64132: वाह ऊठ्

Padacheda: वाहः | S | 6 | 1 |

ऊठ् | S | 1 | 1 |

Sutrartha

वाह्-इति भसंज्ञकस्य ‘ऊठ्’ इति सम्प्रसारणम् भवति ।

‘वाह्’, ‘वारिवाह्’ , ‘विश्ववाह्’ एतेषु शब्देषु यः वाह्-शब्दः अस्ति, तस्य भसंज्ञा भवति चेत् तस्य वकारस्य सम्प्रसारेण ‘ऊठ्’ इति आदेशः भवति । यथा - 1. वाह् + टा [तृतीयैकवचनस्य टा-प्रत्ययः । अङ्गस्य यचि भम् (1.4.18) इति भसंज्ञा । ] → ऊठ् आ ह् + आ [भसंज्ञकस्य वाह्-इत्यस्य वकारस्य वाह ऊठ् (6.4.132) इति ऊठ्-आदेशः] → ऊ आ ह् + आ [ठकारस्य इत्संज्ञा, लोपः] → ऊह् + आ [सम्प्रसारणाच्च (6.1.108) इति पूर्वरूपम्] → ऊहा 2. विश्ववाह् + ङे [चतुर्थ्येकवचनस्य ङे-प्रत्ययः । अङ्गस्य यचि भम् (1.4.18) इति भसंज्ञा ।] → विश्व ऊठ् आ ह् + ङे [भसंज्ञकस्य वाह्-इत्यस्य वकारस्य वाह ऊठ् (6.4.132) इति ऊठ्-आदेशः] → विश्व ऊ आ ह् + ए [ठकारस्य इत्संज्ञा, लोपः] → विश्व ऊह् + ए [सम्प्रसारणाच्च (6.1.108) इति पूर्वरूपम्] → विश्वौहे एत्येधत्यूठ्सु (6.1.89) इति अकार-ऊकारयोः वृद्धि-एकादेशः औकारः] 3. वारिवाह् + ङि [सप्तम्येकवचनस्य ङि-प्रत्ययः । अङ्गस्य यचि भम् (1.4.18) इति भसंज्ञा ] → वारि ऊठ् आ ह् + ङि [भसंज्ञकस्य वाह्-इत्यस्य वकारस्य वाह ऊठ् (6.4.132) इति ऊठ्-आदेशः] → वारि ऊ आ ह् ङि [ठकारस्य इत्संज्ञा, लोपः] → वारि ऊ ह् ङि [सम्प्रसारणाच्च (6.1.108) इति पूर्वरूपम्] → वार्यूहि [इको यणचि (6.1.77) इति यणादेशः] ज्ञातव्यम् - 1. अस्मिन् सूत्रे ऊठ् इति एकाल्-आदेशः अस्ति, अतः वस्तुतः अलोऽन्त्यस्य (1.1.52) इत्यनेन सः अन्तिमवर्णस्य भवेत् । परन्तु अस्मिन् सूत्रे ‘सम्प्रसारणम्’ इत्यपि अनुवर्तते, अतः सम्प्रसारणयोग्यः यः वर्णः तस्यैव अयमादेशः भवति । 2. किम् नाम सम्प्रसारणम्? इग्यणः सम्प्रसारणम् (1.1.45) इत्यनेन सम्प्रसारणसंज्ञा दीयते । यण्-वर्णस्य स्थाने इक्-वर्णस्य विधानम् सम्प्रसारणम् इत्युच्यते । 3. ‘वाह्’ इति शब्दः ‘वह्’ धातोः ण्वि-प्रत्ययं कृत्वा जायते । यथा, विश्ववाह्-शब्दस्य सिद्धिः इयम् - विश्वं वह् ण्विँ [वहश्च (3.2.64) इति ण्विप्रत्ययः] → विश्वं वाह् व् [अतः उपधायाः (7.2.116) इति णिति परे उपधा-अकारस्य वृद्धिः आकारः] → विश्वं वाह् [वेरपृक्तस्य (6.1.67) इत्यनेन अपृक्तवकारस्य लोपः] → विश्व अम् वाह् [उपपदमतिङ् (2.2.19) इति उपपदसमासः] → विश्ववाह् [सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुब्लोपः । कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा]

Sutrartha (English)

भसंज्ञक वाह् is converted to ‘ऊठ्’ by सम्प्रसारणम्.

Vasu English Summary

The व is vocalised to ऊ (ऊठ्) when the compound अङ्ग (stem) is भ।

Vasu English Translation

The व is vocalised to ऊ (ऊठ्) when the compound अङ्ग (stem) is भ। The word वाह् is a ण्वि formed stem by (3.2.64). It can never stand alone, but, must be preceded by an upapada: hence we have used the word “compound.” Thus प्रष्ठौहः, प्रष्ठौहा, प्रष्ठौहे, दित्यौहः, दित्यौहा, दित्यौहे ॥ By (6.1.108), ऊ + आ (of वा) = ऊ; and then प्रष्ठ + उह् = प्रष्ठौहः; the Vriddhi being substituted by (6.1.89). This form could have been evolved by simple samprasarana thus : प्रष्ठ + वह् + शस् = प्रष्ठ + उह् + अस् (6.1.108) = प्रष्ठ + ओह् + अस् (the affix ण्वि (3.2.64), will produce guna) = प्रष्ठौहः (6.1.88). In fact ण्वि is never added to वह् (3.2.64) unless the preceding member ends in अ and that अ + ओ of वा will always produce औ ॥ The making of this special samprasarana in ऊठ्, indicates the existence of following maxim: असिद्धं बहिरङ्गमन्तरङ्गे; and the samprasarana being a bahiranga operation, is considered as asiddha for the purposes of guna which is an antaranga operation : therefore, we can never get the form ओह ॥

Bhashya

वाह ऊठ् (3130) (संप्रसारणाधिकरणम्) (ऊडः स्थाननिर्णयभाष्यम्) ऊडादिः कस्मान्न भवति, आदिष्टिद्भवतीत्यादिः प्राप्नोति ? संप्रसारणमित्यनेन यणः स्थाने क्रियते । यद्येवम् - (6601 ऊडि्वधानानर्थक्यबोधकवार्तिकम् ॥ 1 ॥) - वाह ऊड्वचनार्थक्यं संप्रसारणेन कृतत्वात् - वाह ऊड्वचनमनर्थकम् । किं कारणम् ? संप्रसारणेन कृतत्वात् । संप्रसारणेनैव सिद्धम् । का रूपसिद्धिः ? प्रष्ठौहः पश्य ॥ (6602 संप्रसारणविधाने सिद्धसाधकवार्तिकम् ॥ 2 ॥) - गुणः प्रत्ययलक्षणत्वात् - प्रत्ययलक्षणेन गुणो भविष्यति ॥ (6603 संप्रसारणे वृद्धिसाधकवार्तिकम् ॥ 3 ॥) - एज्ग्रहणा वृद्धिः - एज्ग्रहणा वृद्धिर्भविष्यति ॥ (अन्तरङ्गपरिभाषाज्ञापकभाष्यम्) एवं तर्हि सिद्धे सति यद्वाह ऊठं शास्ति तज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा - असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षण इति । किमेतस्य ज्ञापने प्रयोजनम् ? पचावेदम् । पचामेदम् । असिद्धत्वात् बहिरङ्गलक्षणस्याद्गुणस्यान्तरङ्गलक्षणमैत्वं न भवति - इति ॥

Kashika

वाह इत्येवमन्तस्य भस्य ऊठ् इत्येतत् संप्रसारणं भवति। प्रष्ठौहः। प्रष्ठौहा। प्रष्ठौहे। दित्यौहः। दित्यौहा। दित्यौहे। एत्येधत्यूठ्सु (६.१.८९) इति वृद्धिः। अथ किमर्थमूठ् क्रियते, संप्रसारण एव कृते गुणे च वृद्धिरेचि (६.१.८८) इति वृद्धौ सत्यां सिद्धं रूपं भवति प्रष्ठौह इति, अनकारान्ते चोपपदे वहेर्ण्विर्न दृश्यते? ज्ञापनार्थम्। एतज् ज्ञापयति भवत्येषा परिभाषा — असिद्धं बहिरङ्गमन्तरङ्गे इति। तस्यां हि सत्यां बहिरङ्गस्य संप्रसारणस्यासिद्धत्वाद् अन्तरङ्गो गुणो न स्यात्॥

Siddhanta Kaumudi

भस्य वाहः संप्रसारणमूठ् स्यात् ॥

Laghu Siddhanta Kaumudi

भस्य वाहः संप्रसारणमूठ्॥

Balamanorama

वाह ऊठ् - वाह ऊठ् ।भस्ये॑त्यधिकृतम् । ‘वसोः संप्रसारण’ मित्यतःसंप्रसारण॑मित्यनुवर्तते । तच्च ऊडित्यनेनान्वेति । तदाह-भस्येत्यादिना ।

Padamanjari

वाह थैति वहेर्ण्विप्रत्ययान्तस्य ग्रहणम्, ण्विश्च सोपपदाद्विहित इति सामर्थ्यादत्र तदन्तविधिरत्याह - वाह इत्येवमन्तस्येति । सम्प्रसारणं भवतीति । सम्प्रसारतणग्रहणानुवृत्तिं दर्शयति । तेन वकारस्य स्थाने भवति, अन्यथान्त्यस्य स्यात् । उदाहरणेषु च्छन्दसि सहः वहश्चेति ण्विः । अथेत्यादि । वाह इत्येतावता प्रकृतं सम्प्रसारणमेव विधेयमिति प्रश्नः । का रुपसिद्धिः इत्याह - सम्प्रसारणे कृत इति । । गुणे चेति । कृत इत्यनुषङ्गः । ण्विप्रत्ययमपेक्ष्य प्रत्ययलक्षणेन गुणः । नन्वेवं शालीन्वहतीत्यादावनकारान्त उपपदे साल्यूह इति न सिध्यति तत्राह - अनकारान्ते चेति । चकारादकारान्त उपसर्गेऽपीति द्रष्टव्यम् । तेन प्रौह इत्यादावेङ् पिररुप्रसङ्ग इति न चोदनीयम् । ज्ञापानर्थमिति । कथमेतज्ज्ञापकम् त्याहि - तस्यां हि सत्यामिति । बहिरङ्गस्य वहिरड्गत्वं वहिर्भूताजादिप्रत्ययापेक्षत्वात्, अन्तर्भूताण्व्यपेक्षत्वाद् गुणोऽन्तरङ्गः ॥

Nyaas

वाहः इति। वहिरयं ण्विप्रत्ययान्तः, स चास्मात्सोपपदादेव ण्विर्विहितः। तेन सामर्थ्यात्? तदन्तविधिर्विज्ञायत इत्याह - वाह इत्येवमन्तस्य इत्यादि। ऊडित्येतत् इति। ठिदयमूकारः। एत्येधत्यूठ्सु (6.1.89) इति विशेषणार्थः। सम्प्रसारणं भवति इति। सम्प्रसारणमित्येष विशेषः कुतो लभ्यते। पूर्वसूत्रात्? सम्प्रसारणमित्यस्यानुवृत्तेः। किमर्थं पुनः सम्प्रसारणमनुवार्यते? स्थानिनियमार्थम्। यद्येतन्नानुवत्र्यते, यण एव स्थाने इग्यणः सम्प्रसारणम् (1.1.45) इति भवितव्यम्। प्रष्ठौहः इति। प्रष्ठं वहतीति भजो ण्विः (3.2.62) इत्यनुवर्तमाने वहश्च (3.2.64) इति ण्विः। अथ किमर्थमूठ्? क्रियते, न वाह इत्येतावदेव सूत्रं कर्तव्यमित्यभिप्रायः। सम्प्रसरण एव कृते इति। पूर्वसत्रात्? समप्रसारणग्रहणानुवृत्तेः। गुणे च इति। कृत इति सम्बन्धः। गुणस्तु पुगन्तलघूपधस्य च (7.3.86) इति लुप्तेऽपि ण्वौ प्रत्यलक्षणेन। ननु च अङ्गवृत्ते पुनरङ्गवृत्तावविधि निष्ठितस्य (व्या।प।38) इति सम्प्रसारणे कृते गुणेन न भवितव्यम्? निष्ठितस्य इति। वचनाददोषः। निष्ठा हि शब्दस्य परिसमाप्तिः, सा च तदा भवति यदा शब्दसय प्रयोगार्हता भवति। न च यावद्गुणादिसंस्कारो न क्रियते तावदस्य प्रयोगार्हता भवति। तस्मात्? कृतेऽपि सम्प्रसारणे भवत्येव गुणः, तत्रेतत्? स्यात्। यद्यूड् न क्रियते, तदा शार्लि वहति, दितिं वहति, शाल्युहः, दित्यूह इत्येवमाद्यनकारन्ते शालिदितिशब्द उपपदे वहेर्ण्वि प्रत्यये विहिते सति न सिद्ध्यतीत्यत आह - `अनकारान्ते चोपपदे इत्यादि। वहश्च (3.2.64) इत्यनेन छन्दसि सहः (3.2.63) इत्यतोऽत्र छन्दोग्रहणानुवृत्तेश्छन्दस्येव ण्विर्विधीयते, दृष्टार्थविधिश्छन्दसि, अकारान्त एव चोपपदे प्रष्ठादौ वहेश्छन्दसि ण्विर्दृश्यते न त्वकारान्ते शाल्यादौ। कथं पुनरनेन बहिरङ्गपरिभाषा ज्ञाप्यते? इत्याह - तस्यां हि इत्यादि। बहिरङ्गत्त्वं पुनः सम्प्रसारणस्य बाह्राजादिप्रत्ययनिमित्तां भसंज्ञामाश्रित्य प्रवृत्तात्वात्। गुणस्य त्वन्तरङ्गत्त्वम्; अबाहृप्रत्यये प्रवृत्तत्वात्। किं पुनरस्याः परिभाषायाः ज्ञापनेनप्रयोजनम्? पचावेदम्, यजावेदमित्यत्रः सिद्धत्त्वं बहिरङ्गलक्षणस्य। अतोऽन्तरङ्गलक्षणमेत ऐत्वं न भवति; बहिरङ्गलक्षणत्वाद्गुणस्य। बहिरङ्गत्वन्तु पदद्वयाश्रितत्वात्। ऐत्वस्य त्वन्तरङ्गत्वं विपर्ययात्॥

Praudhamanorama

वाह ऊठ् ‘वसोः सम्प्रसारणम्’ इत्यतोऽनुवृत्तं सम्प्रसारणमूठो विशेषणम्। तेन ‘अलोऽन्त्यस्य’ इति न। यत्तु प्राचा वाशब्दस्येत्युक्तम्। नासौ सूत्रार्थः, किन्तु कथंचित्फलितार्थकथनपरतया नेयम्।

Prakriyasarvasvam

वाहित्यन्तस्य भस्य ऊठिति सम्प्रसारणं स्यात् । इति वस्य ऊत्वम् । ‘सम्प्रसारणाच्च’ (६-१-१०८) इत्यतः पूर्वरूपत्वम् । दात्य ऊह् अ, ‘एत्येधत्यूठ्सु’ (६-१-८७) इति वृद्धिः । दात्यौहः । दित्यवाट् द्वित्रवर्षो गौर्दात्यौहं तद्भवादिकम् । दस्त्यूह इत्युणादेः स्याद् दात्यूहः पक्षिवाचकः ।। २४६ ।। दार्घसत्रम् । श्रेयसि भवं श्रायसम् । एवं श्रेयसोऽपत्यं श्रायस इत्याद्यपि । एषां तदादावप्यात्त्वं, दाविकाकूलाः शालयः । शांशपाशाखं फलम् । व्यल्कशे भवो वैयल्कशः । स्वर्भंवः सौवः । द्वारादित्वादेच् । अव्ययत्वाट्टिलोपः । कालाट्टञि टिलोपः, सायं प्रातिकः । पौनःपुनिकः । अव्ययसमुदायत्वाट्टचठचुलौ नेष्टौ । अव्ययानां टिलोपस्यानित्यत्वाद्दाराद्भव आरातीयः । ‘वृद्धाच्छः’ (४-२-११४) । ‘येषां च विरोधः शाश्वतिकः’ (२-४-९) इति सूत्रोक्त्या ‘शाश्वते प्रतिषेधः’ इति भाष्योक्त्या च तद्द्वयसिद्धिः । असिहत्यायां भवमासिहत्यं वैरम्, शतकुम्भे गिरौ भवं शातकौम्भं हेम—अनुशतिकादी । शातकुम्भमित्येवान्ये ॥

Sudha

वाह ऊठ् । ‘भस्य’ इत्यधिकृतम् । **वसोः सम्प्रसारणम्**(6.4.131) इत्यतः सम्प्रसारणमित्यनुवर्तते । तच्च ऊठ् इत्यनेनान्वेति । तदाह - भस्येत्यादिना ।