64133: श्वयुवमघोनामतद्धिते ========================== **Padacheda:** श्व-युव-मघोनाम् | S | 6 | 3 | अतद्धिते | S | 7 | 1 | Sutrartha --------- **श्वन् , युवन्, मघवन् -एतेषाम् भसंज्ञकस्य अङ्गस्य तद्धितभिन्ने प्रत्यये परे सम्प्रसारणम् भवति ।** किं नाम भसंज्ञकः? **यचि भम्** (1.4.18) इत्यनेन अजादि यकारादि वा प्रत्यये परे अङ्गस्य भसंज्ञा भवति । वर्तमानसूत्रेण श्वन् (=श्वानः), युवन् (= युवक), मघवन् (= इन्द्रः) एतेषाम् भसंज्ञकस्य अङ्गस्य सम्प्रसारणम् भवति । परन्तु अग्रे तद्धित-प्रत्ययः अस्ति चेत् न भवति । किम् नाम सम्प्रसारणम्? **इग्यणः सम्प्रसारणम्** (1.1.45) इत्यनेन उच्यते - यण्-वर्णस्य स्थाने इक्-वर्णस्य आदेशः सम्प्रसारणम् नाम्ना ज्ञायते । अतः एतेषां शब्दानाम् यण्-वर्णस्य स्थाने अनेन सूत्रेण सम्प्रसारणम् भवति । यथा - 1) श्वन् शब्दस्य तृतीया-एकवचनस्य रूपसिद्धौ - श्वन् + टा [तृतीयैकवचनस्य प्रत्ययः] → श् व् अ न् + टा [अत्र वकारः इति यण् वर्णः अस्ति । अतः - ] → श्उअन् + आ [**श्वयुवमघोनामतद्धिते** (6.4.133) इति श्वन्-इत्यस्य सम्प्रसारणम् । वकारस्य सम्प्रसारणमुकारः। ] → श्उन + आ [**सम्प्रसारणाच्च** (6.1.108) इति उकार-अकारयोः एकः पूर्वरूपः उकारः] → शुना । 2) युवन् शब्दस्य चतुर्थी-एकवचनस्य रूपसिद्धौ - युवन् + ङे [चतुर्थ्येकवचनस्य प्रत्ययः] → य् उ व् अ न् + ए [अत्र यकारः तथा वकारः द्वौ यण्-वर्णौ स्तः । एतयोः वकारः प्रत्ययस्य निकटतरः, अतः अग्रिमसूत्रेण तस्य सम्प्रसारणम् भवति ।] → य् उ उ अ न् + ए [**श्वयुवमघोनामतद्धिते** (6.4.133) इति सम्प्रसारणम् । वकारस्य सम्प्रसारणमुकारः। अग्रे पुनः यकारस्य सम्प्रसारणम् **न सम्प्रसारणे सम्प्रसारणम्** (6.1.37) इत्यनेन निषिध्यते ।] → य् उ उ न् ए [**सम्प्रसारणाच्च** (6.1.108) इति उकार-अकारयोः एकः पूर्वरूपः उकारः ] → यूने [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः] 3) मघवन्-शब्दस्य षष्ठी-एकवचनस्य रूपसिद्धौ- → मघवन् + ङस् [षष्ठी-एकवचनस्य प्रत्ययः] → मघउअन् + अस् [**श्वयुवमघोनामतद्धिते** (6.4.133) इति सम्प्रसारणम् । वकारस्य सम्प्रसारणमुकारः। ] → मघउन् + अस् [**सम्प्रसारणाच्च** (6.1.108) इति उकार-अकारयोः एकः पूर्वरूपः उकारः ] → मघोनः [**आद्गुणः** (6.1.87) इति गुण-एकादेशः] इदम् सम्प्रसारणम् तद्धितप्रत्यये परे न भवतीति स्मर्तव्यम् । यथा - 1. 'अतिक्रान्तः श्वानम्' (surpasses a dog in certain quality, e.g. speed of running) अस्मिन् अर्थे इत्यनेन प्रादिसमासे कृते **अतेः शुनः** (5.4.96) इत्यनेन 'टच्' इति समासान्तप्रत्ययः भवति । अग्रे 'अति + श्वन् + टच्' इति स्थिते **नस्तद्धिते** (6.4.144) इत्यनेन टिलोपं कृत्वा 'अतिश्व' इति शब्दः सिद्ध्यति । अत्र 'टच्' इति प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अत्र वर्तमानसूत्रेण सम्प्रसारणं न भवति । 2. 'यूनः भावः' इत्यस्मिन् अर्थे **हायनान्तयुवादिभ्योऽण्** (5.1.130) इत्यनेन युवन्-शब्दस्य अण् प्रत्ययः भवति । युवन् + अण् इति स्थिते **तद्धितेष्वचामादेः** (7.2.117) इत्यनेन आदिवृद्धिं कृत्वा 'यौवन' इति रूपं सिद्ध्यति । अत्र सम्प्रसारणम् न भवति, यतः अण्-इति तद्धितप्रत्ययः अस्ति । 3. **साऽस्य देवता** (4.2.24) अस्मिन् अर्थे मघवन् शब्दस्य अण प्रत्ययः भवति । मघवन् + अण् इति स्थिते **तद्धितेष्वचामादेः** (7.2.117) इत्यनेन आदिवृद्धिं कृत्वा 'माघवन' इति रूपं सिद्ध्यति । अत्र सम्प्रसारणम् न भवति, यतः अण्-इति तद्धितप्रत्ययः अस्ति । ज्ञातव्यम् - अस्मिन् सूत्रे **अल्लोपोऽनः** (6.4.134) इति-अग्रिमसूत्रात् 'अनः' इत्यस्य अपकर्षः अपि क्रियते । 'अन्-येषामन्ते, तादृशानाम् श्वन् , युवन्, मधवन् एतेषाम् शब्दानाम् एव सम्प्रसारणम् भवति' इति तस्य अर्थः भवति । एतादृशम् सम्प्रसारणम् 'युवती, मघवती' एतादृशानाम् शब्दानाम् विषये मा भूत्, एतत् स्पष्टीकर्तुमयमपकर्षः स्थाप्यते । Sutrartha (English) ------------------- The भसंज्ञक अङ्ग of श्वन् , युवन् and मघवन् undergoes सम्प्रसारणम् when followed by a प्रत्यय which is not a तद्धितप्रत्यय. Vasu English Summary -------------------- The व of 1. श्वन् 2. युवन् and 3. मधवन् becomes vocalised, but not before a तद्धित affix. Vasu English Translation ------------------------ The व of 1. श्वन् 2. युवन् and 3. मधवन् becomes vocalised, but not before a तद्धित affix. Thus शुनः, शुना, शुने, यूनः, यूना, यूने, मघोनः, मघोना, मघोने ॥ But शौवनं मांसम्, यौवनं वर्त्तते, माघवनः स्थालीपाकः with *Taddhita* affixes. शौवन is formed by अञ् affix (4.3.154) and औ being added by (7.3.4) as श्वन belongs *dvaradi* class. This vocalisation takes place of the nouns ending in न्, but not when they become feminine or do not end in न्, as युवतीः पश्य, मघवतः, मघवते, मघवता ॥ The word अनः of the next *sutra*, in a way, qualifies this *sutra* also. Bhashya ------- श्वयुवमघोनामतद्धिते (3131) (6604 पूर्वपक्षिण उपसंख्यानवार्तिकम् ॥ 1 ॥) - श्वादीनां संप्रसारणे नकारान्तग्रहणमनकारान्तप्रतिषेधार्थम् - श्वादीनां संप्रसारणे नकारान्तग्रहणं कर्तव्यम् । किं कारणम् ? अनकारान्तस्य मा भूत् । मघवता, मघवते ॥ तथा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीति यथेह भवति - यूनः पश्येति, एवं युवतीः पश्येत्यत्रापि स्यादिति ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) यत्तावदुच्यते - नकारान्तग्रहणं कर्तव्यमिति । न कर्तव्यम् ॥ (6605 आनर्थक्यसाधकवार्तिकम् ॥ 2 ॥) - उक्तं वा - किमुक्तम् ? उक्तमेतत् अर्वणस्तृ मघोनश्च न शिष्यं छान्दसं हि तत् । इति । यदप्युच्यते - तथा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति यथेह भवति यूनः पश्यति, एवं युवतीः पश्येत्यत्रापि स्यात् इति । लिङ्गविशिष्टग्रहणे चोक्तम् । ।न वा विभक्तौ लिङ्गविशिष्टाग्रहणात् इति ॥ अथवा - उपरिष्टाद्योगविभागः करिष्यते - श्वयुवमघोनामतद्धिते अल्लोपः, अकारस्य च लोपो भवति । ततः - अनः इत्युभयोः शेषः ॥ Kashika ------- श्वन् युवन् मघवन् इत्येतेषामङ्गानामतद्धिते प्रत्यये परतः संप्रसारणं भवति। शुनः। शुना। शुने। यूनः। यूना। यूने। मघोनः। मघोना। मघोने। अतद्धित इति किम्? शौवनं मांसम्। यौवनं वर्तते। माघवनः स्थालीपाकः। शुनो विकारे **प्राणिरजतादिभ्योऽञ्** (४.३.१५४), द्वारादित्वाद् (७.३.४) ऐजागमः। श्वादीनामेतत् संप्रसारणं नकारान्तानामिष्यते। इह न भवति — युवतीः पश्य। मघवतः। मघवता। मघवते। तदर्थमुत्तरत्र योगविभागं कुर्वन्ति। अल्लोपः। अनः। अन इत्युभयोः शेष इति॥ Siddhanta Kaumudi ----------------- अन्नन्तानां भसंज्ञकानामेषामतद्धिते परे संप्रसारणं स्यात् । संप्रसारणाच्च (SK330) । आद्गुणः (SK69) । मघोनः । अन्नन्तानां किम् । मघवतः । मघवता । स्त्रियां मघवती । अतद्धिते किम् । माघवनम् । मघोना । मघवभ्यामित्यादि । शुनः । शुना । श्वभ्यामित्यादि । युवन् शब्दे वस्योत्वे कृते ॥ Laghu Siddhanta Kaumudi ----------------------- अन्नन्तानां भानामेषामतद्धिते संप्रसारणम्। मघोनः। मघवभ्याम्। एवं श्वन्, युवन्॥ Balamanorama ------------ **श्वयुवमघोनामतद्धिते** - शसादावचि मघवन् अस् इत्यादि स्थिते 'अल्लोपोऽनः' इति प्राप्ते-आयुवमघोनाम् । आआ च, युवा च, मघवा चेति द्वन्द्वः ।वसोः संप्रसारण॑मित्यतः संप्रसारणमित्यनुवर्तते ।भस्ये॑त्यधिकृतम् । 'अल्लोपोऽनः' इत्यतोऽन इत्यपकृष्यते । तच्च आयुवमघोनां प्रत्येकं विशेषणं, तदन्तविधिः । फलितमाह — अन्नन्तानामित्यादि ।इग्यणः संप्रसारणम् इति वकारस्य संप्रसारणमुकारः । मथ उ अन् इति स्थिते पूर्वरूपमुक्तं स्मारयति — संप्रसारणाच्चेति । णघ उ न् इति स्थिते गुणं स्मारयति — आद्गुण इति । अन्नन्तानां किमिति । आयुवमघोनामन्नन्तत्वाऽव्यभिचारात्किमर्थमन्नन्तत्वविशेषणम् । मघवन्शब्दे नकारस्य त्रादेशपक्षेऽपि एकदेशविकृतस्यानन्यतयाऽन्नन्तत्वसत्त्वादिति प्रश्नः । मघवत इति । त्रादेशपक्षे मघवन्शब्दे संप्रसारणनिवृत्त्यर्थमन्नन्तत्वविशेषणम् । यद्यप्येकदेशविकृतस्यानन्यतया अन्नन्तत्वमस्त्येव, तथापि विशेषणसामर्थ्यात् श्रूयमाणनकारान्तस्यैव संप्रसारणमित्याहुः । स्त्रियां मघवतीति । मघवतः स्त्री मघवती, पुंयोगेन स्त्रियां वृत्तौउगितश्चे॑ति ङीप् । अत्राप्यन्नन्तत्वविशेषणान्न संप्रसारणमिति भावः । अत्रउगिदचा॑मिति नुम् तु न, ङ#ईपा व्यवधानेन तान्तस्य उगितः सर्वनामस्थानपरकत्वाऽभावात् । लिङ्गविशिष्टपरिभाषा तु नेह प्रवर्तते, विभक्तौ लिङ्गविशिष्टाऽग्रहणमित्युक्तेरिति भावः । माघवनमिति । 'साऽस्य देवता' इति मघवन्शब्दादणि आदिवृद्धिः । अत्राऽणस्तद्धितत्वात्तस्मिन् परे न संप्रसारणमिति भावः । मघवभ्यामिति । भ्यामादौ हलि नलोप इति भावः । इत्यादीति । मघोने । मघोनः २ । मघोनोः । मघोनाम् । मघोनि । आन्शब्दः प्रायेण राजवत् । शसादावचिआउयुवे॑ति संप्रसारणं वकारस्य उकारः । शु अन् इति स्थितेसंप्रसारणाच्चे॑ति पूर्वरूपमिति मत्वाह-शुनः शुनेति । इत्यादीति । शुने । शुनः २ । शुनोः । शुनाम् । शुनि । युवन्शब्दोऽपि प्रायेण राजवत् । शसादावचि विशेषमाह-युवन्शब्द इति । युवन् अस् इत्यादिस्थितेआयुवे॑ति वकारस्य संप्रसारणे उकारे यु उ अन् इति स्थितेसंप्रसारणांच्चे॑ति पूर्वरूपे यु उ न् इति स्थिते सवर्णदीर्घे यून इत्यादिरूपेषु सिद्धेषु यकारस्यापि संप्रसारणे प्राप्त इत्यर्थः । लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरित्यस्य तु नायं विषयः, कार्याश्रयवर्णभेदेन लक्ष्यभेदात् । अन्यथा संस्कर्तेत्यादौअनचि चे॑त्यादेरसकृत्प्रवृत्त्यनुपपत्तेरितिभावः । Tattvabodhini ------------- **श्वयुवमघोनामतद्धिते** - आयुव ।अल्लोपोऽनः॑इत्यतो — ऽन॑ इत्यपकृष्य व्याचष्ट#ए — अन्नन्तनामिति । अन्नन्तानां किं । मघवत इति । यद्यपि नस्य तादेशेऽप्येकदेशविकृतस्याऽनन्यत्वादन्नन्तताऽत्रास्त्येव, तथापि विशेषणसामर्थ्यच्छ्रयमाणनकारान्तस्यैव संप्रसारणं न त्वत्रेत्याहुः । वार्तिककृता तुआआदीनां संप्रसारणे नकारान्तग्रहणमनकारान्तप्रतिषेधार्थ॑मित्यक्तम् । नन्वेवमपिअल्लोपोऽनः॑इत्यल्लोपो दुर्वार इति चान्मैवम्, भाष्यकृता पुर्वोक्तवार्तिकमत्रानुवत्र्यअल्लोपोऽनः, नकाकान्तस्यैवे॑तिव्याख्यातत्वात् । एतच्चऋलृ॑गिति सूत्रे भाष्ये स्पष्टम् । एतेन॒बहुधीवरी॒॑राजकीय॑मित्यत्राऽप्यल्लोपाऽभावः सिद्धः ।वनो र च॒॑राज्ञः क चे॑त्यादेशे कृते चकारान्तत्वाऽभावात् । स्त्रिया मघवतीति । मधवती मघवत्यौ । मघवत्य इत्यत्र लिङ्गविशिष्टपरिभाषायाउगिदचा॑मिति नुम्न शङ्क्यः,विभक्तौ लिङ्गविशिष्टाऽग्रहणा॑दित्याहुः । Padamanjari ----------- शौवमिति । नस्तद्धिते इति टिलोपः । यौवनमिति । यूनो भाव इति हायनान्तयुवादिभ्योऽण्, अन् इति प्रकृतिभावः । मघवा देवतास्य माघवनः । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणाद् युवतिशब्दस्यापि सम्प्रसारणप्रसङ्गः, तथा मघवत इत्यादौ मघवा बहुलम् इति त्रादेशो कृते थएकदेशविकृतस्यानन्यत्वात्प्रसङ्गः इत्याह - 'स्वादीनामित्यादि । कथमेतल्लभ्यते इत्याह - एतदथमिति । अन इत्युभयोः शेष इति । न त्वनन्तरस्यैव, योगविभागसामर्थ्यात् । न चैषमपि मघवतेत्यादावेकदेशविकृतस्यानन्यत्वात्प्रसङ्गः, सामान्यातिदेशे विशेषानतिदेशात् ॥ Nyaas ----- `यूनः` इति। सम्प्रसारणे कृते परपूर्वत्वे च सवर्णदीर्घत्वम्। `शौवम्` इति। **नस्तद्धिते** (6.4.144) इति टिलोपः। `यौवनम्` इति। यूनो भाव इति **हायनान्तयुवादिभ्योऽण्** (5.1.130) इत्यण्, `अन्` (6.4.167) इति प्रकृतिभावात्? `टेः` (6.4.143) इति टिलोपाल्लोपौ न भवतः। `माघवनम्` इति -मघवा देवताऽस्येति **सास्य देवता** (4.2.24) इत्यण्, पूर्ववत्प्रकृतिभावः। `शौवम्` इत्येतद्व्युत्पादयितुमाह -`शुनो विकारः` इत्यादि। युवशब्दस्य तिप्रत्ययान्तस्यापि `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्` (व्या।प।29) इति सम्प्रसारणं प्राप्नोति। मधवन्नित्यस्यापि त्रित्यादेशे कृते `एकदेशविकृतमनन्यवद्भवति` (व्या।प।16) इति तकारान्तस्यापि प्राप्नोति। तत्? कथं न भवति? इत्याह -`आआदीनाम्` इत्यादि। `तदर्थम्` इति। नकारान्तानामेव यथा स्यात्, अनकारान्तानां मा भूदित्येवमर्थम्। `अन इत्युभयोः शेषः` इति। अन इत्यस्योभयोर्योगयोः शेषत्वेऽवयवत्वे सत्यन इत्यनेन सम्प्रसारणशेषस्यातिदेश इति न भवति॥ Prakriyasarvasvam ----------------- भसंज्ञानामन्नन्तानामेषामतद्धिते परे प्रसारणं स्यात् । शुनी । मघोनी ।। Sudha ----- श्वयुवेति । **वसोः सम्प्रसारणम्**(6.4.131) इत्यतः सम्प्रसारणमित्यनुवर्तते । **भस्य**(6.4.129) इत्यधिकृतम् । **अल्लोपोऽनः**(6.4.134) इत्यतः अनः इत्यपकृप्यते । तच्च श्वयुवमघोनां प्रत्येकं विशेषणम्, तदन्तविधिः, तदाह - अन्नन्तानामित्यादिना । मघोनः । 'मघवन् अस्' अत्र **यचि भम्**(1.4.18) इति भसंज्ञायाम् **श्वयुवमघोनामतद्धिते**(6.4.133) इति सम्प्रसारणे यणो -वकारस्य, इकउकारे जाते 'मघ उ अ न् अस्' इति स्थिते **सम्प्रसारणाच्च**(6.1.108) इति पूर्वपरयोः स्थाने पूर्वरूपैकादेशे **आद्गुणः**(6.1.87) इति गुणे सस्य रुत्वे तस्य विसर्गत्वे च 'मघोनः' इति रूपम् । टायाम् - मघोना इति । मघवभ्याम । मघवन् + भ्याम् अत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसंज्ञायाम् **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नलोपे 'मघवभ्याम्' इति रूपम् । मघोने । मघोनः । मघोनोः । मघोनाम् । मघोनि । एवं श्वन्युवन् इति । श्वा, श्वानौ, श्वानः । हे श्वन् । श्वानम्, श्वानौ, शसादावचि **श्वयुवमघोनामतद्धिते**(6.4.133) इति सम्प्रसारण वकारस्य उकारः । शु + अन् इति स्थिते **सम्प्रसारणाच्च**(6.1.108) इति पूर्वरूपे 'शुनः' इति । शुना, श्वभ्याम्,श्वभिः । शुने । शुनः शुनोः शुनाम् । शुनि । इत्यादि । युवा, युवानौ, युवानः । हे युवन् । युवानम्, युवानौ । यूनः 'युवन् शस्' अत्र शकारस्येत्संज्ञायां लोपे च **यचि भम्**(1.4.18) इति भसज्ञायां **श्वयुवमघोनामतद्धिते**(6.4.133) इति वकारस्य सम्प्रसारणे **सम्प्रसारणाच्च**(6.1.108) इति पुर्वरूपैकादेशे 'यु + उन् अस्' इति जाते यकारस्यापि **श्वयुवमघोनामतद्धिते**(6.4.133) इति सम्प्रसारणे प्राप्ते **न सम्प्रसारणे सम्प्रसारणम्**(6.1.37) इति निषेधे सवणदीर्घे च कृते रुत्वविसर्गयोश्च सतोः 'यूनः' इति रूपम् । एवं यूना इत्यादावपि बोध्यम् । युवभ्याम् । युवन् + भ्याम् अत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसंज्ञायां **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नलोपे 'युवभ्याम्' इति रूपम् । इत्यादीति । यूने । यूनः । यूनोः । यूनाम् । यूनि । अर्वा । 'अर्वन् + सु अत्र सोरुकारे गते **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति स् लोपे **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नान्तोपधायाः दीर्घत्वे **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नलोपे 'अर्वा' इति रूपम् । हे अर्वन् । 'हे अर्वन् + सु' अत्र सोरुकारे गते **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति स् लोपे जाते **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नलोपे प्राप्ते **न ङिसम्बुद्ध्योः**(8.2.8) इति निषिद्धे 'हे अर्वन्' इति रूपम् । Sutra Prayogas -------------- * **मध्यासितां** (भट्टिकाव्यम्): `श्वयुव- मघोनाम्` इति संप्रसारणम् ॥