64149: सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः¶
Padacheda: सूर्य-तिष्य-अगस्त्य-मत्स्यानाम् | S | 6 | 3 |
यः | S | 6 | 1 |
उपधायाः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
Of the भ अङ्ग (stems) 1. सूर्य 2. तिष्य 3. अगस्त्य and 4. मत्स्य (and their derivatives when they are भ) the penultimate य् is also is also elided before a तद्धित affix.
Vasu English Translation¶
Of the भ अङ्ग (stems) 1. सूर्य 2. तिष्य 3. अगस्त्य and 4. मत्स्य (and their derivatives when they are भ) the penultimate य् is also is also elided before a तद्धित affix. Thus सूर्येणैकादिक् = सौरी (सूर्य + अण् under (4.3.112) = सौर्य, then ई of ङीप् = सौरी), as सौरी बलाका ॥
So also तिष्य — तैषमहः, तैषी रात्रिः ॥ So also अगस्त्यस्यापत्यं स्त्री = आगस्ती (4.1.114), आगस्तीयः; So also मत्स्य — मत्सी with ङीष् as it belongs to Gauradi class (4.1.40). If the words सूर्य &c, were to be qualified by the word भ, then the sutra would mean सूर्यादीनां भसंज्ञानां “of सूर्य &c, when they get the designation of भ”; and the result of this interpretation would be, that the rule would apply to cases like सूर्यस्य स्त्री = सूरी, आगस्त्यस्य स्त्री = आगस्ती &c, only, where the forms सूर्य &c, are Bha, and not to their derivatives, as सौर्य &c: and there would not have been the forms like सौरी बलाका; because, here the word सूर्य is not Bha before the affix ई, but the word सौर्य is Bha. Hence we have introduced the words “and their derivatives” in the translation, so as to cover the cases like सौरी बलाका ॥
In the last example, we again have an illustration, of the rule (6.4.22), which says that for purposes of asiddha the आश्रय must be the same. Thus सौर्य + ई = सौर्य् + अ lopa + ई = सौरी ॥ But सौर्य itself was formed by the elision of अ of सूर्य before the affix अण्, thus, सूर्य + अण् = सौर्य् + ० + सौर्य् (last sutra) = सौर्य ॥ But if this lopa be considered as asiddha by (6.4.22), then we have the following equation सौर्य् + ० + अ (of अण्) + ई = सौर्य् + ० + ० (अ of अण् being elided by (6.4.148) + ई ॥ Here य् cannot be elided, as it is not upadha or penultimate: because the first lopa is considered asiddha. But it is not to be so considered, as their scopes (आश्रय) are different. Hence we have the elision of य् by this sutra. It should not be objected that the य् here is not penultimate, but ultimate: as सौर्य + ई = सौर्य् + ० + ई (अ elided by the last sutra), and thus य् is ultimate. Here, however, rule (6.4.22), applies. This elision of अ will be considered asiddha for the purposes of the elision of य्, their scope being the same. So being considered asiddha, य् still retains its designation of upadha and is elided by the present sutra. It should be remembered here, that we could not take help of the rule of sthanivat-bhava, because for purposes of यलोप, that rule is set aside. See (1.1.58).
Why do we say the penultimate य्? Observe मत्स्यचरी ॥ This word is thus formed. The affix चरट् is added to मत्सी by (5.3.53), in the sense of मत्सी भूतपूर्वा ॥ Then the मत्सी becomes masculine मत्स्य by (6.4.35), and we have मत्स्यचर ॥ This word takes ङीप् by (4.1.15), because it is formed by an affix having an indicatory ट् ॥ Thus मत्स्यचर + ई, and the word is भ, but the य is not elided, because it is not penultimate. The य has been read for the sake of the subsequent sutras : उपधायाः alone would have been enough for the purposes of this aphorism. The rule contained in this sutra is rather too general; it is limited by the following vartikas, which enumerate the conditions under which the elision takes place.
Vart:- The य of मत्स्य is elided before the feminine ई only: therefore not here मत्स्यस्येदं मांसं = मात्स्यम् ॥
Vart:- Of सूर्य and अगस्त्य before the affixes छ, and ई (of the feminine): as सौरीयः, सौरी, आगस्तीयः, आगस्ती ॥ But not here सौर्यं चरुं निर्वपेत्, आगस्त्य formed with the Patronymic अण् (4.1.114)
Vart:- Of तिष्य and पुष्य when referring to asterisms, as, तिष्येण नक्षत्रेण युक्तः कालः = तैषः, पौषः (4.2.3).
Vart:- Of अन्तिक before the affix तसि, the क is elided, and the word has acute on the first syllable : as, अन्तितः in अन्तितो न दूरात्(5.4.45).
Vart:- Before the affix तम, it loses the syllable तिक as well as क, as अन्तमः or अन्तितमः, in अग्रे त्वं नो अन्तिमः अन्तितमे अवरोहति ॥
Vart:- The elision of क of अन्तिक takes place diversely, before the second member also, as अन्तिके सीदति = अन्तिषत् (स changed to ष by (8.3.106))
Vart:- The elision takes place also before the affix य, as अन्तियः, this is found in the Atharva-Veda, (अन्तिके भवः, with the affix यत् (4.4.110)).
Bhashya¶
सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः (3147) (6618 आक्षेपवार्तिकम् ॥ 1 ॥) - सूर्यादीनामणन्तेऽप्रसिद्धिरङ्गान्यत्वात् - सूर्यादीनामणन्तेऽप्रसिद्धिः । सौरी बलाका । किं कारणम् ? अङ्गान्यत्वात् । अणन्तमेतदङ्गमन्यद्भवति ॥ लोपे कृते नाङ्गान्यत्वम् । स्थानिवद्भावादङ्गान्यत्वं भवति ॥ (6619 समाधानवार्तिकम् ॥ 2 ॥) - सिद्धं तु स्थानिवत्प्रतिषेधात् - सिद्धमेतत् । कथम् ? स्थानिवत्प्रतिषेधात् । प्रतिषिध्यतेऽत्र स्थानिवद्भावः - यलोपविधिं प्रति न स्थानिवद्भवतीति । एवमपि न सिध्यति । किं कारणम् ? अङ्गान्यत्वात् । अन्यो हि सूर्यशब्दः, अन्यः सौर्यशब्दः । नैष दोषः । एकदेशविकृतमनन्यवद्भवतीत्येवं भविष्यति ॥ (6620 प्रत्याक्षेपवार्तिकम् ॥ 3 ॥) - उपधाग्रहणानर्थक्यं च - स्थानिवद्भावे चेदानीं प्रतिषिद्धे उपधाग्रहणमनर्थकम् । किं कारणम् ? अन्त्य एव हि सूर्यादीनां यकारः । किं यातमेतद्भवति ? सुष्ठु यातम्, साधु च यातम्, यदि प्राग्भादसिद्धत्वम् । अथ सह तेनासिद्धत्वम्, असिद्धत्वाल्लोपस्यानन्त्यो यकारो भवति ॥ (समाधानभाष्यम्) यद्यपि सह तेनासिद्धत्वम्, एवमपि न दोषः । नैवं विज्ञायते - सूर्यादीनामङ्गानां यकारलोप इति । कथं तर्हि ? अङ्गस्य यलोपो भवति स चेत्सूर्यादीनां यकार इति । एवमपि सूर्यचरी अत्र प्राप्नोति । तस्मादुपधाग्रहणं कर्तव्यम् ॥ (6621 परिगणनोपसंख्यानवार्तिकम् ॥ 4 ॥) - विषयपरिगणनं च - विषयपरिगणनं च कर्तव्यम् ॥ (6622 परिगणनवार्तिकम् ॥ 5 ॥) - सूर्यमत्स्ययोर्ङ्याम् - सूर्यमत्स्ययोर्ङ्यामिति वक्तव्यम् । सौरी, मत्सी ॥ (6623 परिगणनवार्तिकम् ॥ 6 ॥) - सूर्यागस्त्ययोश्छे च - सूर्यागस्त्ययोश्छे च ङ्यां चेति वक्तव्यम् । सौरी, सौरीयः । आगस्ती, आगस्तीयः ॥ (6624 परिगणनवार्तिकम् ॥ 7 ॥) - तिष्यपुष्ययोर्नक्षत्राणि - तिष्यपुष्ययोर्नक्षत्राणि यलोपो वक्तव्यः । तैषम्, पौषः ॥ (6625 उपसंख्यानवार्तिकम् ॥ 8 ॥) - अन्तिकस्य तसि कादिलोप आद्युदात्तत्वं च - अन्तिकस्य तसि कादिलोपो वक्तव्यः, आद्युदात्तत्वं च वक्तव्यम् । अन्तितो न दूरात् ॥ (उपसंख्यानभाष्यम्) तमे तादेश्च कादेश्च लोपो वक्तव्यः । अग्ने त्वं नो अन्तमः । अन्तितमे अवरोहति ॥ (उपसंख्याने श्लोकवार्तिकम्) तसीत्येष न वक्तव्यो दृष्टो दाशतयेऽपि हि । द्यौ लोपोऽन्तिषदित्यत्र अन्तिषत् ॥ (उपसंख्याने श्लोकवार्तिकम्) तथाऽद्यौ येऽन्त्यथर्वसु ॥ 1 ॥ अन्ति ये च दूरके ॥
Kashika¶
सूर्य तिष्य अगस्त्य मत्स्य इत्येतेषां यकारस्य उपधाया भस्य लोपो भवतीति परतस्तद्धिते च। सूर्येणैकदिक् सौरी बलाका। अणि यो यस्येति लोपस्तस्यासिद्धत्वं नास्ति, व्याश्रयत्वात्। ईकारे तु यस्तस्यासिद्धत्वाद् उपधायकारो भस्याणन्तस्य सूर्यस्य संबन्धीति लुप्यते। तिष्य — तैषमहः। तैषी रात्रिः। अगस्त्यस्यापत्यं स्त्री, ऋषित्वाद् (४.१.११४) अणि कृत आगस्ती। आगस्तीयः। मत्स्य — गौरादित्वाद् (४.१.४१) ङीषु, मत्सी। उपधाया इति किम्? मत्स्यचरी। यग्रहणमुत्तरार्थम्। विषयपरिगणनमत्र कर्तव्यम्॥ मत्स्यस्य ङ्यामिति वक्तव्यम्॥ इह मा भूत् — मत्स्यस्येदं मांसं मात्स्यम्॥ सूर्यागस्त्ययोश्छे च ङ्यां च॥ सौरीयः। सौरी। आगस्तीयः। आगस्ती। इह मा भूत् — सौर्यं चरुं निर्वपेत्। आगस्त्यः॥ तिष्यपुष्ययोर्नक्षत्राणि॥ तिष्येण नक्षत्रेण युक्त ः कालः तैषः। पौषः॥ अन्तिकस्य तसि कादिलोप आद्युदात्तं च॥ अन्तिकशब्दस्य तसिप्रत्यये परतः ककारादेः शब्दस्य लोपो वक्तव्यः, आद्युदात्तत्वं च। अन्ति॑तो न दू॒राद् (ऋ० २.२७.१३)॥ तमे तादेश्च॥ तमप्रत्ययेऽन्तिकशब्दस्य तकारादेः ककारादेश्च लोपो वक्त व्यः। तत्र तादिलोपे — अन्त॑मः (ऋ० ५.२४.१)। कादिलोपे — अन्तितमः॥ कादिलोपे बहुलमिति वक्तव्यम्॥ अन्यत्रापि हि दृश्यते। अन्तिके सीदतीति अन्तिषत्। पूर्वपदात् (८.३.१०४) इति षत्वम्॥ ये च॥ अन्तियः॥
Siddhanta Kaumudi¶
अङ्गस्योपधाया यस्य लोपः स्यात्स चेद्यः सूर्याद्यवयवः ।<!मत्स्यस्य ङ्याम् !> (वार्तिकम्) ।<!सूर्यागस्त्ययोश्छे च ङ्यां च !> (वार्तिकम्) ।<!तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम् !> (वार्तिकम्) ॥ मत्सी ।<!मातरि षिच्च !> (वार्तिकम्) ॥ इति षित्त्वादेव सिद्धे गौरादिषु मातामहीशब्दपाठादनित्यः षितां ङीष् । दंष्ट्रा ॥
Balamanorama¶
सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः - मत्स्यशब्दाद्गौरादित्वान्ङीषि विशेष दर्शयितुमाह — सूर्यतिष्टागस्त्य । ‘ढे लोपोऽकद्र्वाः’ इत्यतो ‘लोप’ इत्यनुवर्तते । ‘य’ इति षष्ठी,अङ्गस्येत्यधिकृतमवयवषष्ठन्तं, तच्च उपदायामन्वेति । अङ्गस्य उपधाभूतो यो यकारस्तस्य लोपः स्यादिति लभ्यते ।सूर्यतिष्यागस्त्यमत्स्याना॑मित्यप्यवयवषष्ठन्तं यकारेऽन्वेति, न त्वह्गविशेषणं तदाह-अङ्गस्येत्यादिना । मत्स्यस्य ङ्यामिति । तेनेह न, मत्स्यस्येदं मात्स्यम् ।सूर्यागस्त्ययोश्छे चेति । सूरीयः । सूरी । अगस्तीयः । अगस्ती नेह — सौर्यम् । आगस्त्यम् ।तिष्येति ।नक्षत्रेण युक्तः कालः॑,सन्धिवेलाद्यृतुनक्षत्रेऽभ्योणि॑ति च विहिते नक्षत्रसबन्धिनि अणि परतस्तिष्यपुष्ययोर्यलोप इत्यर्थः । तत्र तिष्यस्य यलोपो नियम्यते । पुष्यस्य त्वप्राप्तो विधीयते । तिष्येण युक्तः पूर्णमासः, तिष्ये भवो वा तैषः । एवं पौषः । नेह — तिष्यस्य पुष्यस्य वाऽयं तैष्यः, पौष्यः । मत्सीति । मत्स्यशब्दाद्गौरादिङीषि यलोपः,यस्येति चे॑त्यकारलोपः । ननुपितृव्यमातुलमातामहपितामहाः॑ इति सूत्रे मातुः पिता पितुः पितेति विग्रहे मातृपितृभ्यां डामहचि टिलोपे मातामहपितामहशब्दौ निपातितौ । तत्र मातुर्माता पितुर्मातेति विग्रहे डामहचः षित्वं विहितं-॒मातरि षिच्चे॑ति ततश्चाषित्त्वविधानादेव ङीष्सिद्धेर्गौरादिषु मातामहीशब्दपाठौ न कर्तव्यः । नचमातरि षिच्चे॑ति न क्रियतामिति वाच्यं, पितामहीत्यत्र ङीषर्थं तस्यावश्यकत्वादित्यत आह — मातरीति । दंष्ट्रेति । दंशेःदाभ्यनीशसे॑ति करणे ष्ट्रन । अत्र षित्त्वे सत्यपि न ङीषिति भावः ।सूर्यादीनामङ्गानामुपधाभूतस्य यकारस्य लोप॑ इति तु न व्याख्यातं, तथा सतिसौरी बलाके॑ति न सिध्येत् । सूर्येणैकदिक् इत्यर्थेतेनैदि॑गित्यणि तदन्तान्ङीप्यणन्तमङ्गं, नतु सूर्यशब्द इति तदसिद्धिः । वचनं तु सूरी कुन्तीत्यत्र चरितार्थमित्यन्यत्र विस्तरः ।
Tattvabodhini¶
सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः - सूर्यतिष्य । अत्रभस्ये॑त्यनुवर्तमानमपि न सम्बध्यते, विषयपरिगणनेनैवातिपर्सङ्गनिवारणात् ।मत्स्यस्व ङ्याम् । मत्स्यस्य ङ्यामिति । नेह — मत्स्यस्येदं मात्स्यम् ।सूर्यागस्त्ययोश्छे च ङ्याचं॥छे च ङ्यां चेति । सूरीयः । सूरी । अगस्तीयः । अगस्ती । नेह — सौर्यं चरुम् । आगस्त्यम् ।तिष्यपुष्ययोर्नक्षत्राऽणि यलोप इति वाच्यम् । नक्षत्राऽणीति । नक्षत्रसम्बन्धी योऽण्नक्षत्रेण युक्तः कावलः॑इति,सन्धिवेलाद्यृतुनक्षत्रेभ्योऽ॑णिति च विहितस्तस्मिन्नित्यर्थः । तत्र तिष्यस्य यलोपो निपात्यते । पुष्यस्यत्वप्राप्तो विधीयते । तिष्येण युक्तः कालस्तैषः । पुष्येण युक्तः पौषः । तथा — तिष्ये भवस्तैषः । पुष्ये भवः पौषः । नेह — तिष्यस्यायं तैष्यः । मत्सीति । योपधत्वात्जातेरस्त्रीविषया॑दित्यप्राप्ते गौरादिपाठान्ङीष् । मातरि षिच्चेति ।पितृव्यमातुलमातामहे॑ति सूत्रस्थमिदं वचनम् । तच्चपितामही॑ति रूपसिद्ध्यर्थमवश्यं वक्तव्यमिति न वार्तिक्स्य वैयर्थ्यम् । ये तु पितामहशब्दमपि गौरादिषु पठन्ति, तन्मते वचनमिदं स्वरसतो न सङ्गच्छते । यदि त्वनित्यत्वज्ञापनमेव वचनस्य फलमिति ब्राऊषे, तर्हिषिद्गौरे॑ति सूत्र एवअनित्यं षितः॑इति वक्तव्यं किमनेन वक्रमार्गेणेति दिक् । दश्यतेऽनयेति दंष्ट्रा ।दाम्नीशसे॑त्यादिना करणे ष्ट्रन् ।
Padamanjari¶
यद्यत्र भत्वेन सूर्यादयो विशेष्यन्ते - सूर्यादीनां भसंज्ञानामिति, ततः सूर्यस्य स्त्री सूरी, आगस्त्यस्य अगस्तीत्यादौ यत्र सूर्याद्येव भसंज्ञकं तत्रैव स्यात्, सौरी बलाकेत्यत्र तु न स्यात्, न ह्यत्र सूर्यशब्द ईति भसंज्ञकः, किं तर्हि अणन्तम् । तस्मादनाश्रितरुपस्य भमात्रस्य लोपेन सम्बन्धः । सूर्यादिभिर्यकारो विशेष्यते एइति दर्शयन्नाह - सूर्यतिष्यागस्त्यमत्स्येत्यतेषामिति । भसंज्ञकस्य यो यकार उपधा तस्य लोपो भवति, स चेत्सूर्यादीनां सम्बन्धीत्यर्थः । सौरीति । अत्र ईति परतो भसंज्ञकमङ्गमणन्तं तस्य यकार उपधा यथा भवति तथा दर्शयति - अणि यो यस्येति लोप इति । व्याश्रयत्वादिति । अणि यस्येति लोपः, ईति यलोप इति व्याश्रयत्वम् । ईकारे तु य इति । लोप इत्यपेक्षते । भस्याणन्तस्येति । भसंज्ञकस्याणन्तस्य यकार उपधा भवतीत्यर्थः । स्थानिवद्भावस्तु द्वयोरपि यस्येतिलोपयोर्यलोपविधिं प्रति प्रतिषिद्धः । मत्स्यचरीति । मत्सी भूतपूर्वेति चरन्, तसिलादिष्विति पुंवद्भावः , टित्वान्ङीप्, भवत्यत्र मत्स्यचरशब्द ईति भसंज्ञकः, मत्स्यसम्बन्धी च यकारः न त्वसौ भसंज्ञकस्योपधेति लोपाभावः । यग्रहणमुतरार्थमिति । इह तु सूर्यादिसम्बन्धी भसंज्ञकस्योपधायकार एव न वर्णान्तरमिति नार्थस्तेन । सौरीय इति । सौर्यशब्दाद्वृद्धच्छः । एवम् - आगस्तीयः । आगस्त्य इति । उपत्ये ऋष्यण् । तिष्यपुष्ययोरिति । तिष्यस्य सत्रेणैव प्राप्ते नक्षत्राणि नियमः, पुष्यस्याप्राप्ते विधिः । सूत्रे त्वर्थग्रहणे सिध्यत्यस्यापि प्रसङ्गः । अन्तिकस्येत्यादि । च्छन्दस्येतदिष्यते । ककारादेः शब्दस्येति । ककारस्याकारस्य चेत्यर्थः । आद्यौदातञ्चेति । प्रत्ययस्वरस्यापवादः । अन्तित इति ।अपादाने चाहीयरुहोः इति तसिः । कादेश्चेति । कशब्दस्येत्यर्थः । अन्तिषदिति । मत्मृद्विप इत्यादिना क्विप् । बह्वचास्तु व्यस्तमधीयते । ये चेति । दृश्यत इत्यपेक्षते । अन्तिय इति । भवे च्छन्दसि इति यत् । कादिलोपस्यासिद्वत्वाद्यस्येनि लोपाभावः ॥
Nyaas¶
यद्यत्र भसंज्ञया सूर्यादयो विशिष्येरन् - सूर्यादीनां भसंज्ञकानामिति, तदा सौरी, बलाकेत्यत्र लोपो न स्यात्। न हि सूर्यशब्द इह भसंज्ञक इति, किं तर्हि? अन्येदवाणन्तं शब्दान्तरमिति बुद्धौ निधायानाश्रितरूपभेदस्य लोपेन सम्बन्धः सूर्यादिभिः सम्बन्धिभिर्यकारो विशिष्यत इति दर्शयन्नाह - `सूर्यतिव्यागस्त्यमत्स्य - `इत्येतेवाम् इत्यादि। भस्य इति। भसंज्ञकस्य। यो यकार उपधा, तस्य लोपो भवति स चेद्यकारः सूर्यादीनां सम्बन्धी भवति - अयमतरार्थो विवक्षितः। ते तु सूर्यादयो भत्वेन न विशिष्यतन्ते। तेन यदापि तेषां भसंज्ञा न भवति, तदापि तस्योपधायकारस्य लोपो भवत्येव यद्यसौ यकारः सूर्यादीनां सम्बन्धी भवति। सौरी, बलाका इति। ननु चात्राकारलोपस्य व्याश्रयत्वेनासिद्धत्वं नास्तीत्युपधायकारो न भवतीत्येतदुक्तम्? इत्याह - अणि यो यस्येति लोपः इत्यादि। अत्र हि द्वौ यस्येतिलापौ - एकोऽणिपरतः, अपर ईकारे। तत्र प्रथमो व्याश्रयः, तथा हि - लोपोऽणमाश्रित्य भवति, यलोपस्त्वीकारम्? अतो व्याश्रयत्वादसिद्धत्वाभावस्तस्य युक्तः। इतरस्त्वीकारमाश्रित्य भवति समानाश्रय एव, ततश्च तस्यासिद्धत्त्वादुपधायकारो भवति। भस्याणन्तस्य इत्तयादिना सूत्रार्थमुदाहरणे दर्शयति। तैषम्, तैषी इति। नक्षत्रेण युक्तः कालः (4.2.3) इत्यण्, टिड्ढाणञ् (4.1.15) इति ङीप्। ऋषित्वादणि कृते इति। ऋष्यन्धक (4.1.114) इत्यादिना मत्स्यचरी इति। मत्स्यो भूतपूर्वः - भूतपूर्वे चरट् (5.3.53) पूर्ववन्ङीप्। भवत्यत्र मत्स्यचर इति भसंज्ञकमत्स्यसम्बन्धी यकारः, नत्वसौ भसंज्ञकस्योपदेति लोपो न प्रवर्तते। अथ किमर्थं यग्रहणम्, यावता सूर्यादिभिरूपधायां विशिष्यमाणायामन्तरेणापि यग्रहणं यकारस्योपधाभूतस्य लोपो विज्ञास्यते, यकार एव हि तेषामुपधा, न तु वर्णान्तरम्? इत्यत आह - यग्रहणमुत्तरार्थम् इति। वक्तव्यम् इति व्याख्येयमित्यर्थः। व्याख्यानन्त्विहापि पूर्ववद्विभाषामाश्रित्य कर्तव्यम्। मात्स्यम् इति। तस्येदम् (4.3.120) इत्यण्। सौरीयम् इति। अणन्तात्? वृद्धाच्छः (4.2.114) । एवं आगस्तीयम् इति। सौर्यम् इति। सूर्यो देवतऽस्येति सा।डस्य देवता (4.2.23) इत्यण्। `आगस्त्यः इति। अपत्यार्थे ऋष्यण्। नक्षत्राणि इति। नक्षत्रसम्बन्धो योऽण्? तस्मिन्नित्यर्थः। ककारादेः शब्दस्य इति। ककारस्याकारस्येत्यर्थः। आद्युदात्तत्वञ्च इति। प्रत्ययस्वरेणान्तोदात्तत्वे प्राप्ते सत्याद्युदात्तार्थं वचनम्। अन्तितः इति। अपादाने चाहीयरुहोः (5.4.45) इति तसिः। तादेश्च इति। तिकशब्दस्येत्यर्थ। चकारात्? कादेश्च। अन्तमः इति। अतिशायने तमप्` (5.3.55) । अन्तिषत् इति। सत्सूद्विष (3.2.61) इत्यादिना क्विप्। ये च इति। दृश्यत इति प्रकृतेन सम्बन्धः। अन्तिमः इति। भवे छन्दसि (4.4.110) इति यः, तत्र साधुः (4.4.98) इति वा। केचित्? सर्वमेव लोपविधानं छन्दस्येवेच्छन्ति॥
Prakriyasarvasvam¶
<karika>सूर्यादिशब्दसम्बन्धी भसंज्ञस्योपधास्थितः । यकारो लुप्यते तेन तैषं तिष्ययुतं दिनम् ॥ २२७ ॥</karika> <karika>नक्षत्रगामिन्यणि तिष्यपुष्ययोश्छे ङचां च लोपोऽयमगस्त्यसूयेयोः । ङचामेव मत्स्यस्य भवेदितीरणाद् व्यनाशि सूत्रं प्रविभज्य वार्तिके ॥ २२८ ॥</karika> तिष्यपुष्ययोरित्युक्त्या पौषं दिनमित्यपि ॥
Vartika¶
मत्स्यस्य ङ्याम् ।
Sutra Prayogas¶
सौरीभिः (रघुवंशम्): सूर्यतिष्य- इत्युपधायकारस्य लोपः।
सौरी (किरातार्जुनीयम्): सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः इति यलोपः ङीप् च।