64150: हलस्तद्धितस्य

Padacheda: हलः | S | 5 | 1 |

तद्धितस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

The य् of a तद्धित affix when preceded by a consonant and penultimate in a अङ्ग (stem), is elided before the feminine ई।

Vasu English Translation

The य् of a तद्धित affix when preceded by a consonant and penultimate in a अङ्ग (stem), is elided before the feminine ई। The anuvritti of “taddhita” ceases, because of its mention in the next sutra. Hence this sutra applies to feminine ई only. As गार्गी, वात्सी from गार्ग्य and वात्स्य ॥ Why do we say ‘when preceded by a consonant’? Observe कारिकेयी ॥ Why do we say ‘of a Taddhita’. Observe वैद्यस्य भार्या = वैद्यी ॥

Kashika

तद्धित इति निवृत्तम्। हल उत्तरस्य तद्धितयकारस्य उपधाया ईति परतो लोपो भवति। गार्गी। वात्सी। हल इति किम्? कारिकेयी। तद्धितस्येति किम्? वैद्यस्य भार्या वैद्यी॥

Siddhanta Kaumudi

हल उत्तरस्य तद्धितयकारस्योपधाभूतस्य लोपः स्यादीति परे । गार्गी ।<!अनपत्याधिकारस्थान्न ङीप् !> (वार्तिकम्) ॥ द्वीपे भवा द्वैप्या । अधिकारग्रहणान्नेह । देवस्यापत्यं दैव्या । देवाद्यञञाविति हि यञ् प्राग्दीव्यतीयो न त्वपत्याधिकारपठितः ॥

Laghu Siddhanta Kaumudi

हलः परस्य तद्धितयकारस्योपधाभूतस्य लोप ईति परे । गार्गी ॥

Balamanorama

हलस्तद्धितस्य - हलस्तद्धितस्य । ‘हल’ इति दिग्योगे पञ्चमी ।परस्ये॑त्यध्याहार्यम् ।यस्येति चे॑ति सूत्रादीतीत्यनुवर्तते,सूर्यतिष्यागस्त्ये॑त्यतः ‘उपधाया’ इति षष्ठन्तं च, ‘ढे लोपोऽकद्र्वाः’ इत्यतो ‘लोप’ इति च । तदाह — हलः परस्येत्यादिना । अकारलोपात्प्रागेव यकारलोपो न संभवति, अकारे सति यकारस्य ईकारपरकत्वाऽभावात् । ननु कृतेऽकारलोपे खतं यकारस्य उपधात्वम् । नच अल्लोपस्य स्थानिवत्त्वं शङ्क्यं, यलोपविधौ तन्निषेधादिति चेन्न, यलोपे कर्तव्येऽल्लोपस्याभीयत्वेनाऽसिद्धतया यकारस्य उपधात्वसंभवात् । उपधाग्रहणाननुवृत्तौ त्वल्लोपस्याऽसिद्धत्वाद्यकारस्य ईकारपरकत्वाऽभावाल्लोपो न स्यात् । यदा तु सूत्रारम्भसामर्थ्यादेवाकारव्यवधाने ।ञपि यकारस्य लोपः सम्भवतीत्युच्यते, तदोपधाग्रहणानुवृत्तिर्मास्तु । गार्गीति । इहगोत्रं च चरणैः सहे॑ति जातित्वेऽपिजातेरस्त्रीविषया॑दिति न ङीष्, योपधत्वात् । अनपत्याधिकारेति ।तस्यापत्य॑मित्यपत्याधिकारविहितभिन्नयञन्तान्न ङीबिति वक्तव्यमित्यर्थः । द्वैप्येति । द्वीपे भवेति विग्रहेद्वीपादनुसमुद्र यञि॑ति यञ् । आदिवृद्धिः ।यस्येति च॑ । टापि सवर्णदीर्घः । अस्य यञोऽपत्याधिकारविहितत्वाऽबावान्न ङीबिति भावः । नन्वपत्यान्न ङीबित्येतावतैव द्वैप्येत्यत्रातिप्रसङ्गनिरासादधिकारग्रहणं किमर्थमित्यत आह-अधिकारग्रहणादिति ।इह ने॑ति शेषः । देवस्यापत्यमिति विग्रहे ‘देवाद्यञञौ’ इति यञ्, आदिवृद्धिः,यस्येति च॑ । दैव्यशब्दाट्टाप्, सवर्णदीर्घः, दैव्येति रूपम् ।अनपत्यान्न ङी]बित्युक्ते त्वस्य यञ आपत्यत्वान्ङीब्निषेधो न स्यात् । अधिकारग्रहणे तु अत्रापि निषेधः स्यादेव, अस्य यञ आपत्यत्वे ।ञपितस्यापत्य॑मित्यधिकारबहिर्भूतत्वात् । तदेतदुपपादयति — देवादिति । ‘देवाद्यञञौ’ इति तुतस्यापत्य॑मित्यदिकारात्प्रागेवप्राग्दीव्यतो॑णित्यधिकारपठितः । स चाऽपत्यादिविकारान्तार्थेषु साधारणत्वादपत्यार्थकोऽपि भवति, न त्वपत्याधिकारपठित इत्यर्थः । यद्यपियञश्चे॑ति सूत्रेआपत्यग्रहणं कर्तव्य॑मित्येव भाष्ये दृश्यते, तथापि तत्र आपत्यपदमपत्याधिकारविहितपरमिति मनोरमायां शब्दरत्ने च प्रपञ्चितम् ।

Tattvabodhini

हलस्तद्धितस्य - हलस्तद्धितस्य ।हल॑इति पञ्चमी ।यस्येति चे॑त् सूत्रात् — ईतीत्यनुवर्तते ।नस्ताद्धिते॑इत्यतस्तद्धित नानुवर्तते,आपत्यस्य चे॑त्यत्तरसूत्रे पुनस्तद्धितग्रहणात्तदाह -हल उत्तरस्येत्यादि ।तद्धिते॑इत्यनुवृत्तौ त्विहापि स्यात्, -साङ्काश्यकः । काम्पिल्यकः ।सङ्काशादिभ्यो णयः॑ । ततोधन्वयोपधा॑दिति वुञ् । उपधाभूतस्येति ।सूर्यतिष्ये॑त्यतउपधाया॑इत्यनुवर्तत इति भावः । ननुयस्येति चे॑ति यञोऽकारलोपे कृते यकारस्य ईकारपरत्वमस्त्येव किमुपधाग्रहणानुवृत्त्या । न चाऽल्लपोस्य स्थानिवद्भावो, यलोपे तन्निषेधात् । अत्राहुः — यलोपे कर्तव्येऽल्लोपस्याभीयत्वनाऽसिद्धत्वादुपधाग्रहणानुवृत्तिरभ्युपगन्तव्येति । अन्ये त्वाहुः — सूत्रारम्भसामर्थ्यादल्लोपस्याऽसिद्धकत्वं न भवति । तथा चोपधाग्रहणं विनापि नात्र क्षतिः । एवं चसूर्यतिष्ये॑ति सूत्रेऽप्युपधाग्रहणं त्यक्तुं शक्यमुक्तयुक्तेरिति । गार्गीति । गोत्रप्रत्ययान्तस्य जातित्वेऽपि योपधत्बादत्रजाते॑रिति ङीषिन भवति । तथाच आद्युदात्तमेवेदं पदम् । अनपत्याधिकारेति । यद्यपिआपत्यग्रहणं कर्तव्य वार्तिकम्, तथाप्यपत्याधिकारविहितपरं तत् । तादृशश्च गर्गादियञेव न तु देवाद्यञ् । तस्याऽपत्याधिकाररात्प्रागेवन पाठात् । अतएव भाष्यकृतायञश्चे॑त्यत्रकञ्क्वरपोऽयञश्चे॑ति,गर्गादिभ्यो य॑ञित्यत्रअय॑ञिति अकारः प्राश्लिष्टः । एवं चयञञोश्चे॑ति सूत्रेऽपियस्कारदिभ्यो गोत्रे -अयञञोश्चे॑त्यकारः प्रश्लिष्टः । एतच्च मनोरमाग्रन्थानुरोधोनोक्तम् । नव्यास्तु -अधिकारग्रहणमिहऽपार्थकं, यथाश्रुतवार्तिकेनैव द्वीपे भवा द्वेप्येति रूपसिद्धेः । न च देवस्यापत्यं स्त्री दैव्येति रुपाऽसिद्धि शङ्क्या,अयञश्चे॑ति भाष्यकारीयमिष्कर्षात्तत्सिद्धेः । नहिदेवाद्यञञौ॑इत्यत्राऽयञित्यकारः प्रश्लेष्टं शक्यते । किंचाधिकारग्रहणे अभिजितोऽपत्यं स्त्रीत्यणन्तात्स्वार्थेअभिजिद्विदभृ॑दित्यादिना यञिआभिजिती॑ति रूपं न सिध्येत् ।॒श्रुमदणोऽयञ॑इत्यकारप्रश्लेषेण भाष्यकाररीतियाऽपीह ङीपः संभवादित्याहुः । स्यादेतत् -अकारं प्रश्लिष्य गर्गादिभ्योऽयञि कृते गाग्र्य इति रूपं न सिध्येत् । मैवम् । वार्तिकप्रत्याख्यानाय भाष्यविरुद्ध इति स्पष्टमेव ।

Padamanjari

तद्धित इति निवृतमिति । उतरसूत्रे पुनस्तद्धितग्रहणात्, तेनायमीत्येय विधिः ॥

Nyaas

तद्धित इति निवृत्तम् इति। उत्तरसूत्रे तद्धितग्रहणात्। तेनायमीत्येव विधिः। गार्गी इत्यादि। गर्गादिशब्देभ्यो यञन्तेभ्यः यञश्च (4.1.16) इति ङीप्। कारिकेयी इति। स्त्रीभ्यो ढक् (4.1.120) , तदन्तात्? टिङ्ढाणञ् (4.1.15) इति ङीप्। वैधी इति। पुंयोगादाख्यायाम् (4.1.48) इति ङीष्॥

Praudhamanorama

उपधाभूतस्येति। ननु ‘यस्येति च’ इति यञोऽकारलोपे कृते यकारस्य ईकारपरत्वमस्त्येव किमुपधाग्रहणानुवृत्त्या? न चाल्लोपस्य स्थानिवद्भावः, यलोपे तन्निषेधात्; मैवम्, यलोपे कार्ये अल्लोपस्याऽऽभीयत्वेनाऽसिद्धत्वात्। अनपत्येति। यद्यपि ‘आपत्यग्रहणं कर्तव्यम्’ इति वार्तिकन्तथाऽपि अपत्याधिकारविहितपरं तत्। तादृशश्च गर्गादियञेव, न तु देवाद्यञ्। तस्यापत्याधिकारात् प्रागेव पाठात्। अत एव भाष्यकृता ‘कञ्क्वरपोऽयञञ्च’ इति ‘गर्गादिभ्यो यञ्’ इति च अकारः प्रश्लिष्टः। ‘यस्कादिभ्यो गोत्रेऽयञञोश्च’ इति सूत्रेऽप्येवम्॥

Prakriyasarvasvam

हलः परस्य तद्धितयकारस्य ईति परे लोपः स्यात् । यस्येति लोपः । सौमी ऋक् ॥

Sutra Prayogas

  • लावणिकेन (शिशुपालवधम्): हलस्तद्धितस्य इति यकारलोपः।