64167: अन्¶
Padacheda: अन् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The syllable अन् of a अङ्ग (stem) ending in अन् remains unchanged before अण् affix whether Patronymic or otherwise.
Vasu English Translation¶
The syllable अन् of a अङ्ग (stem) ending in अन् remains unchanged before अण् affix whether Patronymic or otherwise. As सामानः, वैमनः, सौत्वनः, जैत्वनः, from सामन्, वेमन्, सुत्वन् and जित्वन् ॥
Kashika¶
अन्नन्तमणि प्रकृत्या भवत्यपत्ये चानपत्ये च। सामनः। वैमनः। सौत्वनः। जैत्वनः॥
Siddhanta Kaumudi¶
अणि अन्प्रकृत्या स्यादिति टिलोपो न । अभावकर्मणोः किम् ? राज्ञः कर्म भावे वा राज्यम् ॥
Laghu Siddhanta Kaumudi¶
अन् प्रकृत्या स्यादणि परे । राजनः । श्वशुर्यः ॥
Balamanorama¶
अन् - अन् । ‘इनण्यनपत्ये’ इत्यतोऽणीत्यनुवर्तते ।प्रकृत्यैका॑जित्यतः प्रकृत्येति च । तदाह — अणीति । राज्यमिति ।गुणवचनब्राआहृणादिभ्यः॑ इति ष्यञ् । टिलोपः ।
Tattvabodhini¶
अन् - टिलोपो नेति ।नस्तद्धिते॑इति प्राप्तष्टिलोपो नेत्यर्थः ।
Padamanjari¶
अनपत्ये इति निवृतम् । सामनः, वैमन इति । तस्येदम् इत्यण्, सुयजोर्ङ्वनिप्, ह्रस्वस्य तुक् - सुत्वा, तस्यापत्यं सौत्वनः ॥
Nyaas¶
अनपत्ये इति। निवृत्तम्। सामान्येनाष्मत्रे विधिः। सामनः, वैमनः इति। तस्येदम् (4.3.120) इत्यण्। सौत्वनः इति। षुञ्? अभिषवे (धातुपाठः-1247) सुयजोर्ङ्वनिप् (3.2.103) इति ङवनिप, ह्रस्वस्य पिति कृति तुक् (6.1.71) ॥
Prakriyasarvasvam¶
अणि सर्वत्र अन् प्रकृत्या स्यात् । राजपुत्रो राजनः । याज्वनः ॥
Sutra Prayogas¶
आश्मन (भट्टिकाव्यम्): अन् इति प्रकृतिभावे प्राप्ते आश्मनो विकार उपसङ्ख्यानमिति टिलोपः पाक्षिकः।