64159: इष्ठस्य यिट् च

Padacheda: इष्ठस्य | S | 6 | 1 |

यिट् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

After बहु , the augment यिट् is added to इष्ठ and भू is the substitute of बहु।

Vasu English Translation

After बहु , the augment यिट् is added to इष्ठ and भू is the substitute of बहु। As भूयिष्ठः ॥ This augment यिट् debars the lopa substitution, of the last sutra, in the case of इष्ठ ॥ The इ in यिट् is for the sake of pronunciative, the augment being य ॥ Or इष्ठ may be taken to have lost its इ by the foregoing sutra, and to the ष्ठ, the augment यि may be added.

Bhashya

इष्ठस्य यिट् च (3157) (यिशब्दे प्रकारद्वयदर्शकं भाष्यम्) किमयं यिशब्द आहोस्विद्याकारः ? किञ्ञ्चातः ? यदिलोपोऽप्यनुवर्तते, ततो यिशब्दः । अथ निवृत्तं, ततो यकारः ॥

Kashika

बहोरुत्तरस्येष्ठस्य यिडागमो भवति, बहोश्च भूरादेशो भवति। भूयिष्ठः। लोपापवादो यिडागमः, तस्मिन्निकार उच्चारणार्थः॥

Siddhanta Kaumudi

बहोः परस्य इष्ठस्य लोपः स्यात् यिडागमश्च । भूयिष्ठः ॥

Laghu Siddhanta Kaumudi

बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च। भूयिष्ठः॥

Balamanorama

इष्ठस्य यिट् च - इष्ठस्य यिट् च । लोपः स्यादिति ।आदेः परस्ये॑ति बोध्यम् । यिटि टकार इत् । इष्ठस्यादिलोपे कृते यिडागमः । ट इत् । टित्त्वात्प्रत्ययस्याद्यवयवः । बहोर्भूभावस्तु पूर्वसूत्रेण सिद्ध एव । यदि तु लोप इति निवृत्तं तदा यकार आगम इति भाष्यम् ।

Tattvabodhini

इष्ठस्य यिट् च - इष्ठस्य यिट् च । पूर्वसूत्रं संपूर्णमनुवर्तते । तदाह -बहोरित्यादि ।भूरादेशश्चे॑त्यपि ज्ञातव्यम् । भूयिष्ठ इति । अत्र इष्ठस्याऽऽजिलोपे कृते यिशब्द आगमः । यद्वा लोपापवादो यकार आगमः । इकारस्तूच्चारणार्थः । पक्षद्वयमपीदं भाष्यारूढम् ।

Padamanjari

लोपापवादो यिडागम इति । नाप्राप्ते तस्मिन्नारम्भात् । तस्मिन्निति । लोपापावदभूते । यदि तु लोपोऽप्यनुकृष्य विधीयते तदा इकारो नोच्चारणार्थः ॥

Nyaas

लोपापवादो यिङागमः इति। नाप्राप्ते तस्मिन्नस्यारम्भात्। तस्मिन्निकार उच्चारणार्थः इति। प्रयोजनान्तराभावात्। चकारः बहोश्च भूः इत्यनुकर्षणार्थः॥

Prakriyasarvasvam

बहोः परस्येष्ठस्य यिडागमो बहोर्भू च स्यात् । यिट इदुक्त्यर्थः । भूयिष्ठः । ‘र ऋतो हलादेरि’ति द्रढिष्ठः । म्रदिष्ठः ॥ <karika>घौ पुनरिष्ठेयसुनोरिष्टौ श्रेयस्तरो यविष्ठतरः । स्वार्थेऽपि च घौ वाच्यावल्पात्तरमप्यभिन्नतरम् ॥ ३४६ ॥</karika>