64164: इनण्यनपत्ये ================== **Padacheda:** इन् | S | 1 | 1 | अणि | S | 7 | 1 | अनपत्ये | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The final इन् of a भ अङ्ग (stem) remains unaltered before the non-Patronymic अण् affix. Vasu English Translation ------------------------ The final इन् of a भ अङ्ग (stem) remains unaltered before the non-Patronymic अण् affix. Thus सांकुटिनम्, सांराविणम्, सांमार्जिनम् (3.3.44) and (5.4.15). These are formed by the *Krit*-affix इनुण् (3.3.44), and then अण् is added in स्वार्थ by (5.4.15). So also स्राग्विणम् from स्रग्विन् ॥ Why 'when अण् follows'? Observe दण्डिनां समहः = दाण्डम् ॥ It is formed by अञ् (4.2.44). Why do we say 'non-Patronymic'? Observe मेधाविनोऽपत्यं = मैधावः ॥ Kashika ------- इन्नन्तमनपत्यार्थेऽणि परतः प्रकृत्या भवति। सांकूटिनम्। सांराविणम्। सांमार्जिनम्। **अभिविधौ भाव इनुण्** (३.३.४४), **अणिनुणः** (५.४.१५) इत्यण्। स्रग्विण इदं स्राग्विणम्। अणीति किम्? दण्डिनां समूहो दाण्डम्। **अनुदात्तादेरञ्** (४.२.४४) इत्यञ्प्रत्ययः। अनपत्य इति किम्? मेधाविनोऽपत्यं मैधावः॥ Siddhanta Kaumudi ----------------- अनपत्यार्थेऽणि परे इन् प्रकत्या स्यात् । तेन नस्तद्धिते (SK679) इति टिलोपो न । युवतीनां समूहो यौवनम् । शत्रन्तादनुदात्तादेरञि यौवतम् ॥ Laghu Siddhanta Kaumudi ----------------------- अनपत्यार्थेऽणि परे इन् प्रकृत्या स्यात् । तेन नस्तद्धित इति टिलोपो न । युवतीनां समूहो यौवनम् ॥ Balamanorama ------------ **इनण्यनपत्ये** - इनण्यनपत्ये । इन्-अमीति छेदः प्रकृत्येति ।प्रकृत्यैका॑जित्यतस्तदनुवृत्तेरिति भावः । टिलोपो नेति । अञि तु प्रकृतिभावाऽप्रवृत्तेष्टिलोपः स्यादिति भावः । यौवनमिति ।कनिन्युवृषितक्षी॑त्यौणादिककनिन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः । ततः स्त्रियांयूनस्ति॑रिति तिप्रत्ययस्य प्रत्ययस्वरेणोदात्तत्वे सतिशिष्टस्वरेण युवतिशब्दस्यानुदात्तादित्त्वादञि प्राप्ते भिक्षादित्वादणि कृते सति 'भस्याऽढे' इति पुंवत्त्वे ति प्रत्ययस्य निवृत्तौ 'अन्' इति प्रकृतिभावाट्टिलोपाऽभावेयौवन॑मिति रूपम् । अञि तु प्रकृतिभावस्याऽप्रवृत्तेष्टिलोपः स्यादिति भावः । वस्तुतस्तु 'भस्याऽढे तद्धिते' इत्यस्य अढे तद्धिते विवक्षिते सति ततः प्रागेव पुंवदित्यर्थः । ततश्च तद्धितोत्पत्तेः प्रागेव युवतिशब्दस्य पुंवत्त्वे तिप्रत्ययस्य निवृत्तौ युवन्शब्दस्य कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वादनुदात्तादित्वाऽभावादञभावे 'तस्य समूहः' इत्यणि प्रकृतिभावाट्टिलोपाऽभावे यौवनमिति सिद्धमेवेति युवतिशब्दो भिक्षादिगणे प्रत्याख्यातो भाष्यकैयटयोरित्यलम् । शत्रन्तादिति । प्रत्ययस्वरेण मध्योदात्तत्वादनुदात्तादिरयं युवच्छब्दः । तत उगिल्लक्षङीपः पुवत्त्वेन निवृत्तौ युवच्छब्दादनुदात्तादेरञि यौवतमिति रूपमिति भावः । Tattvabodhini ------------- **इनण्यनपत्ये** - यौवनमिति । युवतिशब्दस्यानुदात्तादित्वादञि प्राप्ते अणर्थमिह पाठः । पुंवद्भावात्तिप्रत्ययनिवृत्तिः ।अन्इति प्रकृतिभावः । ननुभस्याऽढे॑इत्यत्रअढे तद्धिते विवक्षिते पुंवद्भावः॑इत्यभ्युपगमात्तद्धितोत्पत्तेः प्रागेव तिप्रत्ययनिवृत्तौ सत्यांकिन्युवृषी॑ति कनिनन्ततया आद्युदात्तत्वादण् सिद्धएवेति चेत् । सत्यम् । अतएव भाष्ये मिक्षादिषु युवतिशब्दपाठः प्रत्याख्यातः ।इह युवतिशब्दपाठसामर्थ्यात्पुंवद्भावो ने॑ति वृत्तिकारोक्तिरप्यत एव निरस्ता । नन्वेवंगार्भिणं यौवतं गणे॑इत्यादिप्रयोगा न सङ्गच्छेरन्नित्याशङ्क्याह -शत्रन्तादिति । Padamanjari ----------- सांकूटिनमिति । कूट दाहे, दीर्घोपधः, अभिविधौ भावे इनुण्, अमिनुणः ॥ Nyaas ----- `साङकूटिनम्, सांराविणम्, साम्मार्जिनम्` इति। `कूट दाहे` (धातुपाठः-1890), [परितापे (परिदाहे) -धातुपाठः-] `रु शब्दे` (धातुपाठः-1034), `मृजू शुद्धौ` (धातुपाठः-1066) `अभिविधौ भावे इनुण्` (3.3.44) , **मृजेर्वृद्धिः** (7.2.114) सांकूटिन्, सांराविन्, सांमार्जिन् -इति स्थिते **अणिनुणः** (5.4.15) इति स्वर्थेऽण्। `मैधावः` इति। **अस्मायामेधास्रजो विनिः** (5.2.121) इत्यादिना विनिः, तदन्तात्? प्राग्दीव्यतोऽणपत्यार्थे॥ Prakriyasarvasvam ----------------- अनपत्येऽणि परे इन् प्रकृत्या स्यात् । अपत्ये तु मैधाव इति टिलोप एव ॥