64119: घ्वसोरेद्धावभ्यासलोपश्च ============================== **Padacheda:** घु-असोः | S | 6 | 2 | एत् | S | 1 | 1 | हौ | S | 7 | 1 | अभ्यासलोपः | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **'हि' प्रत्यये परे घु-संज्ञकधातूनामङ्गस्य तथा अस्-धातोः एकारादेशः भवति, तथा अभ्यासस्य लोपः भवति ।** किम् नाम घु? **दाधा घ्वदाप्** (1.1.20) इत्यनेन डुदाञ् (दाने), दाण् (दाने), दो (अवखण्डने), देङ् (रक्षणे), डुधाञ् (धारणपोषणयोः), तथा धेट् (पाने) एतेषाम् षण्णाम् 'घु'संज्ञा भवति । एतेषाम् तथा अदादिगणस्य अस्-धातोः लोट्लकारस्य हि-प्रत्यये परे एकारादेशः भवति । तथा च, डुदाञ् (दाने) तथा डुधाञ् (धारणपोषणयोः) एतौ जुहोत्यादिगणस्य धातू स्तः, अतः एतेषां विषये प्राप्तस्य अभ्यासस्य अपि अनेन सूत्रेण लोपः भवति । यथा - 1. दा-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया - दा + लोट् [**लोट् च** (3.3.162) इति लोट्] → दा + सिप् [**तिप्तस्..** (3.4.78) इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → दा + शप् + सिप् [**कर्तरि शप्** (3.1.68) इति शप्] → दा + सिप् [**जुहित्यादिभ्यः श्लुः** (2.4.75) इति श्लुः] → दा दा + सिप् [**श्लौ** (6.1.10) इति द्वित्वम्] → द दा + सिप् [**ह्रस्वः** (7.4.59) इति ह्रस्वः] → द दा + हि [**सेह्यर्पिच्च** (3.4.87) इति सि-इत्यस्य अपित् हि-आदेशः ] → देहि [**घ्वसोरेद्धावभ्यासलोपश्च** (6.4.119) इत्यनेन आकारस्य एकारादेशः, तथा अभ्यासस्य लोपः] 2. अस्-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया - अस् + लोट् [**लोट् च** (3.3.162) इति लोट्] → अस् + सिप् [**तिप्तस्..** (3.4.78) इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → अस् + शप् + सि [**कर्तरि शप्** (3.1.68) इति शप्] → अस् + सि [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्] → अस् + हि [**सेह्यर्पिच्च** (3.4.87) इति सिप्-प्रत्ययस्य अपित् हि-आदेशः । **सार्वधातुकमपित्** (1.2.4) इति ङित्वद्भावः] → अ ए + हि [**घ्वसोरेद्धावभ्यासलोपश्च** (6.4.119) इति अस्-धातोः सकारस्य एकारः] → ए + हि [**श्नसोरल्लोपः** (6.4.111) इति सार्वधातुके ङित्-प्रत्यये परे अकारलोपः] → ए + धि [**असिद्धवदत्राभात्** (6.4.22) इत्यस्मिन् अधिकारे **घ्वसोरेद्धावभ्यासलोपश्च** (6.4.119) इत्यनेन कृतः एकारादेशः **हुझल्भ्यो हेर्धिः** (6.4.101) इत्यनेन न दृश्यते । अतः **हुझल्भ्यो हेर्धिः** (6.4.101) इत्यस्य कृते 'स् + हि' इत्येव स्थितिः अस्ति । अस्याम् स्थितौ झल्-वर्णात् परस्य हि-इत्यस्य अनेन सूत्रेण धि-आदेशः भवति ।] → एधि Sutrartha (English) ------------------- The घु-संज्ञक verb roots and the verb root अस् get an एकार as आदेश when followed by the 'हि' प्रत्यय. Also, अभ्यास, if present, is removed. Vasu English Summary -------------------- For the final vowel of the roots दा and धा (धु) and for the स् of अस् , is substituted ए before the Imperative ending हि and thereby the reduplicated syllable of दा and धा (धु) is elided. Vasu English Translation ------------------------ For the final vowel of the roots दा and धा (धु) and for the स् of अस् , is substituted ए before the Imperative ending हि and thereby the reduplicated syllable of दा and धा (धु) is elided. Thus देहि, and धेहि, of घु, and एधि of अस्, the स being elided by this *sutra*, and अ being elided by (6.4.111). This लोप of the present *sutra* should be considered as having an indicatory श् so that the whole of the reduplicated and not only the final letter of the *abhyasa* (1.1.55) is elided. Kashika ------- घुसंज्ञकानामङ्गानामस्तेश्च एकारादेशो भवति हौ परतोऽभ्यासलोपश्च। देहि। धेहि। अस्तेः — **श्नसोरल्लोपः** (६.४.१११) इत्यकारलोपः। एधि। शिदयं लोपः। तेन सर्वस्याभ्यासस्य भवति॥ Siddhanta Kaumudi ----------------- घोरस्तेश्चैत्वं स्याद्धौ परेऽभ्यासलोपश्च । आभीयत्वेनैत्वास्यासिद्धत्वाद्धेर्धिः । श्नसोरल्लोपः-(SK2469)इत्यल्लोपः । एधि । तातङ्पक्षे एत्वं न । परेण तातङा बाधात् । [(परिभाषा - ) सकृद्गताविति न्यायात्] । स्तात् । स्तम् । स्त । असानि । असाव । असाम । अस्तिसिच-(SK2225)इतीट् । आसीत् । श्नसो-(SK2469) इत्यल्लोपस्याभीयत्वेनासिद्धत्वादाट् । आस्ताम् । आसन् । स्यात् । भूयात् । अभूत् । सिचोऽस्तेश्च विद्यमानत्वेन विशेषणादीण्न ॥ Laghu Siddhanta Kaumudi ----------------------- घोरस्तेश्च एत्त्वं स्याद्धौ परे अभ्यासलोपश्च। एत्त्वस्यासिद्धत्वाद्धेर्धिः। श्नसोरित्यल्लोपः। तातङ्पक्षे एत्त्वं न, परेण तातङा बाधात्। एधि, स्तात्। स्तम्। स्त। असानि। असाव। असाम। आसीत्। आस्ताम्। आसन्। स्यात्। स्याताम्। स्युः। भूयात्। अभूत्। अभविष्यत्॥ {$ {! 18 इण् !} गतौ $} (धातुपाठे (02.0040)) ॥ एति। इतः॥ Tattvabodhini ------------- **घ्वसोरेद्धावभ्यासलोपश्च** - घ्वसोरेद्धा । एत्वमलोन्त्यस्य, लोपस्तु शित्त्वात्सर्वस्येति भाष्यादौ स्पष्टम् । देहि । धेहि । असिद्धत्वादाडिति । नन्वेवमाटोऽसिद्धत्वात्श्नसो॑रित्यल्लोपो न भवेदिति तपरकरणं तत्र व्यर्थमिति चेत्, अत्राहुः — आभाच्छास्त्रस्याऽनित्यताज्ञापनाय तपरकरणम् । तेनदेभतु॑रित्यादि सिद्धमिति । स्यादेतत् — अत्र केचित् — अद्ग्रहणस्य निष्फलत्वे तपरकरणस्य ज्ञापनार्थत्वं न सिध्येत् । न चअत उ॑दिति सूत्रस्थतपरकररणमेव ज्ञापनार्थमस्त्विति वाच्यम्, अस्येत्युक्तौ गौरवादद्र्धमात्रालाघवाय तत्र तपरत्वमिति सुवचत्वात् । तस्मादुक्तज्ञापनार्थमद्ग्रहणमावश्यकमित्याहुः । Nyaas ----- `अभ्यासलोपश्च` इति धुसंज्ञकार्थमभ्यासलोपग्रहणम्; न त्वस्त्यर्थम्; अस्तेरभ्यासम्भवात्। `देहि चेहि` इति। दाञ्धाञोरेते रूपे। अन्येषान्तु घुसंज्ञकानामुदाहरणं न सम्भवति; विकरणेन हेव्र्यवधानात्। असम्भवाच्च यथायोगम्। तत्र `दो` इत्येतस्य श्यना हिशब्दो व्यवधीयते, दणो धेटस्तु शापा, देङः पुनरात्मनेपदित्वाद हेरसम्भवः। `एधि` इति। सकारस्यैत्त्वे कृते तस्यासिद्धत्वात्? `हुझलभ्यो हेर्धिः (6.4.101) इति धिभावः। ननु च **अलोऽन्त्यस्य** (1.1.52) इत्यलामन्त्यस्य लोपेन भवितव्यम्, तत्? कथं सर्वस्याभ्यासस्य लोपो भवति? इत्यत आह -`शिदयम्` इत्यादि। `लोपश्च` इत्यत्र द्वौ शकारौ निर्दिष्टौ। तत्रैको लोपस्य समबन्धी, द्वितीयस्तु विभक्तेः। यश्च लोपस्य सम्बन्धी तस्येत्संज्ञा प्रतिज्ञायत इति शिदयं लोपो भवति। तेन सर्वस्याभ्यासस्थ लोपो भवति। `आ च हौ` (6.4.117) इत्यतो होग्रहणं मण्डूकप्लुतिन्यायेन शक्यतेऽनुवर्तयुतुम्। तत्रन्यतरस्यांग्रहणेन सम्बद्धमिति तदनुवृत्तौ `अन्यतरस्याम्` इत्येतस्याप्यनुवृत्तिरित्याशङ्का स्यात्, अतस्तन्निवृत्त्यर्थं `हौ` इत्युक्तम्। चकारस्य सन्नियोगर्थत्वाल्लोपो भवत्येत्त्वञ्च॥ Prakriyasarvasvam ----------------- घोरस्तेश्च हौ पर एत्वं स्यात्, घोरभ्यासलोपश्च । ए हि । ‘असिद्धवदत्र—’ इति एत्वस्यासिद्ध्या झल्त्वेन ‘हुझल्भ्यो हेर्धिः’ । एधि, स्तात् । स्तम् । स्त आट् । असानि । असाव । लङि ‘अस्तिसिच—’ इतीट्¹ । आट्वृद्धी । आसीत् । ङित्सु श्नसोरल्लोपस्याभीयत्वेनासिद्धत्वादाट् । आस्ताम् । आसन् । आसीः । आस्तम् । आस्त । आसम् । आस्व । भावे लुङादौ च, Sutra Prayogas -------------- * **देहि** (भट्टिकाव्यम्): `घ्वसोरेद्धावभ्यासलोपश्च` इत्येत्वम् । * **एधि** (भट्टिकाव्यम्): `घ्वसोरेद्धावभ्यासलोपश्च` इति एत्वमभ्यासलोपश्च। * **धेहि** (भट्टिकाव्यम्): `घ्वसोरेद्धावभ्यासलोपश्च` इति एत्वमभ्यासलोपश्च।