64164: इनण्यनपत्ये¶
Padacheda: इन् | S | 1 | 1 |
अणि | S | 7 | 1 |
अनपत्ये | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The final इन् of a भ अङ्ग (stem) remains unaltered before the non-Patronymic अण् affix.
Vasu English Translation¶
The final इन् of a भ अङ्ग (stem) remains unaltered before the non-Patronymic अण् affix. Thus सांकुटिनम्, सांराविणम्, सांमार्जिनम् (3.3.44) and (5.4.15). These are formed by the Krit-affix इनुण् (3.3.44), and then अण् is added in स्वार्थ by (5.4.15). So also स्राग्विणम् from स्रग्विन् ॥ Why ‘when अण् follows’? Observe दण्डिनां समहः = दाण्डम् ॥ It is formed by अञ् (4.2.44). Why do we say ‘non-Patronymic’? Observe मेधाविनोऽपत्यं = मैधावः ॥
Kashika¶
इन्नन्तमनपत्यार्थेऽणि परतः प्रकृत्या भवति। सांकूटिनम्। सांराविणम्। सांमार्जिनम्। अभिविधौ भाव इनुण् (३.३.४४), अणिनुणः (५.४.१५) इत्यण्। स्रग्विण इदं स्राग्विणम्। अणीति किम्? दण्डिनां समूहो दाण्डम्। अनुदात्तादेरञ् (४.२.४४) इत्यञ्प्रत्ययः। अनपत्य इति किम्? मेधाविनोऽपत्यं मैधावः॥
Siddhanta Kaumudi¶
अनपत्यार्थेऽणि परे इन् प्रकत्या स्यात् । तेन नस्तद्धिते (SK679) इति टिलोपो न । युवतीनां समूहो यौवनम् । शत्रन्तादनुदात्तादेरञि यौवतम् ॥
Laghu Siddhanta Kaumudi¶
अनपत्यार्थेऽणि परे इन् प्रकृत्या स्यात् । तेन नस्तद्धित इति टिलोपो न । युवतीनां समूहो यौवनम् ॥
Balamanorama¶
इनण्यनपत्ये - इनण्यनपत्ये । इन्-अमीति छेदः प्रकृत्येति ।प्रकृत्यैका॑जित्यतस्तदनुवृत्तेरिति भावः । टिलोपो नेति । अञि तु प्रकृतिभावाऽप्रवृत्तेष्टिलोपः स्यादिति भावः । यौवनमिति ।कनिन्युवृषितक्षी॑त्यौणादिककनिन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः । ततः स्त्रियांयूनस्ति॑रिति तिप्रत्ययस्य प्रत्ययस्वरेणोदात्तत्वे सतिशिष्टस्वरेण युवतिशब्दस्यानुदात्तादित्त्वादञि प्राप्ते भिक्षादित्वादणि कृते सति ‘भस्याऽढे’ इति पुंवत्त्वे ति प्रत्ययस्य निवृत्तौ ‘अन्’ इति प्रकृतिभावाट्टिलोपाऽभावेयौवन॑मिति रूपम् । अञि तु प्रकृतिभावस्याऽप्रवृत्तेष्टिलोपः स्यादिति भावः । वस्तुतस्तु ‘भस्याऽढे तद्धिते’ इत्यस्य अढे तद्धिते विवक्षिते सति ततः प्रागेव पुंवदित्यर्थः । ततश्च तद्धितोत्पत्तेः प्रागेव युवतिशब्दस्य पुंवत्त्वे तिप्रत्ययस्य निवृत्तौ युवन्शब्दस्य कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वादनुदात्तादित्वाऽभावादञभावे ‘तस्य समूहः’ इत्यणि प्रकृतिभावाट्टिलोपाऽभावे यौवनमिति सिद्धमेवेति युवतिशब्दो भिक्षादिगणे प्रत्याख्यातो भाष्यकैयटयोरित्यलम् । शत्रन्तादिति । प्रत्ययस्वरेण मध्योदात्तत्वादनुदात्तादिरयं युवच्छब्दः । तत उगिल्लक्षङीपः पुवत्त्वेन निवृत्तौ युवच्छब्दादनुदात्तादेरञि यौवतमिति रूपमिति भावः ।
Tattvabodhini¶
इनण्यनपत्ये - यौवनमिति । युवतिशब्दस्यानुदात्तादित्वादञि प्राप्ते अणर्थमिह पाठः । पुंवद्भावात्तिप्रत्ययनिवृत्तिः ।अन्इति प्रकृतिभावः । ननुभस्याऽढे॑इत्यत्रअढे तद्धिते विवक्षिते पुंवद्भावः॑इत्यभ्युपगमात्तद्धितोत्पत्तेः प्रागेव तिप्रत्ययनिवृत्तौ सत्यांकिन्युवृषी॑ति कनिनन्ततया आद्युदात्तत्वादण् सिद्धएवेति चेत् । सत्यम् । अतएव भाष्ये मिक्षादिषु युवतिशब्दपाठः प्रत्याख्यातः ।इह युवतिशब्दपाठसामर्थ्यात्पुंवद्भावो ने॑ति वृत्तिकारोक्तिरप्यत एव निरस्ता । नन्वेवंगार्भिणं यौवतं गणे॑इत्यादिप्रयोगा न सङ्गच्छेरन्नित्याशङ्क्याह -शत्रन्तादिति ।
Padamanjari¶
सांकूटिनमिति । कूट दाहे, दीर्घोपधः, अभिविधौ भावे इनुण्, अमिनुणः ॥
Nyaas¶
साङकूटिनम्, सांराविणम्, साम्मार्जिनम् इति। कूट दाहे (धातुपाठः-1890), [परितापे (परिदाहे) -धातुपाठः-] रु शब्दे (धातुपाठः-1034), मृजू शुद्धौ (धातुपाठः-1066) अभिविधौ भावे इनुण् (3.3.44) , मृजेर्वृद्धिः (7.2.114) सांकूटिन्, सांराविन्, सांमार्जिन् -इति स्थिते अणिनुणः (5.4.15) इति स्वर्थेऽण्। मैधावः इति। अस्मायामेधास्रजो विनिः (5.2.121) इत्यादिना विनिः, तदन्तात्? प्राग्दीव्यतोऽणपत्यार्थे॥
Prakriyasarvasvam¶
अनपत्येऽणि परे इन् प्रकृत्या स्यात् । अपत्ये तु मैधाव इति टिलोप एव ॥