64151: आपत्यस्य च तद्धितेऽनाति

Padacheda: आपत्यस्य | S | 6 | 1 |

च | S | 0 | 0 |

तद्धिते | S | 7 | 1 |

अनाति | S | 7 | 1 |

Sutrartha


Vasu English Summary

The य् of a Patronymic affix, preceded by a consonant, is elided before a तद्धित when it does not begin with an आ।

Vasu English Translation

The य् of a Patronymic affix, preceded by a consonant, is elided before a तद्धित when it does not begin with an आ। Thus गर्गाणां समूहः = गार्गकम् from गार्ग्य, वात्सकम् from वात्स्य (4.2.37) — (4.2.40). Why do we say ‘a Patronymic य’? Observe सांकाश्यकः, काम्पिल्यकः (4.2.80).

The repetition of the word Taddhita indicates that the elision takes place some-times of the non-patronymic य also, as सामी इष्टिः ॥

Why do we say ‘not beginning with a long आ’? Observe गार्ग्यायणः, वात्स्यायनः ॥ The य should be preceded by a consonant, otherwise we have कारिकेयस्यापत्यं = कारिकेयिः ॥ Why do we say ‘when followed by a Taddhita affix’? Observe गार्ग्ययोः, वात्स्ययोः (before the Genitive and Locative dual affixes).

Kashika

आपत्ययकारस्य हल उत्तरस्य तद्धितेऽनाकारादौ लोपो भवति। गर्गाणां समूहो गार्गकम्। वात्सकम्। आपत्यस्येति किम्? सांकाश्यकः। काम्पिल्यकः। तद्धितग्रहणमीत्यनापत्यस्यापि लोपार्थम्। सौमी इष्टिः। अनातीति किम्? गार्ग्यायणः। वात्स्यायनः। हल इत्येव — कारिकेयस्यापत्यं कारिकेयिः॥

Siddhanta Kaumudi

हलः परस्यापत्ययकारस्य लोपः स्यात्तद्धिते परे न त्वाकारे । गार्गीयाः । प्राग्दीव्यतीये किम् ? गर्गेभ्यो हितं गार्गीयम् । अचि किम् ? गर्गेभ्य आगतं गर्गरूप्यम् ॥

Balamanorama

आपत्यस्य च तद्धितेऽनाति - तथाच गाग्र्य-ईय इति स्थितेयस्येति चे॑ति यञोऽकारस्य लोपे गाग्र्य-ईय इति स्थिते परिशिष्टस्य यञो यकारस्य लोपमाह — आपत्यस्य च ।अनाती॑ति च्छेदः । ‘ढे लोपोऽकद्व्राः’ इत्यतो लोप इत्यनुवर्तते ।सूर्यतिष्ये॑त्यतो ‘य’ इति षष्ठन्तमनुवर्तते ।हलस्तद्धितस्येत्यतो हल इति पञ्चम्यन्तमनुवर्तते । तदाह — हलः परस्यापत्ययकारस्येति । अपत्यार्थकयकारस्येत्यर्थः । यञो लुकि तु आदिवृद्धिर्न स्यादिति भावः । अल्लोपस्याभीयत्वेऽपि नाऽसिद्धत्वम्, आरम्भसामर्थ्यात् ।हलस्तद्धितस्ये॑ति यलोपस्यात्र प्रसक्तावपि न्याय्यत्वादिदमेव भवति । गर्गीयमिति ।तस्मै हित॑मिति गाग्र्यशब्दाच्छः । तस्य प्राग्दीव्यतीयत्वाऽभावात् तस्मिन्परेयञञोश्चे॑ति यञो लुग्भवत्येवेति नादिवृद्दिरिति भावः । गर्गरूप्यमिति । ‘हेतुमनुष्येभ्यः’ इति रूप्यप्रत्ययः । तस्य प्राग्दीव्यतीयत्वेप्यजादित्वाऽभावात्तस्मिन्परे यञोऽलुङ्न । यदि तुअजादौ प्राग्दीव्यतीये परे॑ इति व्याख्यायेत, तर्हि गाग्र्यशब्दाच्छे तस्य ईयादेशे कृतेऽलुग्विधिः प्रवर्तेत, नतु ततः प्राक् । एवंच छप्रवृत्तेः प्रागेव यञि अलुग्विधेः प्रवृत्तौ, यञन्तस्य वृद्धत्वाच्छो निर्बाधः । यलोपविधौ — आपत्यस्येति किम् । गार्ग्ये । गाग्र्ययोः । अनातीति किम् गाग्र्यायणः ।

Tattvabodhini

आपत्यस्य च तद्धितेऽनाति - गर्गाणामिति । अपत्यबहुत्कविवक्षायांयञञोश्चे॑ति लुक्, स चाऽजादिप्रत्यये चिकर्षिते अनेन प्रतिषिद्ध इति गाग्र्यशब्दाच्छे कृते तस्य ईयादेशः ।यस्येति चे॑त्यकारलोपे यलोपार्थमाह -आपत्यस्य चेति ।ढे लोपो ऽकद्र्वाः॑ इत्यतोलोप॑ इत्यनुवर्तते,सूर्यतिष्ये॑त्यतोय॑ इति,हलस्तद्धितस्ये॑त्यतोहल॑इति च । तदाह — हलः परस्येत्यादि । आभीयत्वेऽप्यल्लोपो नाऽसिद्धः, आरम्भसमाथ्र्यात् । अत एवोपधाया इति नानुवर्तितमिति व्याचष्टे -यकारस्येति । आपत्यस्येति किम् । सङ्काश्यकः । काम्पिल्यकः ।संकाशादिभ्यो ण्यः॑ । ततोधन्वयोपधा॑दिति वुञ् । तद्धिते इति किम् । गर्ग्ये । गार्ग्यांयोः । अनातीति किम् । गग्र्यायणः । गर्गीयमिति ।तस्मै हित॑मिति छः ।

Padamanjari

गार्गकमिति । गोत्रोक्षोष्ट्र इत्यादिना वुञ्, सङ्कशादिभ्यो ण्यः इति वुञ्च्छणादिसूत्रेण चातुरर्थिकः, ततः धन्वयोपधाद्वुञ् इति जातादावर्थे । तद्धितग्रहणमित्यादि । सोमो देवतास्येति सोमाट्ट।ल्ण् टित्वान्ङीप्, तत्र परतोऽनापत्ययकारस्याप्यस्य हलस्तद्धितस्य इति लोपो यथा स्यादित्येवमर्थमिह तद्धितग्रहणं कृतमन्यथा हि प्रकृतं तद्धितग्रहणिहानुवर्तनीयम्, तस्मिंश्चानुवर्तमाने तत्सम्बद्धमीतीत्यपि सम्बध्येत, तच्चोभयमिह सम्बध्यमानं पूर्वसूत्रेऽपि सम्बध्येत, ततश्च पूर्वेणैव सिद्धे सत्युभयत्र तद्धित ईति चेति नियमोऽयं विज्ञायेत - आपत्यस्यैवानाकारादौ तद्धिते ईति चेति । ततो यथा तद्धितेऽनापत्यस्य न भवति - साङ्कश्यक इत्यादौ, तथा ईत्यपि न स्यात् - सौमी इष्टिरिति । तद्धितग्रहणे तु सति तेन पूर्वयोगे तद्धितग्रहणस्य निवृत्तिराख्यातेत्यापत्यानापत्ययोर्द्वयोरपि पूर्वेण ईति लोपो विधीयत इति सौमी इष्टिरित्यत्रापि यलोपः सिध्यतीत्यतस्तद्धितग्रहणम् । ननु च यद्यौभयस्यायं नियमः स्याद्, योगविभागोऽनर्थकः स्याद्, हल आपत्यस्य तद्धितस्यानाति इत्येकमेव योगंकुर्यात्, ततो योगविभागादन्यतरस्यैवानुवृत्तिः, तत्रापि अनाति कैति वचनातस्यैव एवमपि दोषः, अनापत्यस्य तद्धितेऽपि प्राप्नोति, कथमापत्यस्य यदि भवति थानाकारादावेवेति नियमसम्भावत्, साङ्काश्यकादौ लोपः स्यादेव । अनाकाराविति नियमः सम्भवति । अथ न सम्भवति तदा न कश्चिद्दोषः आपत्यस्यैव तद्धिते, तत्राप्यनाकारादेवेति नियमद्वयाश्रयणात् ॥

Nyaas

गार्गकम् इति। गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् (4.2.39) इत्यादिना गाग्र्यशब्दाद्वुञ्, तत्र यञो लोपः। साङ्काख्यकः इति। काम्पिल्यकः इति। पूर्ववत्? सङ्काशकम्पिलशब्दाभ्याञ्चातुरार्थिकः दुञ्छण् (4.2.79) इत्यादिना ण्यः, तदन्ताज्जातादौ शैषिकेऽर्थे धन्वयोपधाद्वुञ् (4.2.121) इति वुञ्। अथ तद्धितग्रहणं किमर्थम्, नस्तद्धिते (6.4.144) इति तद्धितग्रहणमनुवर्त्तिष्यते? इत्यत आह - तद्धितग्रहणम् इत्यादि। सोमी देवतस्येति सोमाट्ट्यण् (4.2.30) , टिङ्ढाणञ (4.1.15) इति ङीप्। तत्र परतोऽनपत्ययकारस्यापि हलस्तद्धितस्य (6.4.150) इत्यनेन लोपो यथा स्यादित्येवमर्थं तद्धितग्रहणम्; अन्यथा यदि तदेव प्रकृतं तद्धितग्रहणमिहानुर्तेत, तदा तत्सम्बन्द्धमीद्ग्रहणमनुवर्तेत। तथा चोभयमिहानुवर्तमानं पूर्वयागेऽप्यनुवर्तत। तथा च पूर्वेणैव योगेन सिद्धे सत्युभयत्र तद्धित ई, ति च नियमार्थोऽयमारम्भः स्यात् - आपत्यस्येवानाकारादौ तद्धिते लोपो भवति ईति च नानापत्ये च। एवञ्च यथानपत्यस्य साङ्कश्यक इत्यत्र लोपो न भविष्यति, तथा सौमी इष्टिरित्यत्रापि न स्यात्; नियमेन व्यवर्त्तितत्वात्। इह तु तद्धितग्रहणे क्रियमाणे पूर्वयोगे तद्धितग्रहणस्य निवृत्तिराख्यायते। तेन पर्वयोगेन तद्धितमात्रस्य यकारस्यानपत्यस्य चापत्यस्य चाविशेषेण लोपो विदीयते। सौमी इष्टिरित्यत्रापि लोपो यथा स्यादित्येवमर्थं तद्धितग्रहणम्। ननु च यद्युभयत्र तद्धित इति चायं नियमः स्यात्? सूत्रद्वयस्यार्थोऽपार्थकः स्यात्। हल आपत्यस्यानाति इत्येकमेव योगं कुर्यात्। तस्मात्? सूत्रद्वयस्यारम्भसामर्थ्यादन्यतरस्यैवेहानुवृत्तिर्भवतिष्यति, न तूभयस्यापि। इह त्वेतावान्? सन्देहः स्यात् - किं तद्धितग्रहणमिहानुवर्तते, उतेद्ग्रहणमिति? अत्रापि तद्धितग्रहणमनुवर्तते, नेद्ग्रहणमिति; व्याख्यानात्। सरवसन्देहेष्विदमुपतिष्ठते भवति व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम् (पु।प।वृ 120) इति। तद्धितग्रहणे च केवल इहानुवर्तमाने तद्धितविषय एवायं नियमो भविष्यति, न त्वीद्विषय इति। तथा चासत्यपि पुनरिह तद्धितग्रहण इति नियमाभावात्? पूर्वसूत्रेण सौमी इष्टिरित्यत्रापि लोपः सिद्ध्यत्येव। तत्? कथमिदमुक्तम् - तद्धितग्रहणीत्यनपत्यस्यापि लोपार्थमिति? सुखेन लोपः प्रतीयत इत्येतदर्थमिदमित्यभिप्रायो द्रष्टव्यः। ततश्चायमत्रार्थः सम्पद्यते - प्रतिपत्तिगौरवपरीहारार्थं तद्धितग्रहणम्।गाग्र्यायणः इति। यञिञोश्च (4.1.101) इति फक्। कारकेयिः इति। कारिकाया अपत्यमिति स्त्रीब्यो ढक् (4.1.120) , ततस्तस्यापत्यम्, अत इञ् (4.1.95) कारिकेयिः॥

Prakriyasarvasvam

अनाकारादौ तद्धिते परे हलः परस्यापत्ययकारस्य लोपः स्यात् । गार्गकम् । आकारादौ तु गार्ग्यायण इति यलोपो न । औक्षकम् । औष्ट्रकम् । उरभ्रो मेषः । औरभ्रकम् । राजकम् । राजन्यकम् । राजपुत्रकम् । वात्सकम् । मानुष्यकम् । आजकम् । वृद्धाच्चेति वाच्यम्’ । वार्धकम् । राजन्यमनुष्ययोः ‘आपत्यस्य’ इति यलोपे प्राप्ते ।<!प्रकृत्याके राजन्यमनुष्ययुवानः!> (वा० ६-४-१६३) इति प्रकृतिभावः । सामूहिके तदन्तविधिर्विष्यते । कौरुराजकम् । गौवत्सकम् ।

Sutra Prayogas

  • आनन्दितारस्त्वां (भट्टिकाव्यम्): अन्यथा णेरनिटि इति णिलोपो न प्राप्नोति ।