64158: बहोर्लोपो भू च बहोः¶
Padacheda: बहोः | S | 5 | 1 |
लोपः | S | 1 | 1 |
भू | S | | | 1
च | S | 0 | 0 |
बहोः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
The इ and ई of these affixes (इमन् and ईयस्) are elided after बहु , and for बहु is substituted भू।
Vasu English Translation¶
The इ and ई of these affixes (इमन् and ईयस्) are elided after बहु , and for बहु is substituted भू। Thus भूयान्, भूमा ॥ In the case of इष्ठ, the following rule 159 will apply. Under (1.1.54) and (1.1.67), बहोः being in the Ablative, the first letter of the succeeding term is elided, viz. इ or ई; in this case. बहु belongs to Prithvadi class and takes इमन् affix. (5.1.122) The repetition of बहोः is for the sake of pointing out the sthani, for which the word भू is to be substituted : otherwise भू would have replaced these affixes.
Kashika¶
बहोरुत्तरेषामिष्ठेमेयसां लोपो भवति, तस्य च बहोः स्थाने भू इत्ययमादेशो भवति। भूमा। भूयान्। बहुशब्दः पृथ्वादिषु पठ्यते। बहोरिति पुनर्ग्रहणं स्थानित्वप्रतिपत्त्यर्थम्, अन्यथा हि प्रत्ययानामेव भूभावः स्यात्॥
Siddhanta Kaumudi¶
बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः । भूमा । भूयान् ॥
Laghu Siddhanta Kaumudi¶
बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः। भूमा। भूयान्॥
Balamanorama¶
बहोर्लोपो भू च बहोः - बहोर्लोपः । ‘भू’ इति लुप्तप्रथमाकम् । इष्ठेयमेयस्स्वित्यनुवृत्तम् । तत्र इष्ठन उत्तरसूत्रे कार्यान्तरविधानादिह तस्य न संबन्धः । तदाह — बहोः परयोरिति ।आदेः परस्ये॑ति प्रत्ययोरादिलोपः । भूमेति । बहुत्वमित्यर्थः । बहुशब्दात्पृथ्वादिमनिचि प्रकृतेर्भूभावः, प्रत्ययादैरिकारस्य लोपश्च भूयानिति । अयमनयोरतिशयेन बहुरित्यर्थः । वैपुल्यवाचकाद्बहुशब्दादीयसुनि प्रकृतेर्भभावः, प्रत्ययादेरिकारस्य लोपश्च । भूभावस्याभीयत्वेना.ञसिद्धत्वादोर्गुणो न भवति ।
Padamanjari¶
भूयानिति । आदेः परस्य इत्यादेर्लोपः । अन्यथा हीति । यदि पुनः बहोः इति नोच्येत, ततो यथा लोपः प्रत्ययानां भवति, तथा भूभावोऽपि तेषामेव स्यात् । पर्यायेण तत्र लोप आदेर्भूभावः सर्वस्य शक्यते एवक्तुम् पृथग्निर्द्देशात्प्रत्ययानां न भविष्यति, अन्यथा भूलोपौ बहोः इति व्रूयात् । एवं च कृत्वा उतरपदभूम्नि इति निर्द्देश उपपद्यत इति ॥
Nyaas¶
बहोरुत्तरेषाम् इति। एतेन प्रथमस्य बहोः पञ्चम्यन्ततां दर्शयति, तस्य च वहोरित्यनेनापि द्वितीयस्य षष्ठन्तताम्। भूयान् इति। आदेः परस्य (1.1.54) इतीकारस्यव लोपः। अथ किमर्थं बहोरिति पुनग्र्रहणम्? इत्याह -बहोरिति पनः इत्यादि। असति हि बहोरिति ग्रहणे बहुशब्दस्य स्थानित्वं न प्रतीयेत; पञ्चम्यन्तेन निर्देशात्। तस्मात्? स्थानित्वप्रतिपत्तये पुनर्बहोरित्यच्यते। अन्यथा हि इत्यादि। यदि बहोः इति नोच्येत, तदा प्रत्ययानामेव भूभावः स्यात्; तस्मादित्युत्तरस्य (1.1.67) इति वचनात्। ननु पृथग्निर्देशादेव प्रत्ययानां न भविष्यति, अन्यथा भूलोपौ इत्ययं ब्राऊयात्? नैतदस्ति; अस्ति ह्रन्यत्? पृथग्निर्देशस्य प्रयोजनम्। किम्? पृथक्स्थानिकौ यथा स्ताताम्, आदेर्मा भूतामिति। यदि भूलोपौ इत्येवमुच्येत, तदा आदेः परस्य (1.1.54) इत्याद्यस्यैव वर्णस्य पर्यायेण भूलोपो स्यातामिति। अतो भिन्नस्थानिकौ यता स्यातामित्येवमर्थः पृथग्योगनिर्देशः स्यात्। तस्माद्युक्तमुक्तम् -अन्यथा हि प्रत्ययानामेव भूभावः स्यात् इति। चकारोऽत्र सन्नियोगार्थः॥
Sutra Prayogas¶
भूयस्या (शिशुपालवधम्): बहोर्लोपो भू च बहोः इति इकारलोपः बहोः भूरादेशश्च।