64134: अल्लोपोऽनः¶
Padacheda: अत्-लोपः | S | 1 | 1 |
अनः | S | 6 | 1 |
Sutrartha¶
‘अन्’ यस्य अन्ते तादृशस्य भसंज्ञकस्य उपधा-अकारस्य लोपः भवति ।
यस्य भसंज्ञकस्य अङ्गस्य अन्ते ‘अन्’ इति विद्यते, तस्य अङ्गस्य उपधा-अकारस्य लोपः भवति । यथा - 1. राजन्-शब्दस्य तृतीयैकवचनम् राजन् + टा → राजन् आ [टकारस्य चुटू (1.3.7) इति इत्संज्ञा, लोपः । अङ्गस्य यचि भम् (1.4.18) इति भसंज्ञा] → राज् न् आ [अल्लोपोऽनः (6.4.134) इति जकारोत्तरस्य अकारस्य लोपः] → राज् ञ् आ [स्तोः श्चुना श्चुः (8.4.40) इत्यनेन श्चुत्वम्] → राज्ञा 2. अह्ना निर्वृत्तम् = अहन् + ठञ् [तेन निर्वृत्तम् (5.1.79) इति ठञ्] → अहन् + इक [ठस्येकः (7.3.50) इति ‘इक्’ आदेशः] → आहन् + इक [किति च (7.2.118) इति आदिवृद्धिः] → आह् न् + इक [नस्तद्धिते (6.4.144) इत्यनेन टिलोपे प्राप्ते अह्नष्टखोरेव (6.4.145) इति ठक्-प्रत्यये परे टिलोपनिषेधः । अतः अल्लोपोऽनः (6.4.134) इति उपधा-अकारस्य लोपः] → आह्निक स्मर्तव्यम् - वस्तुतः अस्मिन् सूत्रे ‘उपधा’ इत्यस्य अनुवृत्तिः नास्ति । केवलम् ‘अन्नन्तस्य अकारस्य लोपः भवति’ इत्येव सूत्रे उच्यते । कुत्र अयमकारः विद्येत, इत्यस्य विषये अत्र अनियमः अस्ति, अतः अत्र अलोऽन्त्यस्य (1.1.52) अनया परिभाषया ‘सर्वेषु अकारेषु अन्तिमः यः अकारः तस्य लोपः करणीयः’ इति निर्णयः क्रियते ।
Sutrartha (English)¶
If a भसंज्ञक अङ्ग ends in the word ‘अन्’ then the ‘अ’ of this ‘अन्’ is omitted.
Vasu English Summary¶
Of a भ अङ्ग (stem) ending in अन् , the अ is elided.
Vasu English Translation¶
Of a भ अङ्ग (stem) ending in अन् , the अ is elided. As राज्ञः पश्य, राज्ञा, राज्ञे, तक्ष्णः पश्य, तक्ष्णा and तक्ष्णे ॥
Vart:- The elision takes place of a stem which actually ends in न्, therefore, it does not take place here, राजकीयम् ॥
Kashika¶
अनित्येवमन्तस्य भस्याकारलोपो भवति। राज्ञः पश्य। राज्ञा। राज्ञे। तक्ष्णः पश्य। तक्ष्णा। तक्ष्णे। अनो नकारान्तस्यायं लोप इष्यते। इह न भवति — राजकीयमिति॥
Siddhanta Kaumudi¶
अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याऽकारस्य लोपः स्यात् ॥
Laghu Siddhanta Kaumudi¶
अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपः। दध्ना। दध्ने। दध्नः। दध्नः। दध्नोः। दध्नोः॥
Balamanorama¶
अल्लोपोऽनः - शसादावचि नुमभावात्प्र-अच् अस् इति स्थिते-अचः । अच इत्यन्चुधातोःअनिदिता॑मिति लुप्तनकारस्य षष्ठन्तम् । भस्येत्यधिकृतम् । ‘अल्लोपो नः’ इत्यतोऽल्लोप इत्यनुवर्तते । तदाह — लुप्तेति ।
Tattvabodhini¶
अल्लोपोऽनः - अचः ।अल्लोपोऽनः॑इत्यतोऽल्लोप इत्यनुवर्तते,भस्ये॑ति च । तदाह -भस्याकारस्य लोपः स्यादिति । अत्र नव्याः — यद्यत्राञ्चतेर्भस्येति सामानाधिकरण्येनान्वयः स्वीक्रियते तर्हिप्रतीचः॒॑प्रतीचे॑त्यादि न सिध्येत् । उपसर्गसहितस्यैव भत्वेन केवलस्याऽञ्चतेर्भत्वाऽभावात् ।भस्यावयवस्याञ्चते॑रिति वैयधिकरण्येनान्वये तु प्रत्यगात्मनेत्यादावञ्चतेकारस्य लोपः स्यात् ।अञ्चत्यन्तस्य भस्याकारस्य लोप॑इति व्याख्यानेतुप्राचः॑प्रातीचे॑प्रशब्दाकारस्यापि लोपः स्यात् । तन्त्रावृत्त्यादिनाऽञ्चत्यन्तस्य भस्याञ्चतेरकारस्येति व्याख्यानेऽपि — प्रत्यञ्चमञ्चति प्रत्यङ् । ततः शसादिषुप्रत्यक्वः॒॑प्रत्यक्चे॑त्यादावतिप्रसङ्ग एव । तस्मात्अल्लोपोऽनः॑इत्यत्रेवात्रापिअङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽञ्चतिस्तस्याऽकारस्य लोपः स्या॑दिति व्यख्येयम् ।द्युप्रागपागुदक्प्रतीचः॑इति निर्देशश्चेह व्याख्याने लिङ्गमित्याहुः ।
Padamanjari¶
अदिति पृथक् पदं लुप्तविभक्तिकम्, तेन आतो धातोः इत्यादौ केवलस्य लोपशब्दस्व सम्बन्धः । राजकीयमिति । गर्तोतरपदाच्छः इत्यधिकारे राज्ञः कचेति च्छः, ककारश्चान्तादेशः । अत्रैकदेशविकृतस्यानन्यत्वात्प्रसङ्गः ॥
Praudhamanorama¶
अङ्गावयव इत्यादि। भस्येत्यनेनाक्षिप्तः प्रत्ययविशेषोऽङ्गं चेति द्वयमनो विशेषणम्। अन् तु अकारस्य, अतो नोक्तदोष इति भावः। एतच्च ‘ष्यङः सम्प्रसारणम्’ इति सूत्रे भाष्ये स्पष्टम्। रषाभ्याम् (8.4.1) पदे इतीयतैव सामर्थ्यादेकपदत्वे लब्धेऽपि समानग्रहणं यत्समानमेव, अखण्डमिति यावत्। तत्र यथा स्यात्तेन समासे न भवति। रामनाम। यूष्ण इति। यूषो मण्डः। ‘मुद्गामलकयूषस्तु भेदी दीपनपाचनः’ इति दर्शनात्।
Prakriyasarvasvam¶
अन्नन्तस्य भस्याल्लोपः स्यात् । अह्नां समूहः आह्नम् । हालबन्धम् । युगवरत्रेति व्यस्तं समस्तं च । यौगम् । वारत्रम् । यौगवरत्रम् । अनण्त्वाद् ‘अन्नि’ (६-४-१३०) ति प्रकृतिभावो न । द्वारादित्वादेच् । शौवम् । ‘क्षुद्रकमालवात् सेनायाम्’ (ग) क्षुद्रका मालवाश्च क्षत्रियाः । तेषां समूहरूपा सेना क्षौद्रकमालवी ।
Sudha¶
अल्लोपो न इति । **भस्य**(6.4.129) इत्यनेनाक्षिप्तः प्रत्ययविशेषः, अङ्गञ्चेति द्वयमनो विशेषणम् । अन् तु अकारस्येत्यभिप्रेत्य व्याचष्टे - अङ्गावयव इत्यादिना । दध्नेति । अस्थि, दधि, सक्थि,अक्षि, एतेषां प्रथमाद्वितीययोर्वारिवद्रूपाणि । तृतीयायान्तु - दधि + आ इति स्थिते **अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः**(7.1.75) इति दधिशब्दस्येकारस्यानङि कृते अनुबन्धलोपे च दधन् + आ इति जाते **यचि भम्**(1.4.18) इति भसंज्ञायाम् **अल्लोपोऽनः**(6.4.134) इत्यनोऽकारस्य लोपे कृते सर्वस्मिन् संयुक्ते च सति ‘दघ्ना’ इति रूपम् । दध्ने । दधि + ए अत्र **अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः**(7.1.75) इत्यनङि ङित्वादन्त्यावयवे जाते अङोर्लोपे **अल्लोपोऽनः**(6.4.134) इति अनोऽकारस्य लोपे मिलित्वा ‘दध्ने’ इति रूपम् । अनयैव रीत्या अजादौ प्रत्यये परे अनङि अल्लोपो बोध्यः ।