64134: अल्लोपोऽनः ================= **Padacheda:** अत्-लोपः | S | 1 | 1 | अनः | S | 6 | 1 | Sutrartha --------- **'अन्' यस्य अन्ते तादृशस्य भसंज्ञकस्य उपधा-अकारस्य लोपः भवति ।** यस्य भसंज्ञकस्य अङ्गस्य अन्ते 'अन्' इति विद्यते, तस्य अङ्गस्य उपधा-अकारस्य लोपः भवति । यथा - 1. राजन्-शब्दस्य तृतीयैकवचनम् राजन् + टा → राजन् आ [टकारस्य **चुटू** (1.3.7) इति इत्संज्ञा, लोपः । अङ्गस्य **यचि भम्** (1.4.18) इति भसंज्ञा] → राज् न् आ [**अल्लोपोऽनः** (6.4.134) इति जकारोत्तरस्य अकारस्य लोपः] → राज् ञ् आ [**स्तोः श्चुना श्चुः** (8.4.40) इत्यनेन श्चुत्वम्] → राज्ञा 2. अह्ना निर्वृत्तम् = अहन् + ठञ् [**तेन निर्वृत्तम्** (5.1.79) इति ठञ्] → अहन् + इक [**ठस्येकः** (7.3.50) इति 'इक्' आदेशः] → आहन् + इक [**किति च** (7.2.118) इति आदिवृद्धिः] → आह् न् + इक [**नस्तद्धिते** (6.4.144) इत्यनेन टिलोपे प्राप्ते **अह्नष्टखोरेव** (6.4.145) इति ठक्-प्रत्यये परे टिलोपनिषेधः । अतः **अल्लोपोऽनः** (6.4.134) इति उपधा-अकारस्य लोपः] → आह्निक स्मर्तव्यम् - वस्तुतः अस्मिन् सूत्रे 'उपधा' इत्यस्य अनुवृत्तिः नास्ति । केवलम् 'अन्नन्तस्य अकारस्य लोपः भवति' इत्येव सूत्रे उच्यते । कुत्र अयमकारः विद्येत, इत्यस्य विषये अत्र अनियमः अस्ति, अतः अत्र **अलोऽन्त्यस्य** (1.1.52) अनया परिभाषया 'सर्वेषु अकारेषु अन्तिमः यः अकारः तस्य लोपः करणीयः' इति निर्णयः क्रियते । Sutrartha (English) ------------------- If a भसंज्ञक अङ्ग ends in the word 'अन्' then the 'अ' of this 'अन्' is omitted. Vasu English Summary -------------------- Of a भ अङ्ग (stem) ending in अन् , the अ is elided. Vasu English Translation ------------------------ Of a भ अङ्ग (stem) ending in अन् , the अ is elided. As राज्ञः पश्य, राज्ञा, राज्ञे, तक्ष्णः पश्य, तक्ष्णा and तक्ष्णे ॥ Vart:- The elision takes place of a stem which actually ends in न्, therefore, it does not take place here, राजकीयम् ॥ Kashika ------- अनित्येवमन्तस्य भस्याकारलोपो भवति। राज्ञः पश्य। राज्ञा। राज्ञे। तक्ष्णः पश्य। तक्ष्णा। तक्ष्णे। अनो नकारान्तस्यायं लोप इष्यते। इह न भवति — राजकीयमिति॥ Siddhanta Kaumudi ----------------- अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याऽकारस्य लोपः स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपः। दध्ना। दध्ने। दध्नः। दध्नः। दध्नोः। दध्नोः॥ Balamanorama ------------ **अल्लोपोऽनः** - शसादावचि नुमभावात्प्र-अच् अस् इति स्थिते-अचः । अच इत्यन्चुधातोःअनिदिता॑मिति लुप्तनकारस्य षष्ठन्तम् । भस्येत्यधिकृतम् । 'अल्लोपो नः' इत्यतोऽल्लोप इत्यनुवर्तते । तदाह — लुप्तेति । Tattvabodhini ------------- **अल्लोपोऽनः** - अचः ।अल्लोपोऽनः॑इत्यतोऽल्लोप इत्यनुवर्तते,भस्ये॑ति च । तदाह -भस्याकारस्य लोपः स्यादिति । अत्र नव्याः — यद्यत्राञ्चतेर्भस्येति सामानाधिकरण्येनान्वयः स्वीक्रियते तर्हिप्रतीचः॒॑प्रतीचे॑त्यादि न सिध्येत् । उपसर्गसहितस्यैव भत्वेन केवलस्याऽञ्चतेर्भत्वाऽभावात् ।भस्यावयवस्याञ्चते॑रिति वैयधिकरण्येनान्वये तु प्रत्यगात्मनेत्यादावञ्चतेकारस्य लोपः स्यात् ।अञ्चत्यन्तस्य भस्याकारस्य लोप॑इति व्याख्यानेतुप्राचः॑प्रातीचे॑प्रशब्दाकारस्यापि लोपः स्यात् । तन्त्रावृत्त्यादिनाऽञ्चत्यन्तस्य भस्याञ्चतेरकारस्येति व्याख्यानेऽपि — प्रत्यञ्चमञ्चति प्रत्यङ् । ततः शसादिषुप्रत्यक्वः॒॑प्रत्यक्चे॑त्यादावतिप्रसङ्ग एव । तस्मात्अल्लोपोऽनः॑इत्यत्रेवात्रापिअङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽञ्चतिस्तस्याऽकारस्य लोपः स्या॑दिति व्यख्येयम् ।द्युप्रागपागुदक्प्रतीचः॑इति निर्देशश्चेह व्याख्याने लिङ्गमित्याहुः । Padamanjari ----------- अदिति पृथक् पदं लुप्तविभक्तिकम्, तेन आतो धातोः इत्यादौ केवलस्य लोपशब्दस्व सम्बन्धः । राजकीयमिति । गर्तोतरपदाच्छः इत्यधिकारे राज्ञः कचेति च्छः, ककारश्चान्तादेशः । अत्रैकदेशविकृतस्यानन्यत्वात्प्रसङ्गः ॥ Praudhamanorama --------------- **अङ्गावयव इत्यादि।** भस्येत्यनेनाक्षिप्तः प्रत्ययविशेषोऽङ्गं चेति द्वयमनो विशेषणम्। अन् तु अकारस्य, अतो नोक्तदोष इति भावः। एतच्च 'ष्यङः सम्प्रसारणम्' इति सूत्रे भाष्ये स्पष्टम्। **रषाभ्याम्** (8.4.1) पदे इतीयतैव सामर्थ्यादेकपदत्वे लब्धेऽपि समानग्रहणं यत्समानमेव, अखण्डमिति यावत्। तत्र यथा स्यात्तेन समासे न भवति। रामनाम। यूष्ण इति। यूषो मण्डः। 'मुद्गामलकयूषस्तु भेदी दीपनपाचनः' इति दर्शनात्। Prakriyasarvasvam ----------------- अन्नन्तस्य भस्याल्लोपः स्यात् । अह्नां समूहः आह्नम् । हालबन्धम् । युगवरत्रेति व्यस्तं समस्तं च । यौगम् । वारत्रम् । यौगवरत्रम् । अनण्त्वाद् 'अन्नि' (६-४-१३०) ति प्रकृतिभावो न । द्वारादित्वादेच् । शौवम् । 'क्षुद्रकमालवात् सेनायाम्' (ग) क्षुद्रका मालवाश्च क्षत्रियाः । तेषां समूहरूपा सेना क्षौद्रकमालवी । Sudha ----- अल्लोपो न इति । **भस्य**(6.4.129) इत्यनेनाक्षिप्तः प्रत्ययविशेषः, अङ्गञ्चेति द्वयमनो विशेषणम् । अन् तु अकारस्येत्यभिप्रेत्य व्याचष्टे - अङ्गावयव इत्यादिना । दध्नेति । अस्थि, दधि, सक्थि,अक्षि, एतेषां प्रथमाद्वितीययोर्वारिवद्रूपाणि । तृतीयायान्तु - दधि + आ इति स्थिते **अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः**(7.1.75) इति दधिशब्दस्येकारस्यानङि कृते अनुबन्धलोपे च दधन् + आ इति जाते **यचि भम्**(1.4.18) इति भसंज्ञायाम् **अल्लोपोऽनः**(6.4.134) इत्यनोऽकारस्य लोपे कृते सर्वस्मिन् संयुक्ते च सति 'दघ्ना' इति रूपम् । दध्ने । दधि + ए अत्र **अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः**(7.1.75) इत्यनङि ङित्वादन्त्यावयवे जाते अङोर्लोपे **अल्लोपोऽनः**(6.4.134) इति अनोऽकारस्य लोपे मिलित्वा 'दध्ने' इति रूपम् । अनयैव रीत्या अजादौ प्रत्यये परे अनङि अल्लोपो बोध्यः ।