64172: कार्मस्ताच्छील्ये

Padacheda: कार्म्मः | S | 1 | 1 |

ताच्छील्ये | S | 7 | 1 |

Sutrartha


Vasu English Summary

कार्म is irregularly formed from कर्मन् by the elision of the final अन् when the sense is ‘accustomed to such occupation or prompt therein’.

Vasu English Translation

कार्म is irregularly formed from कर्मन् by the elision of the final अन् when the sense is ‘accustomed to such occupation or prompt therein’. This is formed by ण affix (4.4.62). If this is the case, then by (6.4.144), the form कार्म is regularly evolved. The fact is, that ण् and अण् affixes, in the sense of tachchhilika are considered as one, and therefore (6.4.167), would have prevented the elision of the final अन् syllable. In fact this proves the existence of the folloving maxim :- ताच्छीलिके णेऽण् कृतानि भवन्ति ॥ “The same operations which are occasioned by the addition of the affix अण्, take place, whenever the affix ण is added in the sense of one accustomed to that.” Thus though ङीप् is added, to अण् - formed words, it is also added to ण - formed words, in the feminine: as चौरी; तापसी &c. The ण taught in (5.2.101), and (3.1.140), is excepted. Why do we say, having the sense of accustomed to that? Observe कर्मणः इदम् = कार्मणम् ॥

Bhashya

कार्मस्ताच्छील्ये (3170) (सूत्राक्षेपभाष्यम्) किमर्थमिदमुच्यते, न नस्तद्धिते (144) इत्येव सिद्धम् ? न सिध्यति । अन् अणीति प्रकृतिभावः प्रसज्येत ॥ (ज्ञापनेन समाधानभाष्यम्) अणीत्युच्यते, णश्चायम् । एवं तर्हि सिद्धे सति यन्निपातनं करोति तज्ज्ञापयत्याचार्यः - ताच्छीलिकेऽण्कृतानि भवन्ति - इति । किमेतस्य ज्ञापने प्रयोजनम् ? चौरी, तापसी - इति अणन्तादितीकारः सिद्धो भवति ॥

Kashika

कार्म इति ताच्छील्ये टिलोपो निपात्यते। कर्मशीलः कार्मः। शीलम्, छत्रादिभ्योणः (४.४.६१,६२) इति णप्रत्ययः। यद्येवम्, किमर्थमिदम्, नस्तद्धिते (६.४.१४४) इत्येव टिलोपः सिद्धः? सत्यमेतत्। ज्ञापकार्थं तु। एतज् ज्ञापयति — ताच्छीलिके णेऽण्कृतानि भवन्ति इति। तेन चौरी, तापसीति णान्तादपीकारः सिद्धो भवति। ताच्छील्य इति किम्? कर्मण इदं कार्मणम्॥

Siddhanta Kaumudi

कार्म इति ताच्छील्ये णे टिलोपो निपात्यते । कर्मशीलः कार्मः । नस्तद्धिते (SK679) इत्येव सिद्धे अण्कार्यं ताच्छीलिके णेऽपि । तेन चौरी तापसीत्यादि सिद्धम् । ताच्छील्ये किम् । कार्मणः ॥

Balamanorama

कार्मस्ताच्छील्ये - कार्मस्ताच्छील्ये । तच्छीसं यस्य स तच्छीलः, तस्य भावस्ताच्छील्यम् । तस्मिन्वाच्ये ‘कार्म’ इति भवतीत्यर्थः । णप्रत्यये परे टिलोपः स्यादिति यावत् । तदाह — टिलोपो निपात्यत इति ।णो ।ञपो॑त्यनन्तरम्इति ज्ञापनार्थमिद॑मिति शेषः । अत्र टिलोपविधिर्हि ‘अन्’ इति प्रकृतिभावनिवृत्त्यर्थः । ततश्च अणि विहतस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधादण्कार्यकारित्वं णप्रत्ययस्य ज्ञाप्यत इति भावः । तेनेति । चुरा शीलमस्याः, तपः शीलमस्या इति विग्रहे चुरातपःशब्दाभ्यां छत्रादित्वाण्णप्रत्यये सति तदन्ताभ्यामणन्तकार्ये ङीपि चौरी तापसीति सिद्धमित्यर्थः । कार्मणा इति ।तस्येद॑मित्यणि ‘कार्मस्ताच्छील्ये’ इत्यस्याऽप्रवृत्त्या ‘अन्’ इति प्रकतिभावान्न टिलोप इति भावः ।

Padamanjari

यद्येवमिति । यदि तु णप्रत्ययोऽयमित्यर्थः । नस्तद्धित इति टिलपोः सिद्ध इति । अणि हि प्रकृतभावः । ज्ञापनार्थमिति । एवं च च्छत्रा दिभ्योऽण् इति लाघवाय कर्तव्यम् णवचने प्रयोजनाभावात् । ताच्छीलिक इति । लुल्यजीतीयविषवत्वाज्ज्ञापनस्यैतल्लभ्यते, तेन तदस्यां प्रहरणम्, प्रज्ञाश्रद्धार्चा इत्यादिके णे ङीब्न भवति ॥

Nyaas

यद्येवम् इति। यदि णकारोऽत्र प्रत्ययः, एवं सति किमर्थमिदम्? नैवास्य प्रयोजनं किञ्चिदित्यर्थः। किं कारणम्? इत्याह -नस्तद्धित इत्येवं हि इत्यादि। यद्धि लक्षणेन न प्राप्नोति तदर्थं निपातनमारभ्यते, इह तु नस्तद्धिने (6.4.144) इत्येवं सिद्धः, न हि णे केनचित्? प्रकृतिभाव उक्तो यतस्तत्र टिलोपातनमारभ्यमाणमिदमर्थवत्स्यात्। अणि हि प्रकृतिभावोऽणन्तस्योक्तः, न तु णे। अनन्तरोक्तमर्थमभ्युपगच्छति -यदि सत्यम्, किमर्थमिदमित्याह -ज्ञापकार्थम् इत्यादि। अण्कृतानि इत्यादि। अणि कृतानि कार्याणि अष्कृतानि, सप्तमौ (2.1.39) इति योगाविभागात्समासः। अथ वा अणा कृतानि कर्तृकरणे कृता बहुलम्? (2.1.31) इति समासः। `किमेतस्य ज्ञापनेन प्रयोजनम्? इत्याह -`तेन इत्यादि। चुरा शीलमस्याः, तपः शीलमस्या इति छत्त्रादिभ्यो णः (4.4.62) इति णः, तदन्तन्ङीप्। ताच्छीलिके णः इत्यस्यार्थस्य ज्ञापितत्वात्? तदस्यां प्रहरणमिति क्रीडायां णः (4.2.57) इति दण्डात्? णे दाण्डेति -अण्कृतं कार्यं न भवति। यदि तर्हि ताच्छीलकेष्वण्कृतमिष्येत, अणेव छत्त्रादिभ्यः कस्मान्नोच्येत, तत्राप्ययमर्थः -ज्ञापनार्थं निपातनं कर्तव्यं न भवति? युक्तमेतदुक्तवानसि; वैचित्र्यार्थ त्वण्कृतः। कार्मणम् इति। तद्युक्तात्? कर्मणोऽण् (5.4.36) इत्यण्। कर्मणा युक्तं कार्मणमिति॥