64166: संयोगादिश्च

Padacheda: संयोगादिः | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The syllable इन् of a अङ्ग (stem) ending in इन् remains unchanged before अण् when a conjunct consonant precedes it.

Vasu English Translation

The syllable इन् of a अङ्ग (stem) ending in इन् remains unchanged before अण् when a conjunct consonant precedes it. Thus शाङ्किनेऽपत्यं = शाङ्किनः, याद्रिणः, वाज्जिणः ॥

Kashika

संयोगादिश्चेनणि प्रकृत्या भवति। शङ्खिनोऽपत्यं शाङ्खिनः। माद्रिणः। वाज्रिणः॥

Siddhanta Kaumudi

इन्प्रकृत्या स्यादणि परे । चक्रिणोऽपत्यं चाक्रिणः ॥

Balamanorama

संयोगादिश्च - संयोगादिश्च । इन् प्रकृत्येति । ‘इनण्यनपत्ये’ इत्यतःप्रकृत्यैका॑जित्यतश्च तदनुवृत्तेरिति भावः । चाक्रिण इति । ‘इण्यपत्ये’ इत्यत्रानपत्ये इति पर्युदासादप्राप्तिः ।

Padamanjari

अयमपत्यार्थ आरम्भः ॥

Nyaas

अयमप्यपत्यार्थ आरम्भः। शाङ्खिनः इति। शङ्खमद्रवज्रशब्देभ्यो मत्वर्थे इतिः, तदन्तात्? पूर्ववदण्॥

Prakriyasarvasvam

संयोगादिरिन् अणि प्रकृत्या स्यात् । वज्रिणः पुत्रो वाजिणः ॥