64163: प्रकृत्यैकाच्¶
Padacheda: प्रकृत्या | S | 3 | 1 |
एकाच् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
A monosyllabic भ अङ्ग (stem) retains its original form without undergoing any change before the affixes 1. इष्ठ 2. इमन् and 3. ईयस् ।
Vasu English Translation¶
A monosyllabic भ अङ्ग (stem) retains its original form without undergoing any change before the affixes 1. इष्ठ 2. इमन् and 3. ईयस् । Thus स्रजिष्ठः, स्रजीयान्, स्रजयति from स्रग्विन्, the विन् being elided by (5.3.65), the stem thus becoming monosyllabic. स्रजयति is the causative, formed on the model of इष्ठ by the Vartika under (6.4.155). So also स्रुचिष्टः, स्रुचीयान् and स्रुचयति from स्रुग्वत्, the मतुप् being elided as before. Why do we say ‘a mono-syllabic stem? Observe वसिष्ठः from वसुमत् ॥ This rule is an exception to (6.4.155).
Vart:- राजन्य, मनुष्य and युवन् retain their original form unchanged, before the affix अक ॥ As, राजन्यानां समूहः = राजन्यकम्, मानुष्यकम् ॥ This debars the elision of य required by (6.4.15). So यूनो भावः = यौवनिकः with वुञ् affix (5.1.133), in supersession of (6.4.144).
Bhashya¶
प्रकृत्यैकाच् (3161) (प्रकृतिभावाधिकरणम्) (विषयनिर्धारणोपक्रमभाष्यम्) प्रकृत्यैकाजिति किमिष्ठेमयस्सु, आहोस्विदविशेषेण ? किञ्ञ्चातः ? (अविशेषेण इति पक्षे दोषवारकभाष्यम्) यद्यविशेषेण; स्वी, खी, शौवम्, अधुना - अत्रापि प्राप्नोति । स्विखिनावेन न स्तः । कथम् ? उक्तमेतत् - एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ । स्ववान्, खवानित्येव भवितव्यम् । शौवमिति, परत्वादैजागमे कृते टिलोपेन भवितव्यम् । अधुना - इति, सप्रकृतिकस्य सप्रत्ययकस्य स्थाने निपातनं क्रियते ॥ (विषयविशेषणिगमकं भाष्यम्) इह तर्हि प्राप्नोति - द्रव्यम् । यस्य - इत्यादौ प्रकृतिभावः । यस्य - इति यस्य लोपप्राप्तिस्तस्य प्रकृतिभावः, न चैतानि यस्य - इत्यादौ ॥ (इष्ठेमेयः सु प्रकृतिभावस्थापकभाष्यम्) एवमपि श्रियै हितः - श्रीयः, ज्ञा देवताऽस्य स्थालीपाकस्य - ज्ञः स्थालीपाक इत्यत्र प्राप्नोति । तस्मादिष्ठेमेयस्सु प्रकृतिभावः ॥ (वार्तिकावतरणे उदारहणदर्शकभाष्यम्) अथेष्ठेमेयस्सु प्रकृतिभावे किमुदाहरणम् ? प्रेयान्, प्रेष्ठः । नैतदस्ति । प्रादीनामसिद्धत्वान्न भविष्यति । इदं तर्हि - श्रेयान्, श्रेष्ठः ॥ (6629 इष्ठेमेयः सु प्रकृतिभावाक्षेपवार्तिकम् ॥ 1 ॥) - प्रकृत्यैकाजिष्ठेमेयस्सु चेदेकाच उच्चारणसार्मथ्यादवचनात्प्रकृतिभावः - प्रकृत्यैकाजिष्ठेमेयः सु चेत्तन्न । किं कारणम् ? एकाच उच्चारणसामर्थादन्तरेणापि वचनं प्रकृतिभावो भविष्यति ॥ (प्रकृतिभावप्रयोजनभाष्यम्) विन्मतोस्तु लुगर्थं प्रकृतिभावो वक्तव्यः । स्रग्वितरः - स्रजीयान् । स्रग्वितमः - स्रजिष्ठः । स्रग्वत्तरः - स्रुचीयान् । स्रग्वत्तमः - स्रुचिष्ठः ॥ (प्रयोजनाक्षेपभाष्यम्) ननु च विन्मतोर्लुक् टिलोपं बाधिष्यते ॥ (प्रत्याक्षेपभाष्यम्) कथमन्यस्योच्यमानमन्यस्य बाधकं स्यात् ? असति खल्वपि सम्भवे बाधनं भवति, अस्ति च सम्भवो यदुभयं स्यात् । यथैव खल्वपि विन्मतोर्लुक् टिलोपं बाधते, एवं नस्तद्धिते (144) इत्येतमपि बाधेत । यतरो नौ ब्रह्मीयान् - ब्रह्मवत्तर इति ॥ (आक्षेपप्रत्याक्षेपयोः समाधानभाष्यम्) यत्तावदुच्यते - कथमन्यस्योच्यमानमन्यस्य बाधकं स्यात् - इति । इदं तावदयं प्रष्टव्यः - यदि तर्हि विन्मतोर्लुङ्नोच्येत किमिह स्यात् - इति । टिलोप इत्याह । टिलोपश्चेत्, नाप्राप्ते टिलोपे विन्मतोर्लुगारभ्यते स बाधको भविष्यति ॥ यदप्युच्यते - असति खल्वपि सम्भवे बाधनं भवति, अस्ति च सम्भवो यदुभयं स्यात् - इति । सत्यपि सम्भवे बाधनं भवति । तद्यथा - ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय - इति सत्यपि सम्भवे दधिदानस्य तक्रदानं निवर्तकं भवति । एवमिहापि सत्यपि सम्भवे विन्मतोर्लुक् टिलोपं बाधिष्यते । यदप्युच्यते - यथैव खल्वपि विन्मतोर्लुक्टिलोपं बाधते, एवं नस्तद्धिते इत्येतमपि बाधेत । न बाधते । किं कारणम् ? येन नाप्राप्ते तस्य बाधनम् । नाप्राप्ते टिलोपे विन्मतोर्लुगारभ्यते, नस्तद्धिते इत्येतस्मिन् पुनः प्राप्ते चाप्राप्ते च ॥ अथवा - पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते-इत्येवं विन्मतोर्लुक् टिलोपं बाधिष्यते, नस्तद्धिते इत्येतन्न बाधिष्यते ॥ (आक्षेपसमाधानभाष्यम्) यदि तर्हि विन्मतोर्लुक् टिलोपं बाधते, पयिष्ठ इति न सिध्यति; पयसिष्ट इति प्राप्नोति । यथालक्षणमप्रयुक्ते - इति ॥ (6630 उपसंख्यानवार्तिकम् ॥ 2 ॥) - प्रकृत्याऽके राजन्यमनुष्ययुवानः - राजन्यमनुष्ययुवानोऽके प्रकृत्या भवन्तीति वक्तव्यम् । राजन्यकम्, मानुष्यकम्, यौवनिका ॥
Kashika¶
एकाज् यद् भसंज्ञकं तदिष्ठेमेयस्सु परतः प्रकृत्या भवति। स्रग्विन्नित्येतस्य विन्नन्तस्य स्रजिष्ठः, स्रजीयान्, स्रजयति। स्रुग्वदित्येतस्य मत्वन्तस्य स्रुचिष्ठः, स्रुचीयान्, स्रुचयति। एकाजिति किम्? वसुमदित्येतस्य वसिष्ठः, वसीयान्॥ प्रकृत्याके राजन्यमनुष्ययुवानः॥ अके प्रत्यये परतो राजन्य मनुष्य युवन्नित्येते प्रकृत्या भवन्ति। राजन्यानां समूहो राजन्यकम्। मनुष्याणां समूहो मानुष्यकम्। आपत्यस्य च तद्धितेऽनाति (६.४.१५१) इति यलोपः प्रकृतिभावेन न भवति। यूनो भावो यौवनिका। मनोज्ञादित्वाद् (५.१.१३३) वुञ्। तस्य नस्तद्धिते (६.४.१४४) इति टिलोपो न भवति॥
Siddhanta Kaumudi¶
इष्ठातिष्वेकाच् प्रकृत्या स्यात् । श्रेष्ठः । श्रेयान् ॥
Laghu Siddhanta Kaumudi¶
इष्ठादिष्वेकाच् प्रकृत्या स्यात्। श्रेष्ठः, श्रेयान्॥
Balamanorama¶
प्रकृत्यैकाच् - प्रकृत्यैकाच् । एकोऽच् यस्येति बहुव्रीहिः । इष्ठादिष्विति । ‘तुरि,ठेमेयःसु’ इत्यत तदनुवृत्तेरिति भावः । ‘अल्लोपोऽनः,’नस्तद्धिते॒॑यस्येति च,॑टे॑रित्यादेरेतत्प्रकरणस्थलसोपस्यायं प्रकृतिभाव इति भाष्ये स्पष्टम् । श्रेष्ठः । श्रेयानिति । अयमनयोरतिशयेन प्रशस्त इत्यर्थः ।
Tattvabodhini¶
प्रकृत्यैकाच् - श्रेष्ठ इति । प्रकृतिभावादिहटे॑रिति लोपोयस्ये॑ति लोपश्च न भवति । ज्यादादी । ज्यादुत्तरस्य ईयसुन आकारादेशः श्यात् ।
Padamanjari¶
इष्ठेमेयस्सु परत इति । यदि त्विष्ठादीनामिहानुवृत्तिर्न स्यात्, तदा श्रिये हितम् प्राक् क्रीताच्छः श्रीयम्, ज्ञा देवतास्य ज्ञः स्थालीपाक इत्यत्र यस्येतिलोपो न स्यात्, ततश्च श्रीयमित्यत्रेयङदेशः स्यात्, तस्मादनुवर्त्या इष्ठादयः । स्रजिष्ठ इति । थाथ प्रादयः किमित्युपेक्षिताः - प्रेष्ठः, प्रेयान्, स्थेष्ठः, स्थेयानिति असिद्धत्वात्प्रादीनां टिलोपो यस्येतिलोपश्च न भविष्यति । इह तर्हि श्रेष्ठः, श्रेयानिति अकारोच्चारणसामर्थ्याल्लोपो न भविष्यति । तस्माद्विन्मतोर्लुक्येवास्योदाहरणस्य सम्भवः । यद्येवम्, नाप्रप्ते टिलोपे आरभ्यमाणे विन्मतोर्लुक् लोपं बाधिष्यते सत्यम् विन्नन्तस्य मत्वन्तस्य च टिलोपः प्राप्तस्तं बाधते । यस्तु तयोलुकि कृते अवशिष्टस्य टिलोपः प्राप्नोति, तस्य कथं बाधकः स्यात् । न हि तस्मिन्नप्राप्ते विन्मतोर्लुगारभ्यते । अवश्यं चैतदेवं विज्ञेयम् - अविशिष्टस्य यष्टिलोपस्तं न बाधत इति अन्यथा यत्रावशिष्टमनेकाच् तत्रापि टिलोपो न स्यात्, ततश्च वसिष्ठः, वसीयानिति प्रत्युदाहरणं नोपपद्यते । एवं चातिशयेन ब्रह्मवान् ब्रह्मष्ठः, अवशिष्टस्य नस्तद्धिते इति टिलोपो भवति । बह्वच्ब्राह्मणं च - तस्माद्भाह्मणं ब्रह्मिष्ठ्ंअ कुर्वीत इति, तथातिशयेन पयस्वी पयिष्ठ इति भवति, न तु पयसिष्ठ इति । अपर आह - इष्ठेमेयस्स्वनेकाचोऽप्यवशिष्टस्य नेष्यते । टिलोपो भाष्यकारेण प्रवृते विन्मतोर्लुकि ॥ इति । प्रकृत्येत्यादि । राज्ञोऽपत्यं राजन्यः, राजश्वशुराद्यत्, मनोरपत्यं मनुष्यः, मनोर्जातावञ्यतो पुक्च, ताभ्यां समूहे गोक्षोक्षोष्ट्र इत्यादिना वुञ् । आपत्यस्य चेत्यादि । एतच्चानयोरपत्यवाचित्वमङ्गीकृत्योक्तम् । यदा तु जातिमात्रमुभयत्र शब्दार्थः, अपत्यार्थस्तु नास्त्येवेति पक्षः तदानापत्यत्वादेव लोपस्या प्रसङ्गान्नार्थः प्रकृतिभावेन ॥
Nyaas¶
रुआजिष्ठः इति। अत्र प्रकृतिवद्भावेन टिलोपो न भवति। ननु च विन्मतोर्लुक् (5.3.65) टिलोपं बाधिष्यते, नाप्राप्ते त्वस्मस्त्वस्यारम्भात्? नैतदस्ति; द्वौ टिलोपौ -एको विन्मत्वन्तस्य, अन्यो लुकि कृते सत्यवशिष्टस्य; तत्र योऽसौ विन्मत्वन्तस्य टिलोपस्तस्मिन्नाप्राप्ते लुगारभ्यत इति युक्तं यदसौ तं बाधते। यस्त्ववशिष्टस्य टिलोपस्तस्य प्राग्लुक्प्राप्त्यसम्भवादप्राप्त एव तस्मिन्नारभ्यमाणः कथं पश्चादुपजातप्राप्तिकं लोपं बाधेत। तस्मादारब्धव्यमिदम्। प्रकृत्याके राजन्य इत्यादि। किं वक्तव्यमेतत्? न; कथं तर्हि तुरिष्ठेमेयस्तु (6.4.154) इत्येतन्निवृत्तम्। सामान्येनयं प्रकृतिवद्भावो विधेयः, विभाषति चानुवर्तते, सा च व्यवस्थितविभाषा। तेन यत्र यत्रेष्यते तत्र सर्वत्र भविष्यति, यत्र तु नेष्यते तत्र न भविष्यत्येव। एवम्? इनण्यनपत्ये (6.4.164) इत्येवमादिकं प्रकृतिभावविधानमनर्थकं स्यादिति चेत्? न; प्रपञ्चार्थत्वात्। राजन्यकम् इति। राज्ञोऽपत्यम् इति। राज्ञोऽपत्यम् इति राजरुषसुराद्यत् (4.1.137) तस्मात्समूहेर्थे गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् (4.2.39) इत्यादिनात्र वुञ्। मानुष्यकम् इति। मनोरपत्यमिति मनोर्जातावञ्यतौ षुक् च (4.1.161) इति येषां मतेऽपत्यार्थे यत्, तेषां पूर्वसूत्रेण वुञि कृते लोपः प्राप्नोति, स प्रकृतिबावान्निवर्तते। येषान्तु मतेन जातिमात्रे यत्, नापत्ये, तेषां नार्थः प्रकृतिभावेन; अनापत्ययकारत्वादेव हि लोपो न भविष्यति॥
Prakriyasarvasvam¶
इष्ठादिषु परेष्वेकाच् प्रकृत्या स्यात् । ‘आद्गुणः’ (६-१-८७) । प्रेमा । इमनिजन्ताः पुंस्येव । क्लीबे तु प्रेमशब्दः प्रीञ औणादिकमनिन्नन्तः । उरोर्वर्, गुरोर्गर्, वृद्धस्य वर्ष, तृप्रस्य त्रप् । वरिमा । गरिमा । वर्षिमा त्रपिमा । तृप्रं दुःखकरम् । सुखिमा प्रौढिमेत्यादिष्विमनिज् मृग्य इति वामनः । <karika>राकार्थे पूर्णिमाखब्दे भावे क्तान्तादिमच् किल । चन्द्रस्य पूरणं पूर्ण तन्निर्वृत्ता हि पूर्णिमा ॥ ३११ ॥</karika>
Vartika¶
प्रकृत्या अके राजन्यमनुष्ययुवानः ।
Sutra Prayogas¶
श्रेयसि (भट्टिकाव्यम्): प्रकृत्यैकाच् इति ।
स्रजयति (भट्टिकाव्यम्): प्रकृत्यैकाच् इति टिलोपाभावः ।