64133: श्वयुवमघोनामतद्धिते¶
Padacheda: श्व-युव-मघोनाम् | S | 6 | 3 |
अतद्धिते | S | 7 | 1 |
Sutrartha¶
श्वन् , युवन्, मघवन् -एतेषाम् भसंज्ञकस्य अङ्गस्य तद्धितभिन्ने प्रत्यये परे सम्प्रसारणम् भवति ।
किं नाम भसंज्ञकः? यचि भम् (1.4.18) इत्यनेन अजादि यकारादि वा प्रत्यये परे अङ्गस्य भसंज्ञा भवति । वर्तमानसूत्रेण श्वन् (=श्वानः), युवन् (= युवक), मघवन् (= इन्द्रः) एतेषाम् भसंज्ञकस्य अङ्गस्य सम्प्रसारणम् भवति । परन्तु अग्रे तद्धित-प्रत्ययः अस्ति चेत् न भवति । किम् नाम सम्प्रसारणम्? इग्यणः सम्प्रसारणम् (1.1.45) इत्यनेन उच्यते - यण्-वर्णस्य स्थाने इक्-वर्णस्य आदेशः सम्प्रसारणम् नाम्ना ज्ञायते । अतः एतेषां शब्दानाम् यण्-वर्णस्य स्थाने अनेन सूत्रेण सम्प्रसारणम् भवति । यथा - 1) श्वन् शब्दस्य तृतीया-एकवचनस्य रूपसिद्धौ - श्वन् + टा [तृतीयैकवचनस्य प्रत्ययः] → श् व् अ न् + टा [अत्र वकारः इति यण् वर्णः अस्ति । अतः - ] → श्उअन् + आ [श्वयुवमघोनामतद्धिते (6.4.133) इति श्वन्-इत्यस्य सम्प्रसारणम् । वकारस्य सम्प्रसारणमुकारः। ] → श्उन + आ [सम्प्रसारणाच्च (6.1.108) इति उकार-अकारयोः एकः पूर्वरूपः उकारः] → शुना । 2) युवन् शब्दस्य चतुर्थी-एकवचनस्य रूपसिद्धौ - युवन् + ङे [चतुर्थ्येकवचनस्य प्रत्ययः] → य् उ व् अ न् + ए [अत्र यकारः तथा वकारः द्वौ यण्-वर्णौ स्तः । एतयोः वकारः प्रत्ययस्य निकटतरः, अतः अग्रिमसूत्रेण तस्य सम्प्रसारणम् भवति ।] → य् उ उ अ न् + ए [श्वयुवमघोनामतद्धिते (6.4.133) इति सम्प्रसारणम् । वकारस्य सम्प्रसारणमुकारः। अग्रे पुनः यकारस्य सम्प्रसारणम् न सम्प्रसारणे सम्प्रसारणम् (6.1.37) इत्यनेन निषिध्यते ।] → य् उ उ न् ए [सम्प्रसारणाच्च (6.1.108) इति उकार-अकारयोः एकः पूर्वरूपः उकारः ] → यूने [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] 3) मघवन्-शब्दस्य षष्ठी-एकवचनस्य रूपसिद्धौ- → मघवन् + ङस् [षष्ठी-एकवचनस्य प्रत्ययः] → मघउअन् + अस् [श्वयुवमघोनामतद्धिते (6.4.133) इति सम्प्रसारणम् । वकारस्य सम्प्रसारणमुकारः। ] → मघउन् + अस् [सम्प्रसारणाच्च (6.1.108) इति उकार-अकारयोः एकः पूर्वरूपः उकारः ] → मघोनः [आद्गुणः (6.1.87) इति गुण-एकादेशः] इदम् सम्प्रसारणम् तद्धितप्रत्यये परे न भवतीति स्मर्तव्यम् । यथा - 1. ‘अतिक्रान्तः श्वानम्’ (surpasses a dog in certain quality, e.g. speed of running) अस्मिन् अर्थे <!अत्यादयः क्रान्ताद्यर्थे द्वितीयया!> इत्यनेन प्रादिसमासे कृते अतेः शुनः (5.4.96) इत्यनेन ‘टच्’ इति समासान्तप्रत्ययः भवति । अग्रे ‘अति + श्वन् + टच्’ इति स्थिते नस्तद्धिते (6.4.144) इत्यनेन टिलोपं कृत्वा ‘अतिश्व’ इति शब्दः सिद्ध्यति । अत्र ‘टच्’ इति प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अत्र वर्तमानसूत्रेण सम्प्रसारणं न भवति । 2. ‘यूनः भावः’ इत्यस्मिन् अर्थे हायनान्तयुवादिभ्योऽण् (5.1.130) इत्यनेन युवन्-शब्दस्य अण् प्रत्ययः भवति । युवन् + अण् इति स्थिते तद्धितेष्वचामादेः (7.2.117) इत्यनेन आदिवृद्धिं कृत्वा ‘यौवन’ इति रूपं सिद्ध्यति । अत्र सम्प्रसारणम् न भवति, यतः अण्-इति तद्धितप्रत्ययः अस्ति । 3. साऽस्य देवता (4.2.24) अस्मिन् अर्थे मघवन् शब्दस्य अण प्रत्ययः भवति । मघवन् + अण् इति स्थिते तद्धितेष्वचामादेः (7.2.117) इत्यनेन आदिवृद्धिं कृत्वा ‘माघवन’ इति रूपं सिद्ध्यति । अत्र सम्प्रसारणम् न भवति, यतः अण्-इति तद्धितप्रत्ययः अस्ति । ज्ञातव्यम् - अस्मिन् सूत्रे अल्लोपोऽनः (6.4.134) इति-अग्रिमसूत्रात् ‘अनः’ इत्यस्य अपकर्षः अपि क्रियते । ‘अन्-येषामन्ते, तादृशानाम् श्वन् , युवन्, मधवन् एतेषाम् शब्दानाम् एव सम्प्रसारणम् भवति’ इति तस्य अर्थः भवति । एतादृशम् सम्प्रसारणम् ‘युवती, मघवती’ एतादृशानाम् शब्दानाम् विषये मा भूत्, एतत् स्पष्टीकर्तुमयमपकर्षः स्थाप्यते ।
Sutrartha (English)¶
The भसंज्ञक अङ्ग of श्वन् , युवन् and मघवन् undergoes सम्प्रसारणम् when followed by a प्रत्यय which is not a तद्धितप्रत्यय.
Vasu English Summary¶
The व of 1. श्वन् 2. युवन् and 3. मधवन् becomes vocalised, but not before a तद्धित affix.
Vasu English Translation¶
The व of 1. श्वन् 2. युवन् and 3. मधवन् becomes vocalised, but not before a तद्धित affix. Thus शुनः, शुना, शुने, यूनः, यूना, यूने, मघोनः, मघोना, मघोने ॥ But शौवनं मांसम्, यौवनं वर्त्तते, माघवनः स्थालीपाकः with Taddhita affixes. शौवन is formed by अञ् affix (4.3.154) and औ being added by (7.3.4) as श्वन belongs dvaradi class.
This vocalisation takes place of the nouns ending in न्, but not when they become feminine or do not end in न्, as युवतीः पश्य, मघवतः, मघवते, मघवता ॥ The word अनः of the next sutra, in a way, qualifies this sutra also.
Bhashya¶
श्वयुवमघोनामतद्धिते (3131) (6604 पूर्वपक्षिण उपसंख्यानवार्तिकम् ॥ 1 ॥) - श्वादीनां संप्रसारणे नकारान्तग्रहणमनकारान्तप्रतिषेधार्थम् - श्वादीनां संप्रसारणे नकारान्तग्रहणं कर्तव्यम् । किं कारणम् ? अनकारान्तस्य मा भूत् । मघवता, मघवते ॥ तथा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीति यथेह भवति - यूनः पश्येति, एवं युवतीः पश्येत्यत्रापि स्यादिति ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) यत्तावदुच्यते - नकारान्तग्रहणं कर्तव्यमिति । न कर्तव्यम् ॥ (6605 आनर्थक्यसाधकवार्तिकम् ॥ 2 ॥) - उक्तं वा - किमुक्तम् ? उक्तमेतत् अर्वणस्तृ मघोनश्च न शिष्यं छान्दसं हि तत् । इति । यदप्युच्यते - तथा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति यथेह भवति यूनः पश्यति, एवं युवतीः पश्येत्यत्रापि स्यात् इति । लिङ्गविशिष्टग्रहणे चोक्तम् । ।न वा विभक्तौ लिङ्गविशिष्टाग्रहणात् इति ॥ अथवा - उपरिष्टाद्योगविभागः करिष्यते - श्वयुवमघोनामतद्धिते अल्लोपः, अकारस्य च लोपो भवति । ततः - अनः इत्युभयोः शेषः ॥
Kashika¶
श्वन् युवन् मघवन् इत्येतेषामङ्गानामतद्धिते प्रत्यये परतः संप्रसारणं भवति। शुनः। शुना। शुने। यूनः। यूना। यूने। मघोनः। मघोना। मघोने। अतद्धित इति किम्? शौवनं मांसम्। यौवनं वर्तते। माघवनः स्थालीपाकः। शुनो विकारे प्राणिरजतादिभ्योऽञ् (४.३.१५४), द्वारादित्वाद् (७.३.४) ऐजागमः। श्वादीनामेतत् संप्रसारणं नकारान्तानामिष्यते। इह न भवति — युवतीः पश्य। मघवतः। मघवता। मघवते। तदर्थमुत्तरत्र योगविभागं कुर्वन्ति। अल्लोपः। अनः। अन इत्युभयोः शेष इति॥
Siddhanta Kaumudi¶
अन्नन्तानां भसंज्ञकानामेषामतद्धिते परे संप्रसारणं स्यात् । संप्रसारणाच्च (SK330) । आद्गुणः (SK69) । मघोनः । अन्नन्तानां किम् । मघवतः । मघवता । स्त्रियां मघवती । अतद्धिते किम् । माघवनम् । मघोना । मघवभ्यामित्यादि । शुनः । शुना । श्वभ्यामित्यादि । युवन् शब्दे वस्योत्वे कृते ॥
Laghu Siddhanta Kaumudi¶
अन्नन्तानां भानामेषामतद्धिते संप्रसारणम्। मघोनः। मघवभ्याम्। एवं श्वन्, युवन्॥
Balamanorama¶
श्वयुवमघोनामतद्धिते - शसादावचि मघवन् अस् इत्यादि स्थिते ‘अल्लोपोऽनः’ इति प्राप्ते-आयुवमघोनाम् । आआ च, युवा च, मघवा चेति द्वन्द्वः ।वसोः संप्रसारण॑मित्यतः संप्रसारणमित्यनुवर्तते ।भस्ये॑त्यधिकृतम् । ‘अल्लोपोऽनः’ इत्यतोऽन इत्यपकृष्यते । तच्च आयुवमघोनां प्रत्येकं विशेषणं, तदन्तविधिः । फलितमाह — अन्नन्तानामित्यादि ।इग्यणः संप्रसारणम् इति वकारस्य संप्रसारणमुकारः । मथ उ अन् इति स्थिते पूर्वरूपमुक्तं स्मारयति — संप्रसारणाच्चेति । णघ उ न् इति स्थिते गुणं स्मारयति — आद्गुण इति । अन्नन्तानां किमिति । आयुवमघोनामन्नन्तत्वाऽव्यभिचारात्किमर्थमन्नन्तत्वविशेषणम् । मघवन्शब्दे नकारस्य त्रादेशपक्षेऽपि एकदेशविकृतस्यानन्यतयाऽन्नन्तत्वसत्त्वादिति प्रश्नः । मघवत इति । त्रादेशपक्षे मघवन्शब्दे संप्रसारणनिवृत्त्यर्थमन्नन्तत्वविशेषणम् । यद्यप्येकदेशविकृतस्यानन्यतया अन्नन्तत्वमस्त्येव, तथापि विशेषणसामर्थ्यात् श्रूयमाणनकारान्तस्यैव संप्रसारणमित्याहुः । स्त्रियां मघवतीति । मघवतः स्त्री मघवती, पुंयोगेन स्त्रियां वृत्तौउगितश्चे॑ति ङीप् । अत्राप्यन्नन्तत्वविशेषणान्न संप्रसारणमिति भावः । अत्रउगिदचा॑मिति नुम् तु न, ङ#ईपा व्यवधानेन तान्तस्य उगितः सर्वनामस्थानपरकत्वाऽभावात् । लिङ्गविशिष्टपरिभाषा तु नेह प्रवर्तते, विभक्तौ लिङ्गविशिष्टाऽग्रहणमित्युक्तेरिति भावः । माघवनमिति । ‘साऽस्य देवता’ इति मघवन्शब्दादणि आदिवृद्धिः । अत्राऽणस्तद्धितत्वात्तस्मिन् परे न संप्रसारणमिति भावः । मघवभ्यामिति । भ्यामादौ हलि नलोप इति भावः । इत्यादीति । मघोने । मघोनः २ । मघोनोः । मघोनाम् । मघोनि । आन्शब्दः प्रायेण राजवत् । शसादावचिआउयुवे॑ति संप्रसारणं वकारस्य उकारः । शु अन् इति स्थितेसंप्रसारणाच्चे॑ति पूर्वरूपमिति मत्वाह-शुनः शुनेति । इत्यादीति । शुने । शुनः २ । शुनोः । शुनाम् । शुनि । युवन्शब्दोऽपि प्रायेण राजवत् । शसादावचि विशेषमाह-युवन्शब्द इति । युवन् अस् इत्यादिस्थितेआयुवे॑ति वकारस्य संप्रसारणे उकारे यु उ अन् इति स्थितेसंप्रसारणांच्चे॑ति पूर्वरूपे यु उ न् इति स्थिते सवर्णदीर्घे यून इत्यादिरूपेषु सिद्धेषु यकारस्यापि संप्रसारणे प्राप्त इत्यर्थः । लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरित्यस्य तु नायं विषयः, कार्याश्रयवर्णभेदेन लक्ष्यभेदात् । अन्यथा संस्कर्तेत्यादौअनचि चे॑त्यादेरसकृत्प्रवृत्त्यनुपपत्तेरितिभावः ।
Tattvabodhini¶
श्वयुवमघोनामतद्धिते - आयुव ।अल्लोपोऽनः॑इत्यतो — ऽन॑ इत्यपकृष्य व्याचष्ट#ए — अन्नन्तनामिति । अन्नन्तानां किं । मघवत इति । यद्यपि नस्य तादेशेऽप्येकदेशविकृतस्याऽनन्यत्वादन्नन्तताऽत्रास्त्येव, तथापि विशेषणसामर्थ्यच्छ्रयमाणनकारान्तस्यैव संप्रसारणं न त्वत्रेत्याहुः । वार्तिककृता तुआआदीनां संप्रसारणे नकारान्तग्रहणमनकारान्तप्रतिषेधार्थ॑मित्यक्तम् । नन्वेवमपिअल्लोपोऽनः॑इत्यल्लोपो दुर्वार इति चान्मैवम्, भाष्यकृता पुर्वोक्तवार्तिकमत्रानुवत्र्यअल्लोपोऽनः, नकाकान्तस्यैवे॑तिव्याख्यातत्वात् । एतच्चऋलृ॑गिति सूत्रे भाष्ये स्पष्टम् । एतेन॒बहुधीवरी॒॑राजकीय॑मित्यत्राऽप्यल्लोपाऽभावः सिद्धः ।वनो र च॒॑राज्ञः क चे॑त्यादेशे कृते चकारान्तत्वाऽभावात् । स्त्रिया मघवतीति । मधवती मघवत्यौ । मघवत्य इत्यत्र लिङ्गविशिष्टपरिभाषायाउगिदचा॑मिति नुम्न शङ्क्यः,विभक्तौ लिङ्गविशिष्टाऽग्रहणा॑दित्याहुः ।
Padamanjari¶
शौवमिति । नस्तद्धिते इति टिलोपः । यौवनमिति । यूनो भाव इति हायनान्तयुवादिभ्योऽण्, अन् इति प्रकृतिभावः । मघवा देवतास्य माघवनः । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणाद् युवतिशब्दस्यापि सम्प्रसारणप्रसङ्गः, तथा मघवत इत्यादौ मघवा बहुलम् इति त्रादेशो कृते थएकदेशविकृतस्यानन्यत्वात्प्रसङ्गः इत्याह - ‘स्वादीनामित्यादि । कथमेतल्लभ्यते इत्याह - एतदथमिति । अन इत्युभयोः शेष इति । न त्वनन्तरस्यैव, योगविभागसामर्थ्यात् । न चैषमपि मघवतेत्यादावेकदेशविकृतस्यानन्यत्वात्प्रसङ्गः, सामान्यातिदेशे विशेषानतिदेशात् ॥
Nyaas¶
यूनः इति। सम्प्रसारणे कृते परपूर्वत्वे च सवर्णदीर्घत्वम्। शौवम् इति। नस्तद्धिते (6.4.144) इति टिलोपः। यौवनम् इति। यूनो भाव इति हायनान्तयुवादिभ्योऽण् (5.1.130) इत्यण्, अन् (6.4.167) इति प्रकृतिभावात्? टेः (6.4.143) इति टिलोपाल्लोपौ न भवतः। माघवनम् इति -मघवा देवताऽस्येति सास्य देवता (4.2.24) इत्यण्, पूर्ववत्प्रकृतिभावः। शौवम् इत्येतद्व्युत्पादयितुमाह -शुनो विकारः इत्यादि। युवशब्दस्य तिप्रत्ययान्तस्यापि प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् (व्या।प।29) इति सम्प्रसारणं प्राप्नोति। मधवन्नित्यस्यापि त्रित्यादेशे कृते एकदेशविकृतमनन्यवद्भवति (व्या।प।16) इति तकारान्तस्यापि प्राप्नोति। तत्? कथं न भवति? इत्याह -आआदीनाम् इत्यादि। तदर्थम् इति। नकारान्तानामेव यथा स्यात्, अनकारान्तानां मा भूदित्येवमर्थम्। अन इत्युभयोः शेषः इति। अन इत्यस्योभयोर्योगयोः शेषत्वेऽवयवत्वे सत्यन इत्यनेन सम्प्रसारणशेषस्यातिदेश इति न भवति॥
Prakriyasarvasvam¶
भसंज्ञानामन्नन्तानामेषामतद्धिते परे प्रसारणं स्यात् । शुनी । मघोनी ।।
Sudha¶
श्वयुवेति । **वसोः सम्प्रसारणम्**(6.4.131) इत्यतः सम्प्रसारणमित्यनुवर्तते । **भस्य**(6.4.129) इत्यधिकृतम् । **अल्लोपोऽनः**(6.4.134) इत्यतः अनः इत्यपकृप्यते । तच्च श्वयुवमघोनां प्रत्येकं विशेषणम्, तदन्तविधिः, तदाह - अन्नन्तानामित्यादिना । मघोनः । ‘मघवन् अस्’ अत्र **यचि भम्**(1.4.18) इति भसंज्ञायाम् **श्वयुवमघोनामतद्धिते**(6.4.133) इति सम्प्रसारणे यणो -वकारस्य, इकउकारे जाते ‘मघ उ अ न् अस्’ इति स्थिते **सम्प्रसारणाच्च**(6.1.108) इति पूर्वपरयोः स्थाने पूर्वरूपैकादेशे **आद्गुणः**(6.1.87) इति गुणे सस्य रुत्वे तस्य विसर्गत्वे च ‘मघोनः’ इति रूपम् । टायाम् - मघोना इति । मघवभ्याम । मघवन् + भ्याम् अत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसंज्ञायाम् **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नलोपे ‘मघवभ्याम्’ इति रूपम् । मघोने । मघोनः । मघोनोः । मघोनाम् । मघोनि । एवं श्वन्युवन् इति । श्वा, श्वानौ, श्वानः । हे श्वन् । श्वानम्, श्वानौ, शसादावचि **श्वयुवमघोनामतद्धिते**(6.4.133) इति सम्प्रसारण वकारस्य उकारः । शु + अन् इति स्थिते **सम्प्रसारणाच्च**(6.1.108) इति पूर्वरूपे ‘शुनः’ इति । शुना, श्वभ्याम्,श्वभिः । शुने । शुनः शुनोः शुनाम् । शुनि । इत्यादि । युवा, युवानौ, युवानः । हे युवन् । युवानम्, युवानौ । यूनः ‘युवन् शस्’ अत्र शकारस्येत्संज्ञायां लोपे च **यचि भम्**(1.4.18) इति भसज्ञायां **श्वयुवमघोनामतद्धिते**(6.4.133) इति वकारस्य सम्प्रसारणे **सम्प्रसारणाच्च**(6.1.108) इति पुर्वरूपैकादेशे ‘यु + उन् अस्’ इति जाते यकारस्यापि **श्वयुवमघोनामतद्धिते**(6.4.133) इति सम्प्रसारणे प्राप्ते **न सम्प्रसारणे सम्प्रसारणम्**(6.1.37) इति निषेधे सवणदीर्घे च कृते रुत्वविसर्गयोश्च सतोः ‘यूनः’ इति रूपम् । एवं यूना इत्यादावपि बोध्यम् । युवभ्याम् । युवन् + भ्याम् अत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसंज्ञायां **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नलोपे ‘युवभ्याम्’ इति रूपम् । इत्यादीति । यूने । यूनः । यूनोः । यूनाम् । यूनि । अर्वा । ‘अर्वन् + सु अत्र सोरुकारे गते **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति स् लोपे **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नान्तोपधायाः दीर्घत्वे **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नलोपे ‘अर्वा’ इति रूपम् । हे अर्वन् । ‘हे अर्वन् + सु’ अत्र सोरुकारे गते **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति स् लोपे जाते **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नलोपे प्राप्ते **न ङिसम्बुद्ध्योः**(8.2.8) इति निषिद्धे ‘हे अर्वन्’ इति रूपम् ।
Sutra Prayogas¶
मध्यासितां (भट्टिकाव्यम्): श्वयुव- मघोनाम् इति संप्रसारणम् ॥