64160: ज्यादादीयसः¶
Padacheda: ज्यात् | S | 5 | 1 |
आत् | S | 1 | 1 |
ईयसः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
आ is substituted for the first letter of ईयस् after ज्य।
Vasu English Translation¶
आ is substituted for the first letter of ईयस् after ज्य। As ज्यायान् ॥ ज्य is substituted for प्रशस्य by (5.3.61). ‘Lopa’ being shut out by the intervening यिट् (6.4.159), the आत् is read in this sutra. If the anuvritti of ‘lopa’ were present here, then the अ of ज्य would be lengthened before यस् by (7.4.25), and we would get the form ज्यायान् ॥ The peculiar construction of this sutra indicates the existence of the following maxim:- अङ्गवृत्ते पुनर्वृत्तावविधिः “when an operation which is taught in the angadhikara (VI.4, end-VII.4, end) has taken place, and another operation of the angadhikara is subsequently applicable, this latter operation is not allowed to take place.” In (7.4.25), however, क्ङित् is understood, and lengthening could not have taken place by that rule.
Bhashya¶
ज्यादादीयसः (3158) (लोपानुवर्तनाभावेन परिभाषाज्ञापकभाष्यम्) किमर्थं ज्यात्परस्येयस आत्वमुच्यते, न लोपः प्रकृतः सोऽनुवर्तते ? का रूपसिद्धिः ? ज्यायान् । अकृद्यकार इति दीर्घत्वं भविष्यति । एवं तर्हि सिद्धे सति यत् ज्यात्परस्येयस आत्वं शास्ति तज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा - अङ्गवृत्ते पुनर्वृत्तावविधिरिति ॥ (ज्ञापकफलभाष्यम्) किमेतस्य ज्ञापने प्रयोजनम् ? पिबेर्गुणप्रतिषेधश्चोदितः स न वक्तव्यो भवति ॥ (आत्वकरणेन परिभाषाज्ञापकभाष्यम्) अथ किमर्थं ज्यात्परस्येयसो दीर्घ उच्यते, न अकार एवोच्येत ? का रूपसिद्धिः ? ज्यायान् । आन्तर्यतो दीर्घस्य दीर्घो भविष्यति । एवं तर्हि सिद्धे सति यद्दीर्घग्रहणं करोति तज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा - भाव्यमानेन सवर्णानां ग्रहणं नेति ॥
Kashika¶
ज्यादुत्तरस्येयस आकार आदेशो भवति। ज्यायान्। लोपस्य यिटा व्यवहितत्वादादित्युच्यते। लोपे हि सति अकृद्यकारे (७.४.२५) इति दीर्घत्वेन ज्यायानिति सिध्यति॥
Siddhanta Kaumudi¶
आदेः परस्य (SK44) । ज्यायान् ॥
Laghu Siddhanta Kaumudi¶
आदेः परस्य। ज्यायान्॥
Balamanorama¶
ज्यादादीयसः - ज्यादादीयसः । ज्यात् — आदितिच्छेदः । ज्यात् परस्य ईयस आकारः स्यादित्यर्थः । अन्तादेशत्वे प्राप्ते आह — आदेः परस्येति ।
Padamanjari¶
लोपस्येति । यदि लोपो यिटा न व्यवहितः स्यातेनैव ज्यायानिति सिध्यतीति कृत्वा आदिति न वक्तव्यं स्यादिति भावः । कथं पुरर्लोपे सिद्धिः इत्याह - लोपे हीति । अकृद्यकार इति । अत्र क्ङितीति नानुवर्तत इति भावः । उरुयेत्यादौ छान्दसत्वाद्दीर्घाभावः ॥
Nyaas¶
ज्यायान् इति। प्रशस्यस्य श्रः (5.3.60) ज्य च (5.3.61) इति ज्यादेशः। लोपस्य यिट्? च इयादि। यद्यत्र लोपो यिटा न व्यवधीयते तदा तेनैव ज्यायानित्येतत्? सिद्ध्यतीति कृत्वाऽऽदिति नोच्येतेत्यभिप्रायः। कथं पुनरादित्यनुच्यमाने लोपेन सिद्धयति? इत्यत आह -लोपे हि सति इत्यादि। अथ दीर्घोच्चारणं किमर्थम्, यावतान्तरतम्यादेव दीर्घस्य दीर्घ एव भविष्यति? नैतदस्ति; न हि भाव्यमानोऽण्? सवर्णान्? न गृह्णाति (व्या।प।35) इति॥
Prakriyasarvasvam¶
ज्यात्परस्येयस आदेरात् स्यात् । दीर्घः ज्यायान् ।
Sutra Prayogas¶
ज्यायान् (किरातार्जुनीयम्): ज्यादादीयसः इति ज्यादेशः।
ज्यायान् (किरातार्जुनीयम्): ज्यादादीयसः इत्याकारादेश:।