64150: हलस्तद्धितस्य ==================== **Padacheda:** हलः | S | 5 | 1 | तद्धितस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The य् of a तद्धित affix when preceded by a consonant and penultimate in a अङ्ग (stem), is elided before the feminine ई। Vasu English Translation ------------------------ The य् of a तद्धित affix when preceded by a consonant and penultimate in a अङ्ग (stem), is elided before the feminine ई। The *anuvritti* of "*taddhita*" ceases, because of its mention in the next *sutra*. Hence this *sutra* applies to feminine ई only. As गार्गी, वात्सी from गार्ग्य and वात्स्य ॥ Why do we say 'when preceded by a consonant'? Observe कारिकेयी ॥ Why do we say 'of a *Taddhita*'. Observe वैद्यस्य भार्या = वैद्यी ॥ Kashika ------- तद्धित इति निवृत्तम्। हल उत्तरस्य तद्धितयकारस्य उपधाया ईति परतो लोपो भवति। गार्गी। वात्सी। हल इति किम्? कारिकेयी। तद्धितस्येति किम्? वैद्यस्य भार्या वैद्यी॥ Siddhanta Kaumudi ----------------- हल उत्तरस्य तद्धितयकारस्योपधाभूतस्य लोपः स्यादीति परे । गार्गी । (वार्तिकम्) ॥ द्वीपे भवा द्वैप्या । अधिकारग्रहणान्नेह । देवस्यापत्यं दैव्या । देवाद्यञञाविति हि यञ् प्राग्दीव्यतीयो न त्वपत्याधिकारपठितः ॥ Laghu Siddhanta Kaumudi ----------------------- हलः परस्य तद्धितयकारस्योपधाभूतस्य लोप ईति परे । गार्गी ॥ Balamanorama ------------ **हलस्तद्धितस्य** - हलस्तद्धितस्य । 'हल' इति दिग्योगे पञ्चमी ।परस्ये॑त्यध्याहार्यम् ।यस्येति चे॑ति सूत्रादीतीत्यनुवर्तते,सूर्यतिष्यागस्त्ये॑त्यतः 'उपधाया' इति षष्ठन्तं च, 'ढे लोपोऽकद्र्वाः' इत्यतो 'लोप' इति च । तदाह — हलः परस्येत्यादिना । अकारलोपात्प्रागेव यकारलोपो न संभवति, अकारे सति यकारस्य ईकारपरकत्वाऽभावात् । ननु कृतेऽकारलोपे खतं यकारस्य उपधात्वम् । नच अल्लोपस्य स्थानिवत्त्वं शङ्क्यं, यलोपविधौ तन्निषेधादिति चेन्न, यलोपे कर्तव्येऽल्लोपस्याभीयत्वेनाऽसिद्धतया यकारस्य उपधात्वसंभवात् । उपधाग्रहणाननुवृत्तौ त्वल्लोपस्याऽसिद्धत्वाद्यकारस्य ईकारपरकत्वाऽभावाल्लोपो न स्यात् । यदा तु सूत्रारम्भसामर्थ्यादेवाकारव्यवधाने ।ञपि यकारस्य लोपः सम्भवतीत्युच्यते, तदोपधाग्रहणानुवृत्तिर्मास्तु । गार्गीति । इहगोत्रं च चरणैः सहे॑ति जातित्वेऽपिजातेरस्त्रीविषया॑दिति न ङीष्, योपधत्वात् । अनपत्याधिकारेति ।तस्यापत्य॑मित्यपत्याधिकारविहितभिन्नयञन्तान्न ङीबिति वक्तव्यमित्यर्थः । द्वैप्येति । द्वीपे भवेति विग्रहेद्वीपादनुसमुद्र यञि॑ति यञ् । आदिवृद्धिः ।यस्येति च॑ । टापि सवर्णदीर्घः । अस्य यञोऽपत्याधिकारविहितत्वाऽबावान्न ङीबिति भावः । नन्वपत्यान्न ङीबित्येतावतैव द्वैप्येत्यत्रातिप्रसङ्गनिरासादधिकारग्रहणं किमर्थमित्यत आह-अधिकारग्रहणादिति ।इह ने॑ति शेषः । देवस्यापत्यमिति विग्रहे 'देवाद्यञञौ' इति यञ्, आदिवृद्धिः,यस्येति च॑ । दैव्यशब्दाट्टाप्, सवर्णदीर्घः, दैव्येति रूपम् ।अनपत्यान्न ङी]बित्युक्ते त्वस्य यञ आपत्यत्वान्ङीब्निषेधो न स्यात् । अधिकारग्रहणे तु अत्रापि निषेधः स्यादेव, अस्य यञ आपत्यत्वे ।ञपितस्यापत्य॑मित्यधिकारबहिर्भूतत्वात् । तदेतदुपपादयति — देवादिति । 'देवाद्यञञौ' इति तुतस्यापत्य॑मित्यदिकारात्प्रागेवप्राग्दीव्यतो॑णित्यधिकारपठितः । स चाऽपत्यादिविकारान्तार्थेषु साधारणत्वादपत्यार्थकोऽपि भवति, न त्वपत्याधिकारपठित इत्यर्थः । यद्यपियञश्चे॑ति सूत्रेआपत्यग्रहणं कर्तव्य॑मित्येव भाष्ये दृश्यते, तथापि तत्र आपत्यपदमपत्याधिकारविहितपरमिति मनोरमायां शब्दरत्ने च प्रपञ्चितम् । Tattvabodhini ------------- **हलस्तद्धितस्य** - हलस्तद्धितस्य ।हल॑इति पञ्चमी ।यस्येति चे॑त् सूत्रात् — ईतीत्यनुवर्तते ।नस्ताद्धिते॑इत्यतस्तद्धित नानुवर्तते,आपत्यस्य चे॑त्यत्तरसूत्रे पुनस्तद्धितग्रहणात्तदाह -हल उत्तरस्येत्यादि ।तद्धिते॑इत्यनुवृत्तौ त्विहापि स्यात्, -साङ्काश्यकः । काम्पिल्यकः ।सङ्काशादिभ्यो णयः॑ । ततोधन्वयोपधा॑दिति वुञ् । उपधाभूतस्येति ।सूर्यतिष्ये॑त्यतउपधाया॑इत्यनुवर्तत इति भावः । ननुयस्येति चे॑ति यञोऽकारलोपे कृते यकारस्य ईकारपरत्वमस्त्येव किमुपधाग्रहणानुवृत्त्या । न चाऽल्लपोस्य स्थानिवद्भावो, यलोपे तन्निषेधात् । अत्राहुः — यलोपे कर्तव्येऽल्लोपस्याभीयत्वनाऽसिद्धत्वादुपधाग्रहणानुवृत्तिरभ्युपगन्तव्येति । अन्ये त्वाहुः — सूत्रारम्भसामर्थ्यादल्लोपस्याऽसिद्धकत्वं न भवति । तथा चोपधाग्रहणं विनापि नात्र क्षतिः । एवं चसूर्यतिष्ये॑ति सूत्रेऽप्युपधाग्रहणं त्यक्तुं शक्यमुक्तयुक्तेरिति । गार्गीति । गोत्रप्रत्ययान्तस्य जातित्वेऽपि योपधत्बादत्रजाते॑रिति ङीषिन भवति । तथाच आद्युदात्तमेवेदं पदम् । अनपत्याधिकारेति । यद्यपिआपत्यग्रहणं कर्तव्य वार्तिकम्, तथाप्यपत्याधिकारविहितपरं तत् । तादृशश्च गर्गादियञेव न तु देवाद्यञ् । तस्याऽपत्याधिकाररात्प्रागेवन पाठात् । अतएव भाष्यकृतायञश्चे॑त्यत्रकञ्क्वरपोऽयञश्चे॑ति,गर्गादिभ्यो य॑ञित्यत्रअय॑ञिति अकारः प्राश्लिष्टः । एवं चयञञोश्चे॑ति सूत्रेऽपियस्कारदिभ्यो गोत्रे -अयञञोश्चे॑त्यकारः प्रश्लिष्टः । एतच्च मनोरमाग्रन्थानुरोधोनोक्तम् । नव्यास्तु -अधिकारग्रहणमिहऽपार्थकं, यथाश्रुतवार्तिकेनैव द्वीपे भवा द्वेप्येति रूपसिद्धेः । न च देवस्यापत्यं स्त्री दैव्येति रुपाऽसिद्धि शङ्क्या,अयञश्चे॑ति भाष्यकारीयमिष्कर्षात्तत्सिद्धेः । नहिदेवाद्यञञौ॑इत्यत्राऽयञित्यकारः प्रश्लेष्टं शक्यते । किंचाधिकारग्रहणे अभिजितोऽपत्यं स्त्रीत्यणन्तात्स्वार्थेअभिजिद्विदभृ॑दित्यादिना यञिआभिजिती॑ति रूपं न सिध्येत् ।॒श्रुमदणोऽयञ॑इत्यकारप्रश्लेषेण भाष्यकाररीतियाऽपीह ङीपः संभवादित्याहुः । स्यादेतत् -अकारं प्रश्लिष्य गर्गादिभ्योऽयञि कृते गाग्र्य इति रूपं न सिध्येत् । मैवम् । वार्तिकप्रत्याख्यानाय भाष्यविरुद्ध इति स्पष्टमेव । Padamanjari ----------- तद्धित इति निवृतमिति । उतरसूत्रे पुनस्तद्धितग्रहणात्, तेनायमीत्येय विधिः ॥ Nyaas ----- `तद्धित इति निवृत्तम्` इति। उत्तरसूत्रे तद्धितग्रहणात्। तेनायमीत्येव विधिः। `गार्गी` इत्यादि। गर्गादिशब्देभ्यो यञन्तेभ्यः `यञश्च` (4.1.16) इति ङीप्। `कारिकेयी` इति। **स्त्रीभ्यो ढक्** (4.1.120) , तदन्तात्? `टिङ्ढाणञ्` (4.1.15) इति ङीप्। `वैधी` इति। **पुंयोगादाख्यायाम्** (4.1.48) इति ङीष्॥ Praudhamanorama --------------- **उपधाभूतस्येति।** ननु 'यस्येति च' इति यञोऽकारलोपे कृते यकारस्य ईकारपरत्वमस्त्येव किमुपधाग्रहणानुवृत्त्या? न चाल्लोपस्य स्थानिवद्भावः, यलोपे तन्निषेधात्; मैवम्, यलोपे कार्ये अल्लोपस्याऽऽभीयत्वेनाऽसिद्धत्वात्। **अनपत्येति।** यद्यपि 'आपत्यग्रहणं कर्तव्यम्' इति वार्तिकन्तथाऽपि अपत्याधिकारविहितपरं तत्। तादृशश्च गर्गादियञेव, न तु देवाद्यञ्। तस्यापत्याधिकारात् प्रागेव पाठात्। अत एव भाष्यकृता 'कञ्क्वरपोऽयञञ्च' इति 'गर्गादिभ्यो यञ्' इति च अकारः प्रश्लिष्टः। 'यस्कादिभ्यो गोत्रेऽयञञोश्च' इति सूत्रेऽप्येवम्॥ Prakriyasarvasvam ----------------- हलः परस्य तद्धितयकारस्य ईति परे लोपः स्यात् । यस्येति लोपः । सौमी ऋक् ॥ Sutra Prayogas -------------- * **लावणिकेन** (शिशुपालवधम्): `हलस्तद्धितस्य` इति यकारलोपः।