64165: गाथिविदथिकेशिगणिपणिनश्च¶
Padacheda: गाथि-विदथि-केशि-गणि-पणिनः | S | 1 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
गाथिन् 2. विदथिन् 3. केशिन् 4. गणिन् and 5. पणिन् remain unchanged before the Patronymic also.
Vasu English Translation¶
1. गाथिन् 2. विदथिन् 3. केशिन् 4. गणिन् and 5. पणिन् remain unchanged before the Patronymic also. Thus गाथिनोऽपत्यं = गाथिनः, वैदथिनः, कैशिनः, गाणिनः, and पाणिनः ॥ This sutra applies to Patronymics.
Kashika¶
गाथिन् विदथिन् केशिन् गणिन् पणिन् इत्येते चाणि प्रकृत्या भवन्ति। गाथिनोऽपत्यं गाथिनः। वैदथिनः। कैशिनः। गाणिनः। पाणिनः। अपत्यार्थोऽयमारम्भः॥
Siddhanta Kaumudi¶
एतेऽणि प्रकृत्या स्युः । इति टिलोपो न । ततो यूनि इञ् पाणिनिः ॥
Balamanorama¶
गाथिविदथिकेशिगणिपणिनश्च - गाथिविदथि । ‘इनण्यनपत्ये’ इत्यतोऽणीत्यनुवर्तते ।प्रकृत्यैका॑जित्यतः प्रकृत्येति च । तदाह — एतेऽणि प्रकृत्या स्युरिति । गाथिन्, विदथिन्, केशिन्, गणिन्, पणिन्-एते इत्यर्थः । अपत्येऽप्यणि प्रकृतिभावार्थमिदम् । ततो यून्यपत्ये इति । मूलप्रकृतिपणी । तदपेक्षया चतुर्थेऽपत्ये यूनि विवक्षिते पाणिनशब्दाद्गोत्राऽणन्तादत इञि पाणिनिरिति रूपमित्यर्थः । पाणिन शब्दस्य अनन्तरापत्यप्रत्ययान्तत्वे तु ततोऽनन्तरापत्ये मूलप्रकृतिपण्यपेक्षया तृतीये गोत्रापत्ये इञ्न संभवति, ‘एको गोत्रे’ इति नियमात् । नापि मूलप्रकृत्यपेक्षया चतुर्थाऽपत्ये यूनि पाणिनशब्दादनन्तरापत्यप्रत्ययान्तादिञ्संभवति,गोत्राद्यून्यस्त्रिया॑मिति यून्यपत्ये गोत्रप्रत्ययान्तादेवाऽपत्यप्रत्ययनियमात् । अतो गोत्राऽण्प्रत्ययान्तात्पाणिनशब्दाद्यूनि इञ्प्रत्यय इत्युक्तमिति बोध्यम् ।
Tattvabodhini¶
गाथिविदथिकेशिगणिपणिनश्च - गाथिविदथि ।इनण्यनपत्ये॑इति सिद्धे अपत्येऽप्यणि प्रकृतिभावार्थमयमारम्भः । गाथिनः । वैदथिनः । कैशिनः । गाणिनः । पाणिनः ।
Padamanjari¶
मत्वर्थीयेन्नन्ता एते । गाथाशब्दो व्रीह्मादिः । विदथः - यज्ञः ॥
Nyaas¶
अपत्यार्थोऽयमारम्भः; अनपत्ये पूरर्वेणैव सिद्धत्वात्। इन्नन्तत्वादेषाम्॥
Prakriyasarvasvam¶
एतेऽणि परे प्रकृत्या स्युः । टिलोपो नेत्यर्थः । गाथिपुत्रो गाथिनः । वैदथिनः । कैशिनः । पाणिनः । गाणिनः ॥