64171: ब्राह्मोऽजातौ

Padacheda: ब्राह्मः | S | 1 | 1 |

अजातौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

ब्राह्म is irregularly formed from ब्रह्मन् when not meaning ‘a kind of जाति’.

Vasu English Translation

ब्राह्म is irregularly formed from ब्रह्मन् when not meaning ‘a kind of जाति’. This sutra should be divided into two (1) ब्राह्मः, the final अन् of ब्रह्मन् is elided, when the अण् affix with the force of the Patronymic, as well as with any other force, comes after it. Thus ब्राह्मो गर्भः, ब्राह्मं हविः, ब्राह्ममस्त्रम्; ब्राह्मो नारदः ॥ (2) अजातौ, but not so, when the Patronymic denotes a jati; for then the अन् of ब्रह्मन् is not elided before the अण् affix : as ब्रह्मणोऽपत्यं = ब्राह्मणः ‘a Brahmana’. When* jati* is expressed, but अण् has not the force of the Patronymic, the अन् of ब्रह्मन् is elided. As ब्राह्मी औषधिः ॥

Bhashya

ब्राह्मोऽजातौ (3169) (सूत्रे पक्षद्वयोपस्थापकं भाष्यम्) अथ किमिदं ब्राह्मस्याजातावनो लोपार्थं वचनमाहोस्विन्नियमार्थम् ? कथं वाऽनो लोपार्थं स्यात्कथं च नियमार्थम् ? यदि तावत् अपत्ये इति वर्तते ततो नियमार्थम् । अथ निवृत्तं ततो लोपार्थम् । (वार्तिकावतरणभाष्यम्) अत उत्तरं पठति - ब्राह्मस्याजातौ लोपार्थं वचनं क्रियते । अपत्ये इति निवृत्तम् ॥ (6631 विधावुपसंख्यानवार्तिकम् ॥ 1 ॥) - तत्राप्राप्तविधाने प्राप्तप्रतिषेधः - तत्राप्राप्तस्य टिलोपस्य विधाने प्राप्तस्य प्रतिषेधो वक्तव्यः । ब्राह्मणः ॥ (6632 उपसंख्यानानर्थक्यबोधकवार्तिकम् ॥ 2 ॥) - न वा पर्युदाससार्मथ्यात् - न वा वक्तव्यः । किं कारणम् ? पर्युदाससार्मथ्यात्, पर्युदासोऽत्र भविष्यति ॥ (आक्षेपभाष्यम्) अस्त्यन्यत्पर्युदासे प्रयोजनम् । किम् ? या जातिश्च नापत्यम् - ब्राह्मी ओषधिरिति ॥ (प्रत्याक्षेपभाष्यम्) न वै अत्रेष्यते । अनिष्टं च प्राप्नोति, इष्टं च न सिध्यति ॥ (समाधानभाष्यम्) एवं तर्ह्यनुवर्तते अपत्ये इति । नात्र अपत्ये इत्यनेन निपातनमभिसम्बध्यते - ब्राह्म इति निपात्यते अपत्येऽजाताविति । किं तर्हि ? प्रतिषेधोऽभिसम्बध्यते - ब्राह्म इति निपात्यते, अपत्ये जातौ नेति ॥

Kashika

योगविभागोऽत्र क्रियते। ब्राह्म इत्येतदपत्याधिकारेऽपि सामर्थ्यादपत्यादन्यत्राणि टिलोपार्थं निपात्यते। ब्राह्मो गर्भः। ब्राह्ममस्त्रम्। ब्राह्मं हविः। ततोऽजातौ। अपत्य इत्येव। अपत्ये जातावणि ब्रह्मणष्टिलोपो न भवति। ब्रह्मणोऽपत्यं ब्राह्मणः। अपत्य इत्येव — ब्राह्मी ओषधिः॥

Siddhanta Kaumudi

योगविभागोऽत्र कर्तव्यः । ब्राह्मः इति निपात्यते अनपत्येऽणि । ब्राह्मं हविः । ततो जातौ । अपत्येजातावणि ब्रह्मणष्टिलोपो न स्यात् । ब्राह्मणोऽपत्यं ब्राह्मणः । अपत्ये किम् ? ब्राह्मी औषधिः ॥

Balamanorama

ब्राह्मोअजातौ - ब्राआहृओ जातौ । ब्राहृन्शब्दादपत्ये अणि ‘न मपूर्वोऽपत्ये’ इति प्रकृतिभावनिषेधो जातावेवेत्यर्थः फलति । तथा सति ब्राहृणो ।ञपत्यं ब्राआहृणैति जातिविशेषे न सिध्येत्,न मपूर्वः॑ इति प्रकृतिभावनिषेधे सति ‘नस्तद्धिते’ इति टिलोपस्य दुर्वारत्वात् । किंच ब्राहृआ देवता अस्य ब्राआहृं हविरिति न सिध्येत्, ‘न मपूर्वं’ इति प्रकृतिभावनिषेधस्य जातावेवेति नियमितत्वेन अनिति प्रकृतिभावाट्टिलोपाऽसंभवात् । अत आह — योगविभाग इति । ‘ब्राआहृ’ इत्येकं सूत्रम् । तत्र ‘इनण्यनपत्ये’ इत्यतोऽनपत्येऽणीत्यनुवर्तते । तदाह — ब्राआहृ इति निपात्यते अनपत्ये ।ञणीति । तथाच ब्राहृन्शब्दादनपत्येऽणि अनिति प्रकृतिबावनिवृत्तेष्टिलोपः फलित इति मत्वोदाहरति — ब्राआहृं हविरिति । ब्राहृआ देवता अस्येति विग्रहः ।सास्य देवते॑त्यण् । ततो जाताविति । ततो=॒ब्राआहृ॑ इति सूत्रात्पृथगेव, जाताविति सूत्रं कर्तव्यमित्यर्थः । इहन मपूर्वोऽपत्येऽवर्मणः॑ इति सूत्रादपत्ये इति,प्रकृत्यैका॑जित्यतः प्रकृत्येति चानुवर्तते । तदाह — अपत्ये जाताविति । ब्राआहृण इति । ब्राहृणः सकाशात्सजातीयायां भार्यायामुत्पन्न इत्यर्थः । योगविभागस्त्वयं भाष्ये स्पष्टः ।

Tattvabodhini

ब्राह्मोअजातौ - ब्राआहृओ जातौ । योगविभागोऽत्रेति । एकयोगत्वे त्वारम्भसामर्थ्यादनपत्ये जातौब्राआहृई॑त्यात्राऽप्राप्तटिलोपसिद्धावपिब्राआहृण॑इति न सिद्ध्येत् ।अन्इति प्रकृतिभावस्यन मपूर्वोऽपत्ये॑इति निषेधाट्टिलोपस्य दुर्वारत्वात् । किंच अजातौ ब्राआहृमित्यादि न सिद्ध्येत्,अन् इति प्रकृतिभावस्य दुर्वारत्वादिति भावः#ः । ब्राआहृ इति । इहअपत्ये॑इति न संबध्यते, अन्यथा निपातनमिदं व्यर्थं स्यात्,न मपूर्वे॑ति प्रकृतिभावनिषेधाट्टिलोपसिद्धेरित्याशयेनाह -अनपत्येऽणीति । ब्राआहृमिति ।ब्राआहृओ मुहूर्तः॑,ब्राआहृऋ स्थालीपाकः॑इत्याद्यप्युदाहरणम् । नन्वेवमपि ब्राआहृणो न सिध्यति,न मपूर्वः॑इति प्रकृतिबावनिषेधादपत्येऽणिनस्तद्धिते॑इति टिलोपप्रवृत्तरत आह -जाताविति । इह मण्डूकप्लुत्याअपत्ये॑इत्यनुवर्तते,न॑ इति च । तदेतदाह -अपत्ये जातावित्यादिना । अयमत्रार्थः — ॒अपत्ये जातौ ब्राआहृणशब्दे टिलोपो न भवती॑ति । केचिदिहअजातौ॑इति छित्त्वाजातौ न भवती॑ति व्याचक्षते । तस्मिस्तु व्याख्यानेने॑ति नानुवर्तनीयम् । जातौ किम् । ब्राआहृओ नारदः ।

Padamanjari

योगविभागोऽत्र क्रियते इति । यदि न क्रियते, तदापत्य इत्यनुवर्तते वा, न वा तत्रानुवृतावनन्तरसूत्रेण प्रकृतिभावप्रतिषेधात् नस्तद्धिते इत्येव टिलोपस्य सिद्धत्वान्नियमार्थमेतद्भवति - अजातावेवापत्ये इति, तत्रापत्ये सिद्धमिष्टम् - ब्राह्माए नारदः, ब्राह्मणजातिरिति । अनपत्ये तु जातावजातौ च न क्वचिट्टिलोपः स्याद् - ब्राह्मी ओषधिः, ब्राह्मं हविरिति । अननुवृतौ तु विधिनियमसम्भवे विधिरेव ज्यायानिति अनपत्ये अन् इति प्रकृतिभावे प्राप्ते अजातौ टिलोपार्थं विध्यर्थमेतद्भवति , तत्र ब्राह्मं हविरित्यादि सिद्धम्, ब्राह्मी ओषधिरिति न सिध्यति अजाताविति प्रतिषेधात्, ब्राह्मणी ओषधिरिति प्राप्नोति । अपत्ये च जातौ ब्राह्मण इति न सिध्यति, पूर्वसूत्रेण प्रकृतिभावे प्रतिषिद्धे टिलोपप्रसङ्गादिति भावः । विभक्तस्यार्थमाह - ब्राह्म इत्येतदिति । सामर्थ्यादिति । अपत्ये पूर्वेणैव टिलोपस्य सिद्धत्वाद्भाह्म इत्येतावता नियमस्य कर्तुमशक्यत्वाच्च, तत्रापत्येऽपि ब्राह्माए नारद इति परत्वादनेनैव टिलोपः । अपत्ये वेति । अन्यथा अनपत्ये वापत्ये च जातौ प्रतिषेधः स्यात्, प्रसज्यप्रतिषेश्चायमित्याह - अपत्ये जाताविति ॥

Nyaas

यद्येतदेकमेव सूत्रं स्यात् ततो निममार्थ वा स्मात्? विध्यर्थं वा? यद्यपत्य इति वर्तते, ततोऽनन्तर सूत्रेणैव प्रकृतिभावे प्रतिषिद्धे नस्तद्धिते (6.4.144) इति टिलोपः सिद्ध्यत्येव, सिद्धे सत्येतन्नियमार्थ भविष्यति -अजातावेवापत्यार्थे यथा स्यात् इति। तथा च तस्येदम् (4.3.120) इत्यणि विहिते ब्राआहृओ गर्भः, ब्राआहृमस्त्रम्, ब्राआहृं हविः, ब्राआहृई ओषधिरिति न सिद्ध्यति; अपत्याणोऽभावात्। अथापत्य इति निवृत्तम्, ततो विध्यर्थमेव भविष्यति। अपत्ये हि पूर्वसूत्रेण प्रकृतिबावः प्रतिषिद्धः, ततश्च अन् (6.4.167) इतीति प्रकृतिभावे प्राप्तेऽजातो ब्राआहृ इत्येतट्टिलोपार्थं निपात्यते। एवञ्च विध्यर्थेऽस्मिन्? सिद्धम् - ब्राआहृओ गर्भः, ब्राआहृणस्त्रम्, ब्राआहृं हविरिति; ब्राहृण इयं ब्राआहृई ओषदिरित्येतत्तु न सिद्ध्येत्; अजातौ इति प्रतिषेधात्। अपत्ये जातौ च न मपूर्वोऽपत्येऽवर्मणः (6.4.170) ) इति प्रकृतिभावे प्रतिषिद्धे सति नस्तद्धिते (6.4.144) इति भवति टिलोपः -ब्राआहृओ नारद इति, तथेहापि स्यात् -ब्राहृणोऽपत्यमिति ब्राआहृण इति। एवमेकयोगे दोषप्रसङ्गमभिवीक्ष्य तत्? परिजिहीर्षुराह -य#ओगविभाघोऽत्र क्रियते इति। योगविभागे सति यदि अपत्ये इत्यनुवृत्तेरपत्य एव टिलोपो निपात्यते, पूर्ववत्? सिद्धे सति नियमार्थमेव निपातनं स्यात्, ततश्च स दोषस्तदवस्थ एव स्यात्, यः प्राङनियमपक्षे उक्तः। तथा च योगविभागकरणमनर्थकं स्यात्। तस्मादपत्याधिकारोऽपि योगविभागकरणसामर्थ्यादपत्यादन्यतर ब्राआह्मः इत्येतन्निपात्यते। एवमनपत्येऽपि ब्राआह्मः इति निपातनात्? ब्राआहृओ गर्भः, ब्राआहृस्त्रम्, ब्राआहृ हविरित्येतत्? सिद्ध्यति। ततः `अजातौ इत्ययं द्वितीयो योगः। न मपूर्वोऽपत्येऽवर्मणः (6.4.170) इति प्रकृतिभावे प्रतिषिद्धे यः नस्तद्धिते (6.4.144) इति टिलोपः, स मा भूदित्येवमर्थोऽपत्य इत्येवेति। एतेनास्मिन्द्वितीये योगे अपत्ये इत्यनुवर्तत इत्याचष्टे। अजातौ इति च प्रसज्यप्रतिषेधोऽयम्। तत्र जातेरपत्यार्थेन सम्बन्धः, नञ्सतु भवतिना। तमेवार्थं वृत्तौ दर्शयन्नाह -अपत्ये जातावणि ब्राआहृण इति लोपो न भवति इति। जातिविशिष्टे।पत्ये विवक्षितेऽणि परतो ब्राआहृण इत्यत्र टिलोपो न भवतीत्यर्थः। अपत्य इत्येव -ब्राहृओ ओषधिः इति। प्रत्युदाहणव्याजेन योगविभागे जातिमात्रविवक्ष्यां ब्राआहृई ओषधिरित्येतदपि सिद्धं भवतीति दर्शयति॥

Prakriyasarvasvam

<karika>ब्रह्मणस्त्वणि सर्वत्र टिलोपोऽयं निपात्यते । ब्रह्मपुत्रऋषिर्ब्रह्मो जातौ तु ब्राह्मणा इमे ॥ १९७ ॥</karika> अनपत्ये तु जातावपि टिलोप इष्टः । ब्राह्मी ओषधिः ॥

Sutra Prayogas

  • ब्राह्म्या (भट्टिकाव्यम्): ब्राह्मोऽजाती इति निपातनात् टिलोपः।