64166: संयोगादिश्च ================== **Padacheda:** संयोगादिः | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The syllable इन् of a अङ्ग (stem) ending in इन् remains unchanged before अण् when a conjunct consonant precedes it. Vasu English Translation ------------------------ The syllable इन् of a अङ्ग (stem) ending in इन् remains unchanged before अण् when a conjunct consonant precedes it. Thus शाङ्किनेऽपत्यं = शाङ्किनः, याद्रिणः, वाज्जिणः ॥ Kashika ------- संयोगादिश्चेनणि प्रकृत्या भवति। शङ्खिनोऽपत्यं शाङ्खिनः। माद्रिणः। वाज्रिणः॥ Siddhanta Kaumudi ----------------- इन्प्रकृत्या स्यादणि परे । चक्रिणोऽपत्यं चाक्रिणः ॥ Balamanorama ------------ **संयोगादिश्च** - संयोगादिश्च । इन् प्रकृत्येति । 'इनण्यनपत्ये' इत्यतःप्रकृत्यैका॑जित्यतश्च तदनुवृत्तेरिति भावः । चाक्रिण इति । 'इण्यपत्ये' इत्यत्रानपत्ये इति पर्युदासादप्राप्तिः । Padamanjari ----------- अयमपत्यार्थ आरम्भः ॥ Nyaas ----- अयमप्यपत्यार्थ आरम्भः। `शाङ्खिनः` इति। शङ्खमद्रवज्रशब्देभ्यो मत्वर्थे इतिः, तदन्तात्? पूर्ववदण्॥ Prakriyasarvasvam ----------------- संयोगादिरिन् अणि प्रकृत्या स्यात् । वज्रिणः पुत्रो वाजिणः ॥