64172: कार्मस्ताच्छील्ये ======================== **Padacheda:** कार्म्मः | S | 1 | 1 | ताच्छील्ये | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- कार्म is irregularly formed from कर्मन् by the elision of the final अन् when the sense is 'accustomed to such occupation or prompt therein'. Vasu English Translation ------------------------ कार्म is irregularly formed from कर्मन् by the elision of the final अन् when the sense is 'accustomed to such occupation or prompt therein'. This is formed by ण affix (4.4.62). If this is the case, then by (6.4.144), the form कार्म is regularly evolved. The fact is, that ण् and अण् affixes, in the sense of *tachchhilika* are considered as one, and therefore (6.4.167), would have prevented the elision of the final अन् syllable. In fact this proves the existence of the folloving maxim :- ताच्छीलिके णेऽण् कृतानि भवन्ति ॥ "The same operations which are occasioned by the addition of the affix अण्, take place, whenever the affix ण is added in the sense of one accustomed to that." Thus though ङीप् is added, to अण् - formed words, it is also added to ण - formed words, in the feminine: as चौरी; तापसी &c. The ण taught in (5.2.101), and (3.1.140), is excepted. Why do we say, having the sense of accustomed to that? Observe कर्मणः इदम् = कार्मणम् ॥ Bhashya ------- कार्मस्ताच्छील्ये (3170) (सूत्राक्षेपभाष्यम्) किमर्थमिदमुच्यते, न नस्तद्धिते (144) इत्येव सिद्धम् ? न सिध्यति । अन् अणीति प्रकृतिभावः प्रसज्येत ॥ (ज्ञापनेन समाधानभाष्यम्) अणीत्युच्यते, णश्चायम् । एवं तर्हि सिद्धे सति यन्निपातनं करोति तज्ज्ञापयत्याचार्यः - ताच्छीलिकेऽण्कृतानि भवन्ति - इति । किमेतस्य ज्ञापने प्रयोजनम् ? चौरी, तापसी - इति अणन्तादितीकारः सिद्धो भवति ॥ Kashika ------- कार्म इति ताच्छील्ये टिलोपो निपात्यते। कर्मशीलः कार्मः। **शीलम्**, **छत्रादिभ्योणः** (४.४.६१,६२) इति णप्रत्ययः। यद्येवम्, किमर्थमिदम्, **नस्तद्धिते** (६.४.१४४) इत्येव टिलोपः सिद्धः? सत्यमेतत्। ज्ञापकार्थं तु। एतज् ज्ञापयति — **ताच्छीलिके णेऽण्कृतानि भवन्ति** इति। तेन चौरी, तापसीति णान्तादपीकारः सिद्धो भवति। ताच्छील्य इति किम्? कर्मण इदं कार्मणम्॥ Siddhanta Kaumudi ----------------- कार्म इति ताच्छील्ये णे टिलोपो निपात्यते । कर्मशीलः कार्मः । नस्तद्धिते (SK679) इत्येव सिद्धे अण्कार्यं ताच्छीलिके णेऽपि । तेन चौरी तापसीत्यादि सिद्धम् । ताच्छील्ये किम् । कार्मणः ॥ Balamanorama ------------ **कार्मस्ताच्छील्ये** - कार्मस्ताच्छील्ये । तच्छीसं यस्य स तच्छीलः, तस्य भावस्ताच्छील्यम् । तस्मिन्वाच्ये 'कार्म' इति भवतीत्यर्थः । णप्रत्यये परे टिलोपः स्यादिति यावत् । तदाह — टिलोपो निपात्यत इति ।णो ।ञपो॑त्यनन्तरम्इति ज्ञापनार्थमिद॑मिति शेषः । अत्र टिलोपविधिर्हि 'अन्' इति प्रकृतिभावनिवृत्त्यर्थः । ततश्च अणि विहतस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधादण्कार्यकारित्वं णप्रत्ययस्य ज्ञाप्यत इति भावः । तेनेति । चुरा शीलमस्याः, तपः शीलमस्या इति विग्रहे चुरातपःशब्दाभ्यां छत्रादित्वाण्णप्रत्यये सति तदन्ताभ्यामणन्तकार्ये ङीपि चौरी तापसीति सिद्धमित्यर्थः । कार्मणा इति ।तस्येद॑मित्यणि 'कार्मस्ताच्छील्ये' इत्यस्याऽप्रवृत्त्या 'अन्' इति प्रकतिभावान्न टिलोप इति भावः । Padamanjari ----------- यद्येवमिति । यदि तु णप्रत्ययोऽयमित्यर्थः । नस्तद्धित इति टिलपोः सिद्ध इति । अणि हि प्रकृतभावः । ज्ञापनार्थमिति । एवं च च्छत्रा दिभ्योऽण् इति लाघवाय कर्तव्यम् णवचने प्रयोजनाभावात् । ताच्छीलिक इति । लुल्यजीतीयविषवत्वाज्ज्ञापनस्यैतल्लभ्यते, तेन तदस्यां प्रहरणम्, प्रज्ञाश्रद्धार्चा इत्यादिके णे ङीब्न भवति ॥ Nyaas ----- `यद्येवम्` इति। यदि णकारोऽत्र प्रत्ययः, एवं सति किमर्थमिदम्? नैवास्य प्रयोजनं किञ्चिदित्यर्थः। किं कारणम्? इत्याह -`नस्तद्धित इत्येवं हि` इत्यादि। यद्धि लक्षणेन न प्राप्नोति तदर्थं निपातनमारभ्यते, इह तु `नस्तद्धिने` (6.4.144) इत्येवं सिद्धः, न हि णे केनचित्? प्रकृतिभाव उक्तो यतस्तत्र टिलोपातनमारभ्यमाणमिदमर्थवत्स्यात्। अणि हि प्रकृतिभावोऽणन्तस्योक्तः, न तु णे। अनन्तरोक्तमर्थमभ्युपगच्छति -यदि सत्यम्, किमर्थमिदमित्याह -`ज्ञापकार्थम्` इत्यादि। `अण्कृतानि` इत्यादि। अणि कृतानि कार्याणि अष्कृतानि, `सप्तमौ` (2.1.39) इति योगाविभागात्समासः। अथ वा अणा कृतानि `कर्तृकरणे कृता बहुलम्? (2.1.31) इति समासः। `किमेतस्य ज्ञापनेन प्रयोजनम्? इत्याह -`तेन` इत्यादि। चुरा शीलमस्याः, तपः शीलमस्या इति `छत्त्रादिभ्यो णः` (4.4.62) इति णः, तदन्तन्ङीप्। `ताच्छीलिके णः` इत्यस्यार्थस्य ज्ञापितत्वात्? `तदस्यां प्रहरणमिति क्रीडायां णः` (4.2.57) इति दण्डात्? णे दाण्डेति -अण्कृतं कार्यं न भवति। यदि तर्हि ताच्छीलकेष्वण्कृतमिष्येत, अणेव छत्त्रादिभ्यः कस्मान्नोच्येत, तत्राप्ययमर्थः -ज्ञापनार्थं निपातनं कर्तव्यं न भवति? युक्तमेतदुक्तवानसि; वैचित्र्यार्थ त्वण्कृतः। `कार्मणम्` इति। `तद्युक्तात्? कर्मणोऽण्` (5.4.36) इत्यण्। कर्मणा युक्तं कार्मणमिति॥