64135: षपूर्वहन्धृतराज्ञामणि

Padacheda: ष-पूर्व-हन्-धृत-राज्ञाम् | S | 6 | 3 |

अणि | S | 7 | 1 |

Sutrartha

(1) षन्-यस्य अन्ते तादृशस्य, (2) हन्-शब्दस्य, तथा (3) धृतराजन् शब्दस्य - भसंज्ञकस्य उपधा-अकारस्य अण्-प्रत्यये परे लोपः भवति ।

अण्-इति कश्चन तद्धितप्रत्ययः । अण्-प्रत्यये परे यचि भम् (1.4.18) इत्यनेन अङ्गस्य भसंज्ञा भवति । एवं भसंज्ञायां प्राप्तायाम् अल्लोपोऽनः (6.4.134) इत्यनेन भसंज्ञकस्य उपधा-अकारस्य लोपः सम्भवते । परन्तु अन् (6.4.167) इत्यनेन अण्-प्रत्यये परे अयं लोपः निषिध्यते । अतः सामान्यरूपेण अन्नन्तस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य अण्-प्रत्यये परे लोपः न भवति । परन्तु, वर्तमानसूत्रेण अस्य निषेधस्यापि केषुचन स्थितिषु निषेधं कृत्वा उपधा-अकारस्य लोपः पुनः विधीयते । ताः स्थित्यः एतादृशाः - 1) षन्-यस्य अन्ते, तादृशस्य भसंज्ञकस्य उपधा-अकारस्य अण्-प्रत्यये परे लोपः भवति । यथा - ‘पूषन्’ (= सूर्यः) इत्यस्मात् प्रातिपदिकात् तस्यापत्यम् (4.1.92) इत्यनेन अण्-प्रत्ययः विधीयते । पूष्णः अपत्यम् = ‘पूषन् + अण्’ इत्यत्र वर्तमानसूत्रेण षकारात् परस्य अकारस्य लोपः भवति । अग्रे अन्यां प्रक्रियां कृत्वा पौष्णः इति रूपं सिद्ध्यति - पूषन् + अण् → पौषन् + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → पौष् न् + अ [षपूर्वहन्धृतराज्ञामणि (6.4.135) इत्यनेन भस्य उपधा-अकारस्य लोपः] → पौष्ण [रषाभ्यां नो णः समानपदे (8.4.1) इति णत्वम्] 2) हन्-यस्य अन्ते, तादृशस्य भसंज्ञकस्य उपधा-अकारस्य अण्-प्रत्यये परे लोपः भवति । यथा - ‘वृत्रहन्’ (=इन्द्रः) इत्यस्मात् प्रातिपदिकात् अण्-प्रत्यये कृते अनेन सूत्रेण हकारात्-परस्य अकारस्य लोप भवति । अग्रे ‘वृत्रह् न् + अण्’ इत्यस्य अन्यां प्रक्रियां कृत्वा अन्ते ‘वार्त्रघ्नः’ इति रूपं सिद्ध्यति - वृत्रहन् + अण् → वार्त्रहन् + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः । उरण् रपरः (1.1.51) इति रेफः] → वार्त्रह् न् + अण् [षपूर्वहन्धृतराज्ञामणि (6.4.135) इत्यनेन भस्य उपधा-अकारस्य लोपः] → वार्त्रघ् न् + अस् [हो हन्तेर्ञ्णिन्नेषु (7.3.54) इत्यनेन णित्-प्रत्यये परे हन्-इत्यस्य हकारस्य घकारादेशः ] → वृत्रघ्नः 3) ‘धृतराजन्’ इत्यस्य भसंज्ञकस्य उपधा-अकारस्य अण्-प्रत्यये परे लोपः भवति । धृतराजन् + अण् → धार्तराज्ञः । एतान् त्रीन् शब्दस्वरूपान् विहाय अन्येषाम् भसंज्ञकानाम् उपधा-अकारस्य अण्-प्रत्यये परे लोपः न भवति । यथा - ‘राजन्’ शब्दात् तस्येदम् (4.3.120) अनेन सूत्रेण ‘राज्ञः इदम्’ अस्मिन् अर्थे अण्-प्रत्ययः भवति । राज्ञः इदम् = राजन् + अण् = राजनः । अत्र उपधा-अकारस्य लोपः न दृश्यते, यतः अन् (6.4.147) इत्यनेन अयं लोपः निषिध्यते, वर्तमानसूत्रेण च तस्य निषेधस्य प्रतिषेधः अपि न भवति ।

Sutrartha (English)

The उपधा-अकार of a भसंज्ञकस्य अङ्ग is omitted in presence of an अण्-प्रत्यय, if the अङ्ग ends in one of (1) षन्, (2) हन् or (3) धृतराजन् .

Vasu English Summary

Of a भ अङ्ग (stem) ending in अन् with a preceding ष as well as of हन् and धृतराजन् , the अ is elided before the affix अण् ।

Vasu English Translation

Of a भ अङ्ग (stem) ending in अन् with a preceding ष as well as of हन् and धृतराजन् , the अ is elided before the affix अण् । Thus औक्ष्णः, ताक्ष्णः, भ्रौनघ्नः, धार्तराज्ञः ॥ But सामनः, वैमन ॥ Why do we say before the affix अण्? Observe ताक्षण्यः ॥ Why do we say ‘preceded by a ष’? Observe सामनः and वैमनः from सामन् and विमन् formed with the affix अण्; here neither the अ of मन् nor the final syllable अन् is elided, since (6.4.167) keeps these words in their primitive state so far.

Bhashya

षपूर्वहन्धृतराज्ञामणि (3133) (लोपाधिकरणम्) (षपूर्वादिग्रहणे पक्षद्वयोपस्थापकं भाष्यम्) अथ किमिदं षपूर्वादीनां पुनर्वचनमल्लोपार्थमाहोस्विन्नियमार्थम् । कथं वा अल्लोपार्थम्, कथं वा नियमार्थम् ? यद्यविशेषेणाल्लोपटिलोपयोः प्रकृतिभावस्ततो विध्यर्थम् । अथ हि अणि टिलोपस्यैव प्रकृतिभावस्ततो नियमार्थम् । अत उत्तरं पठति - (6606 अल्लोपपक्षस्थापकवार्तिकम् ॥ 1 ॥) - षपूर्वादीनां पुनर्वचनमल्लोपार्थम् - षपूर्वादीनां पुनर्वचनं क्रियते अल्लोपार्थम् । अविशेषेणाल्लोपटिलोपयोः प्रकृतिभावः ॥ (6607 नियमपक्षे दोषदर्शकं वार्तिकम् ॥ 2 ॥) - अवधारणे ह्यन्यत्र प्रकृतिभाव उपधालोपप्रसङ्गः - अवधारणे हि अन्यत्र प्रकृतिभावे उपधालोपः प्रसज्येत । कथम् ? यदि तावदेवं नियमः स्यात् - षपूर्वादीनामेवाणीति । एवमपि भवेदिह नियमान्न स्यात् - सामनः वैमन इति । ताक्षण्य इत्यत्र प्राप्नोति । अथाप्येवं नियमः स्यात् - षपूर्वादीनामण्येवेति । एवमपि भवेदिह नियमान्न स्यात् - ताक्षण्य इति । सामनो वैमन इत्यत्र तु प्राप्नोति । अथाप्युभयतो नियमः स्यात् - षपूर्वादीनामेवाणि, अण्येव षपूर्वादीनामिति । एवमपि सामन्यो वेमन्य इति प्राप्नोति । तस्मात्सुष्ठूच्यते - षपूर्वादीनां पुनर्वचनमल्लोपार्थमवधारणे ह्यन्यत्र प्रकृतिभाव उपधालोपप्रसङ्गः इति ॥

Kashika

षकारपूर्वो योऽन् हनो धृतराज्ञश्च तस्याकारलोपो भवत्यणि परतः। औक्ष्णः। ताक्ष्णः। भ्रौणघ्नः। धार्तराज्ञः। षपूर्वहन्धृतराज्ञामिति किम्? सामनः। वैमनः। अन् (६.४.१६७) इति प्रकृतिभावेनाल्लोपटिलोपावुभावपि न भवतः। अणीति किम्? ताक्षण्यः॥

Siddhanta Kaumudi

षपूर्वो योऽन्तस्य हनादेश्च भस्यातो लोपोऽणि । औक्ष्णः । ताक्ष्णः । भ्रौणघ्नः । धृतराज्ञोऽपत्यं धार्तराज्ञः । षुपूर्व इति किम् ? साम्नोऽपत्यं सामनः । अणि किम् ? ताक्षण्यः ॥

Balamanorama

षपूर्वहन्धृतराज्ञामणि - ननु प्रकृतिभावादल्लोपो न स्यादत आह — षपूर्वहन् । ‘अल्लोपोऽनः’ इत्यनुवर्तते ।भस्ये॑त्यधिकृतं, तदाह — षपूर्व इति । ताक्ष्ण इति ।तक्ष्णोऽण उपसङ्ख्यान॑मिति कारिलक्षणण्यस्यापवादोऽण् । ताक्षण्य इति ।सेनान्तलक्षणकारिभ्यश्च॑ इति ण्यः ।

Tattvabodhini

षपूर्वहन्धृतराज्ञामणि - ताक्ष्ण इति । शिवादित्वात्,तस्येदम्इति वाऽण् । ताक्ष्ण्य इति । कारिलक्षणोण्यः । कुलात्खः । केवलात्कुलशब्दात्अपूर्वपदा॑दित्यादिना विशेषविहिताभ्यामपि यङ्ङकञ्भ्यां खो न बाध्यते, तद्विधावन्यतरस्याङ्ग्रहणादित्याशयेनाह — ।

Padamanjari

किमिदं नियमार्थम्, आहोस्विद्विध्यर्थम् कथं चेदं नियमार्थम्, कथं वा विध्यर्थम् यद्यन्निति प्रकृतिभावोऽनन्तरस्यैव टिलोपस्य, तदाल्लोपस्य प्रकृतिभावेनानिवर्तितत्वात्पूर्वेणैव सिद्धे नियमार्थम्, अथाविशेषेणाल्लोपटिलोपयोर्द्वयोरपि प्रकृतिभावस्ततो विध्यर्थम् । तत्रापि नियमपक्षे यदि तावदेवं नियमः - षपूर्वदीनामेवाणीति भवेत्, इह न स्यात् - सामनः वैमनः, ताक्षण्य इत्यत्र तु प्रसङ्गः । अथाप्युभयनियमः एस्यात्, षपूर्वदीनामेवाणि, षपूर्वदीनामण्येवेति एवमपि सामनः वैमनः, ताक्षण्य इति सिद्धम् सामसु साधुः सामन्योऽत्र प्राप्नोति । तस्मादुभयोः प्रकृतिभाव इत्याश्रित्य विद्यर्थमिदमित्याह - तस्याकारस्य लोपो भवतीति । ताक्ष्ण इति । इदमर्थेऽण्, अपत्ये तु कारिलक्ष्णो ण्यो भवति । उभावपि न भवत इति । टिलोपमात्रव्यावृत्तिर्निषेधेनापि सिध्यति । तत्प्रकृत्येति वचनान्निवृत्तिरुभयोरपि ॥

Nyaas

अन् (6.4.167) इति प्रकृतिभावेनाल्लोपस्य निवृत्तिर्मा भूदित्येवमर्थ वचनम्। औक्ष्णः, ताक्ष्णः इति। उक्षन्, तक्षन्, इत्येताभ्यामपत्यार्थेऽण्। भ्रौणाध्नः इति। भ्रूणं हतवानिति ब्राहृभ्रूणवृत्रेषु हनः (3.2.87) [ब्राहृभ्रूणवृत्रेषु क्विप् इति सूत्रम्] इति क्विप्, तदन्तादण्, हो हन्तेर्ञ्णिन्नेषु (7.3.54) इति कुत्वम्। धार्तराज्ञः इति। घृतराजशब्दाद्बहुव्रीहेरण्। सामनः, वैमनः इति। तस्येदम् (4.3.120) इत्यण्, उभावपि न भवतिः इति। अल्लोपटिलोपावुभावपि चापेक्ष्य प्रकृतिभावस्य विधानात्। ताक्षण्यः इति। कुर्वादिब्यो ण्यः (4.1.151) इति ण्ये प्रकृते सेनान्तलक्षणकारित्वाण्ण्यप्रत्ययः` (4.1.152) , ये चाभावकर्मणोः (6.4.168) इति प्रकृतिभावः॥

Prakriyasarvasvam

षपूर्वस्याह्नो हन्शब्दस्य धृतराज्ञश्च सर्वत्राणि परे अल्लोपः स्यात् । उक्ष्णोऽ- पत्यम् औक्ष्णः । पौष्णः । हो हन्तेरिति कुत्वम् । वार्त्रघ्नः । नस्य श्रुत्वं धार्तराज्ञः । इति । अथौपगवस्यापत्यमित्यत्रापि पुनः प्रत्ययप्रसङ्गे ॥