had this र् been an augment of झ, then like the आट् augment in शयान्तै, it would have intervened between the शी and झ, and झ not immediately following a non-अ stem, अत् would not have been substituted for झ at all. Therefore रुट् is made the augment of the substitute अत, and not of झ ॥ The root शी is read in the *sutra* with its *anubandha* ङ् in order to indicate, that there is no रुट् augment when there is elision of the Intensive affix यङ्, nor any *Guna*. As व्यति शेश्यते ॥ It is a general rule that an operation applying to a root which is exhibited with an *anubandha*, will not apply to the same root in its Intensive-*yan*-*luk* form. The following verse shows when operations applying to simple roots will not apply to their Intensive forms:-- श्तिपा शपानुबन्धेन निर्दिष्टं यद्गणेन च । यत्रैकाज् ग्रहणं चैव पंचैतानि न यङ्लुकि ॥ "These five sorts of operations will not apply to Intensive-*yan*-*luk* forms: 1. When the simple root is exhibited in the *sutra* with श्तिप् as भू in (7.4.73) is shown as भवति ॥ In Intensive, the perfect will be बोभवाञ्चकार and not बभवाञ्चकार ॥ 2. Where the root is exhibited with शप्, as the root भृ in (7.2.49) is shown as भर ॥ There is इट् after the Desiderative of simple root but not in Intensive. 3. When a simple root is exhibited with an *anubhandha*, as शीङ् here. 4. Where a *gana* is mentioned in a rule, as श्यन् is taught after *Divadi*-roots (3.1.69). It will apply to simple roots of *Divadi* *gana*, and not to their Intensive. 5. Lastly, where the word एकाच् is used in a *sutra*. As (7.2.10). That rule will apply to एकाच् simple roots and not to their Intensives. Bhashya ------- शीङो रुट् ॥ रुटि दृशिगुणप्रतिषेधः ॥ रुटि दृशिगुणः प्राप्नोति । अदृशन्नस्य केतव इति, -तस्य प्रतिषेधो वक्तव्यः ॥ न वक्तव्यः, परस्मिन्निति क्ङितिचेति प्रतिषेधो भविष्यति ॥ एवमदृश्रमस्य केतव इत्यत्रापि प्राप्नोति ॥ एवं तर्हि पूर्वान्तः करिष्यते ॥ पूर्वान्ते शीङो गुणविधिः ॥ पूर्वान्ते शीङो गुणो विधेयः शेरते ॥ (सिध्द्यत्येवं(1)) सूत्रं च भिद्यते ॥ यथान्यासमेवास्तु ॥ ननु चोक्तं रुटि दृशिगुणप्रतिषेध इति ॥ पूर्वान्तेप्येष दोषः ॥ कथम् ? ॥ अयं दृशिगुणः प्रतिषेधविषय आरभ्यते स यथा क्ङिति चेत्येतं प्रतिषेधं बाधते एवमनुपधाया अपि प्रसज्येत । तस्मादुभाभ्यामेव दृशोरक्प्रत्ययान्तरं वक्तव्यं, पितरं च दृशेयं मातरं च दृशेयमित्येवमर्थम् ॥ झादेशादाड्लेटि ॥ झादेशादाड् लेटि भवति विप्रतिषेधेन । झादेशस्यावकाशः - लुनते । लुनताम् । अलुनत । आटोऽवकाशः - पताति दिद्युत् । उदधिं च्यावयाति । इहोभयं प्राप्नोति- अपि नः श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै । आड् लेटि भवति विप्रतिषेधेन ॥ स तर्हि पूर्वविप्रतिषेधो वक्तव्यः ? ॥ न वा नित्यत्वादाटः ॥ न वा वक्तव्यः ॥ किं कारणम् ? ॥ नित्यत्वादाटः । नित्य आडागमः ॥ स कथं नित्यः ? ॥ यद्यनकारान्तग्रहणं झकारविशेषणम् ॥ अथ हि प्रत्ययविशेषणम् ? ॥ झादेशोपि नित्यः । । अन्तरङ्गलक्षणत्वाच्च । । अन्तरङ्गः खल्वपि आडागमः ॥ कथमन्तरङ्गः ? ॥ यदि प्राग्लादेशाद्धात्वधिकारः ॥ अथ हि लादेशे धात्वधिकारोऽनुवर्तते उभयं समानाश्रयम् ॥ यद्येव अनकारान्तग्रहणं प्रत्ययविशेषणम्, अथापि लादेशे धात्वधिकारोऽनुवर्तते उभयथापि पूर्वविप्रतिषेधेन नार्थः ॥ कथम् ? ॥ बहुलं छन्दसीत्येवमत्र शपो लुङ्ग भविष्यति । तत्राऽनत इति प्रतिषेधो भविष्यति ॥ (शीङो रुट्) । Kashika ------- शीङोऽङ्गादुत्तरस्य झादेशस्यातो रुडागमो भवति। शेरते। शेरताम्। अशेरत। रुडयं परादिः क्रियते। स यदि झकारस्यैव स्याददादेशो न स्यादित्यत एवायमादेशस्यागमो विधीयते। सानुबन्धग्रहणमयङ्लुगर्थम्। तेनेह न भवति — व्यतिशेश्यते॥ Siddhanta Kaumudi ----------------- शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शेध्वे । शये । शेवहे । शिश्ये । शयिता । अशयिष्ट ॥ अथ स्तौत्यन्ताः परस्मैपदिनः । ऊर्णुस्तूभयपदी ।{$ {!1033 यु!} मिश्रणेऽमिश्रणे च$} ॥ Laghu Siddhanta Kaumudi ----------------------- शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शयाथे । शेध्वे । शये । शेवहे । शेमहे । शिश्ये । शिश्याते । शिश्यिरे । शयिता । शयिष्यते । शेताम् । शयाताम् । अशेत । अशयाताम् । अशेरत । शयीत । शयीयाताम् । शयीरन् । शयिषीष्ट । अशयिष्ट ॥ {$ {! 20 इङ् !} अध्ययने $} (धातुपाठे (02.0041)) ॥ इडिकावध्युपसर्गतो न व्यभिचरतः । अधीते । अधियाते । अधीयते ॥ Balamanorama ------------ **शीङो रुट्** - शीङो रुट् । 'झोऽन्तः' इत्यतो झ इत्यनुवर्तते । 'अदभ्यस्ता' दित्यतोऽदित्यनुवृत्तं षष्ठ्या विपरिणम्यते । तदाह — शीङः परस्येति । रुटि उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । शेध्वे इति ।षीध्वंलुङ्लिटा॑मित्युक्तेर्न ढः । शिश्ये इति । शिश्यिषे । शिश्यिढ्वे — शिश्यिध्वे । शयितेति । शयिष्यते । शेताम् शयाताम् शेरताम् । सेष्व शयाथाम् शेध्वम् । शयै शयावहै शयामहै । अशेत अशयातामशेरत । अशेथाः अशयाथाम् ।अशेध्वम् । अशयि अशेवहि अशेमहि । शयीत । शयिषीष्ट । अशयिष्टेति । अशयिष्यतेत्यपि ज्ञेयम् । स्तौत्यन्ता इति ।ष्टुञ् स्तुता॑वित्यतः प्राक्तना इत्यर्थः । ऊर्णुस्तूभयपदीति । ञित्त्वादिति भावः । यु मिश्रणेऽमिश्रणे चेति । अमिश्रणं पृथग्भावः । सेडयम् । Tattvabodhini ------------- **शीङो रुट्** - शीङो रुट् ।झोऽन्तः॑ इत्यतोझ॑ इत्यनुवर्तते ।अदभ्यस्ता॑दित्यतोऽदिति च । तथा चेष्टानुरोधेनाऽदिति प्रथमान्तस्य षष्ठन्तत्वमाश्रित्य व्याचष्टे झादेशस्याऽत इति । झस्यैव रुडागमे तु अदादेशो दुर्लभ इत्यदित्यस्याप्यनुवृत्तिः कृता । शिश्ये इति ।एरनेकाचः॑ इति यण् । शेताम् । शयाताम् । शेरताम् । शेध्वम् । Padamanjari ----------- झादेशस्यात् इति । ननु च नेहाद्ग्रहणमस्ति, यदपि प्रकृतं तदपि प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः, शीङ् इत्येषा पञ्चमी अदिति प्रथमायाः षष्ठआआ प्रकल्पयिष्यति, तस्मादित्युतरस्य इति । शेरत इति । सार्वधातुकावयवस्य झस्यादादेशस्तदागमो रुट् तद्ग्रहणेन गृह्यते । अवयवस्य समुदायं प्रत्यवयवत्वं लोकेऽपि दृश्यते, यथा - देवदतस्याङ्गुलिरिति । सार्वधातुकस्याप्यवयवो रुडिति शीडः सार्वधातुके गुणः इति गुणो भवति । किं पुनः कारणं रुडागमो झदेशस्यातो विधीयते, नझकारस्यैव वधीयते, एवं हि न षष्ठी प्रकल्प्या एभवति अत आह - रुडयमिति । यदि तु ककारासञ्जनेन पूर्वान्तः क्रियेत, शेरत इत्यत्र गुणो न स्याद् अनिगन्तत्वात् । तस्मात् परादिरेव वक्तव्यः । स यदिच झकारस्यैव स्यात्, ततो यथा शयान्तै इत्यत्राटा व्यवहितत्वाज्झस्यादादेशो न भवति, तथा शेरते इत्यत्रापि न स्यात् रुटा व्यवहितत्वात् । ननु च युक्तमाटा व्यवधानम्, स हि सार्वधातुकभक्तस्तदेव न व्यवदध्यात्, झकारं तु व्यवदधात्येव, रुट् पुनर्झकारभक्तः स कथं तस्य व्यबधायकः उच्यते गृह्यता तावतद्ग्रहथणेन , तथापि निर्द्दिश्यमानस्यादेशा भवन्तीति यदत्र निर्द्दिश्यते झ इति विशिष्ट्ंअ रुपं न तदनन्तरम्, यश्चानन्तरो रेफझकारसमुदायो न स निर्द्दिश्यत इति न स्यादेवादेशः । अपर आह - आदेशो न स्यादिति, कोऽर्थः झस्य न स्यादिति, कस्य तर्हि स्यात् आदेः परस्य इति रुट एव स्यात् । न च रुटेः वैयर्थ्यं स्यात्, झकारस्य श्रवणार्थत्वात् इति, तच्चिन्त्यमनेकाल्त्वात्सर्वादेशः प्राप्नोति । सर्वादेशे रुटो वैयर्थ्यमिति चेत् किं कुर्मः मा भूदादेशः । शीङ्ः इत्यनुबन्धोच्चारणं यङ्लुग्निवृत्यर्थम् - व्यतिशेश्यते । गुणोऽपि न भवति तत्राप्यनुबन्धनिर्द्दशात् ॥ Nyaas ----- `झादेशस्यातो रुडागमो भवति` इति। ननु न चेहाद्ग्रहणमस्ति, यदपि प्रकृतं तदपि प्रथमान्तम्, षष्ठीनिर्देशेन चेहार्थः, तत्? कथं झादेशस्यातो रुडागमो भवतीति शक्यं विज्ञातुम्? नैतदस्ति; **तस्मादित्युत्तरस्य** (1.1.67) इति शीङ इत्येषा पञ्चमी अदित्यस्याः प्रथमायाः षष्ठीत्वं परिकलपयिष्यतीत्यदोषः। `शेरते` इति। `शूङः सार्वधातुके गुणः` (7.4.21) । ननु चात्र रुटा व्यवहितं सार्वधातुकम्, तत्कुतो गुणः, न ह्रयं सार्वधातुकभक्तस्तत्? कथं व्यवधायको न स्यात्, अचछब्दस्य सार्वधातुकावयवस्यायमवयव इति तद्ग्रहणेन गृह्रते, न सार्वधातुकग्रहणेन; अवयवावयवस्य समुदायानवयवत्वात्; तथा हि - `छे च` (6.1.73) इत्यत्रोक्तम् - `नावयवावयवः समुदायावयवो भवति` इति? नैष दोषः; अवयवावयवोऽपि समुदायावयवो भवत्येव। तथा हि - देवदत्तोऽलंक्तियतामित्युक्ते देवदत्तस्य येऽवयवा हस्तपादायस्तवयवाश्चङ्गुल्यादयोऽलंक्रियन्ते। तस्मात्? सार्वधातुकावयवस्याच्छब्दस्य योऽवयवो रुडागयः, सोऽपि सार्वधातुकावयव इति तद्ग्रहणेन गृह्रते, अतो नास्ति व्यवधानम्।यत्पुनः `छे च` (6.1.71) इत्यत्रोक्तम् - नावयवावयवः समुदायावयवो भवतीति, तत्? तत्सूत्रविहितमेव तुगागममभिप्रेत्योक्तम्, स तुगवयवावयवोऽपि समुदायग्रहणेन न गृह्रत इति कृत्वा। कस्मात्? पुनर्न गृह्रते? ह्रस्वानुकर्षणसामर्थ्यात्। तत्र हि चकारेण ह्रस्वोऽनुकृष्यते - ह्रस्वमात्रस्यागमित्वं यथा स्यात्, ह्रस्वन्तस्य मा भूदिति। यदि ह्रस्वान्तस्यागमित्वं स्यात्, चिच्छिदतुः, चिच्छिदुरित्यत्र तुकोऽभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्तिः स्यात्। यदि च तत्सूत्रविहितस्तुगवयवावयवः समुदायग्रहणेन न गृह्रते, तदा ह्रस्वमात्रस्यायमित्वे हलादिशेषेण निवृत्तिः स्यादेव; ह्रस्ववयवस्य तुकोऽभ्यासग्रहणेन ग्रहणात्। ततश्च ह्रस्वानुकर्षणमनर्थकं स्यात्। अथ किमर्थमदादेशस्य रुङ्? विधीयते, न झकारस्य विधीयताम्, तत्रायमर्थः - अत #इति षष्ठी प्रकल्पयितव्या न भवति; झ इत्यस्य षष्ठन्तस्य प्रकृतत्वात्? अत आह - `रुडयम्` इत्यादि। यदि ककारमनुबन्धमासन्य पूर्वान्तः क्रियत, तदा शेरत इत्यत्र गुणो न स्यात्; अनिगन्तत्वात्। तस्मान्मा भूदेष दोष इति रुडयं परादिः क्रियते; परादिरपि क्रियमाणो यदि झकारस्यैव स्यात्? किमनिष्टं स्यात्? इत्याह - `यदि` इत्यादि। झकारस्यैव रुट्? स्यात्? तदाऽदादेशो न स्यात्। ततो यथा शयान्तै - इत्यत्राटा व्यवहितत्वाददादेशो न भवति; तथा शेरते इत्यत्रापि न स्यात्; रुटा व्यवहितत्वात्। तस्मादस्य दोषस्य परिहारार्थम् - अत एव रुडागमो विधीयते, न झकारस्येति केचिद्व्याचक्षते, एतच्चासम्यक्; झकारस्य क्रियमाणो रुट्? तस्यैव भक्तो भवति, तत्कथं तेन व्यवधानं भवेत्! न हि स्वावयवेन व्यवदधात्येव। तस्मादसद्व्याख्यनमेतदित्यन्यथा व्याख्यायते - अदादेशो न स्यादित्यत्र झकारस्येत्येतदपेक्षते, तदयमर्थो भवति - यदि रुडागमो झकारस्यैव स्यात्? तदादादेशस्तस्यैव न स्यात्। कस्य तर्हि स्यात्? तस्यैव रुटः स्यात्; **आदेः परस्य** (1.1.54) इति वचनात्। अनेकाल्त्वेऽपि सर्वादेशो न भवति; रुट आनर्थक्यप्रसङ्गात्। रुटो विधानसामर्थ्यान्न भविष्यतीति चेत्? नैतदस्ति; उत्तरार्थ रुङविधानंस्यात्। **बहुलं छन्दसि** (7.4.78) इत्यत्र रुजागमो यथा स्यात्। न हृदृश्रन्नित्यतटा सिध्यति। तस्माज्ताकश्रवणं रुङ्विधेः प्रयोजनम्। तदेतस्य दोषस्य निरासायादादेशस्य रुङ्विधीयते; न झकार्सय। `शीङः` इत्यनुबन्धेन निर्देशे यङ्लुग्निवृत्त्यर्थः - व्यतिशेस्यत इति॥ Prakriyasarvasvam ----------------- शीङः परस्य झादेशस्यातो रुट् स्यात् । शेरते । शेपे शेध्वे । शये । शेवहे । यकि शय्यते । शयीत । शयीयाताम् । शयीरन् । शयीय । शयीवहि । शेताम् । शयाताम् । शेरताम् । शेष्व । शेध्वम् । शयै । शयावहै । अशेत । अशयाताम् । अशेरत । अशेथाः । अशशेध्वम् । अशयि । अशेवहि१ । अशयिष्ट । अशयिषाताम् । अशयिष्ठाः । भावे अशायि । लिटि द्वित्वे ए—' रिति यण् । शिश्ये । शिश्याते । शिश्यिषे । शिश्यिढ्वे; शिश्यिध्वे । शयिषीष्ट । शयिता । शयिष्यते । भावे चिण्वच्च । इङ् अध्ययने । अयमधिपूर्वं एव । अधीते । अजादावियङ् । अधीयाते । अधीयते । अधीषे । अधीध्वे । अधीये । अधीवहे । अधीयीत । अधीयीयाताम् । अधीयीरन् । अधीयीथाः । अधीयीध्वम् । अधीयीय । अधीयीवहि । इयङ्यकारः सीयुट्यकारश्चात्राजादिषु श्रूयते२ । अधीताम् । अधीयाताम् । अधीयताम् । अधीष्व । अधीध्वम् । आटः पित्त्वाद् गुणः । अध्यय । अध्ययावहै । लङि इ त इयाताम् इति स्थिते आड्वृद्धौ । अध्यैत अध्यैयाताम् । अध्यैयत । अध्यैथाः । अध्यैध्वम् । अध्यैयि । अध्यैवहि । कर्मणि अधीयते । Sutra Prayogas -------------- * **शेरते** (शिशुपालवधम्): `शीङो रुट्` इति रुडागमः। * **शेरते** (भट्टिकाव्यम्): `शेरत` इति शीडो रुट्।