64173: औक्षमनपत्ये

Padacheda: औक्षम् | S | 1 | 1 |

अनपत्ये | S | 7 | 1 |

Sutrartha


Vasu English Summary

From उक्षन् is formed औक्ष when not meaning a descendant.

Vasu English Translation

From उक्षन् is formed औक्ष when not meaning a descendant. As औक्षं पटम् but औक्ष्णः = उक्ष्णोऽपत्यम्, the अ is elided in the latter example by (6.4.135).

Kashika

औक्षमित्यनपत्येऽणि टिलोपो निपात्यते। औक्षं पदम्। अनपत्य इति किम्? उक्ष्णोऽपत्यमौक्ष्णः। षपूर्वहन्धृतराज्ञामणि (६.४.१३५) इत्यलोपः॥

Siddhanta Kaumudi

अणि टिलोपो निपात्यते । औक्षं पदम् । अनपत्ये किम् ? उक्ष्णोऽपत्यमौक्ष्णः ॥

Balamanorama

औक्षमनपत्ये - औक्षम् । शेषपूरणेन सूत्रं व्याचष्टे-अणि टिलोपो निपात्य इति । ‘अन्’ इति प्रकृतिभावापवाद इति भावः । औक्षमिति । टिलोपे रूपम् । औक्ष्ण इति । अपत्येऽणि टिलोपाऽभावेऽल्लोप इति भावः ।

Nyaas

औक्षं पदम् इति। तस्येदम् (4.3.120) इत्यण्॥