64159: इष्ठस्य यिट् च ===================== **Padacheda:** इष्ठस्य | S | 6 | 1 | यिट् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- After बहु , the augment यिट् is added to इष्ठ and भू is the substitute of बहु। Vasu English Translation ------------------------ After बहु , the augment यिट् is added to इष्ठ and भू is the substitute of बहु। As भूयिष्ठः ॥ This augment यिट् debars the *lopa* substitution, of the last *sutra*, in the case of इष्ठ ॥ The इ in यिट् is for the sake of pronunciative, the augment being य ॥ Or इष्ठ may be taken to have lost its इ by the foregoing *sutra*, and to the ष्ठ, the augment यि may be added. Bhashya ------- इष्ठस्य यिट् च (3157) (यिशब्दे प्रकारद्वयदर्शकं भाष्यम्) किमयं यिशब्द आहोस्विद्याकारः ? किञ्ञ्चातः ? यदिलोपोऽप्यनुवर्तते, ततो यिशब्दः । अथ निवृत्तं, ततो यकारः ॥ Kashika ------- बहोरुत्तरस्येष्ठस्य यिडागमो भवति, बहोश्च भूरादेशो भवति। भूयिष्ठः। लोपापवादो यिडागमः, तस्मिन्निकार उच्चारणार्थः॥ Siddhanta Kaumudi ----------------- बहोः परस्य इष्ठस्य लोपः स्यात् यिडागमश्च । भूयिष्ठः ॥ Laghu Siddhanta Kaumudi ----------------------- बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च। भूयिष्ठः॥ Balamanorama ------------ **इष्ठस्य यिट् च** - इष्ठस्य यिट् च । लोपः स्यादिति ।आदेः परस्ये॑ति बोध्यम् । यिटि टकार इत् । इष्ठस्यादिलोपे कृते यिडागमः । ट इत् । टित्त्वात्प्रत्ययस्याद्यवयवः । बहोर्भूभावस्तु पूर्वसूत्रेण सिद्ध एव । यदि तु लोप इति निवृत्तं तदा यकार आगम इति भाष्यम् । Tattvabodhini ------------- **इष्ठस्य यिट् च** - इष्ठस्य यिट् च । पूर्वसूत्रं संपूर्णमनुवर्तते । तदाह -बहोरित्यादि ।भूरादेशश्चे॑त्यपि ज्ञातव्यम् । भूयिष्ठ इति । अत्र इष्ठस्याऽऽजिलोपे कृते यिशब्द आगमः । यद्वा लोपापवादो यकार आगमः । इकारस्तूच्चारणार्थः । पक्षद्वयमपीदं भाष्यारूढम् । Padamanjari ----------- लोपापवादो यिडागम इति । नाप्राप्ते तस्मिन्नारम्भात् । तस्मिन्निति । लोपापावदभूते । यदि तु लोपोऽप्यनुकृष्य विधीयते तदा इकारो नोच्चारणार्थः ॥ Nyaas ----- `लोपापवादो यिङागमः` इति। नाप्राप्ते तस्मिन्नस्यारम्भात्। `तस्मिन्निकार उच्चारणार्थः` इति। प्रयोजनान्तराभावात्। चकारः `बहोश्च भूः` इत्यनुकर्षणार्थः॥ Prakriyasarvasvam ----------------- बहोः परस्येष्ठस्य यिडागमो बहोर्भू च स्यात् । यिट इदुक्त्यर्थः । भूयिष्ठः । ‘र ऋतो हलादेरि’ति द्रढिष्ठः । म्रदिष्ठः ॥ घौ पुनरिष्ठेयसुनोरिष्टौ श्रेयस्तरो यविष्ठतरः । स्वार्थेऽपि च घौ वाच्यावल्पात्तरमप्यभिन्नतरम् ॥ ३४६ ॥