64116: जहातेश्च =============== **Padacheda:** जहातेः | S | 6 | 1 | च | S | 0 | 0 | Sutrartha --------- **हा-धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे विकल्पेन ह्रस्व-इकारादेशः भवति ।** ओहाक् (त्यागे) इति जुहोत्यादिगणस्य धातुः । अस्य धातोः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे **ई हल्यघोः** (6.4.113) इत्यनेन ईकारादेशः विधीयते । तं विकल्पेन बाधित्वा वर्तमानसूत्रेण ह्रस्व-इकारादेशः अपि भवति । यथा, अस्य लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् - हा + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → हा + तस् [**तिप्तस्..** (3.4.78) इति तस् । **सार्वधातुकमपित्** (1.2.4) इति ङित्-वत् भावः] → हा + शप् + तस् [**कर्तरि शप्** (3.1.68) इति शप्] → हा + तस् [**जुहोत्यादिभ्यः श्लुः** (2.4.75) इति श्लुः] → हा हअ + तस् [**श्लौ** (6.4.10) इति द्वित्वम्] → ह हा + तस् [**ह्रस्वः** (7.4.59) इति ह्रस्वः] → झ हा + तस् [**कुहोश्चुः** (7.4.62) इत्यनेन संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः] → झ हि + तस् / झ ही तस् [**जहातेश्च** (6.4.116) इति वैकल्पिकः ह्रस्व-इकारादेशः । तदभावात् **ई हल्यघोः** (6.4.113) इत्यनेन ईकारादेशः] → झहितः / झहीतः [विसर्गनिर्माणम्] → जहितः / जहीतः [**अभ्यासे चर्च्च** (8.4.54) इति जश्त्वम्] आर्धधातुके प्रत्यये परे अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'हा' धातोः कर्मणि लट्लकारस्य प्रथमपुरुषैकवचनम् 'हीयते' इति भवति । अत्र 'यक्' इति कित्-आर्धधातुकप्रत्ययः अस्ति, अतः अत्र ह्रस्व-इकारादेशः न भवति । केवलं **घुमास्थागापाजहातिसां हलि** (6.4.66) इत्यनेन दीर्घादेशे कृते रूपं सिद्ध्यति । Sutrartha (English) ------------------- The verb root 'हा' is converted to ह्रस्व-इकार when followed by हलादि-सार्वधातुक कित्/ङित्-प्रत्यय. Vasu English Summary -------------------- इ is optionally substituted for the आ of हा (जुहोत्यादिगणः (3rd Conjugation)) before a सार्वधातुक affix कित् or ङित् beginning with a consonant. Vasu English Translation ------------------------ इ is optionally substituted for the आ of हा (जुहोत्यादिगणः (3rd Conjugation)) before a सार्वधातुक affix कित् or ङित् beginning with a consonant. Thus जहितः or जहीतः (6.4.113) जहिथः or जहीथः (6.4.113). But जहति before a vowel affix, and जहाति before a non-ङित् affix, an हीयते and जिहीयते before an *ardhadhatuka*. The separation of this *sutra* from the last, is for the sake of subsequent aphorisms. Kashika ------- जहातेश्चेकारादेशो भवत्यन्यतरस्यां हलादौ क्ङिति सार्वधातुके परतः। जहितः, जहीतः। जहिथः, जहीथः। हलादावित्येव — जहति। क्ङितीत्येव — जहाति। सार्वधातुक इत्येव — हीयते। जेहीयते। पृथग्योगकरणमुत्तरार्थम्॥ Siddhanta Kaumudi ----------------- इत्स्याद्वा हलादौ क्ङिति सार्वधातुके । पक्षे ईत्वम् । जहितः । जहीतः । जहति । जहौ ॥ Laghu Siddhanta Kaumudi ----------------------- इद्वा स्याद्धलादौ क्ङिति सार्वधातुके। जहितः॥ Balamanorama ------------ **जहातेश्च** - जहातेश्च ।इद्दरिद्रस्ये॑त्यत इदिति,भियोऽन्यतरस्या॑मित्यतो हलीति चत्यभिप्रेत्य शेषं पूरयति — इत्स्याद्वेति । जहतीति । अब्यस्तत्वाददादेशेश्नाब्यस्तयो॑रित्याल्लोपः । जहाविति । जहतुः जहुः । जहिथ — जहाथ जहथुः दजह । जहौ जहिव जहिम । हाता । हास्यति । जहितादिति । जहिताम् — जहीताम् जहतु । Tattvabodhini ------------- **जहातेश्च** - जहातेश्च । क्ङितीति किम् । जहाति । सार्वधातुके किम् । हीयते । Padamanjari ----------- अत्रापि न सार्वधातुके त्यिस्योपयोगः, अत एवास्य प्रत्युदाहरणं न प्रदर्शितम् । अभ्यस्तस्य इत्यनुवृतेरार्धधातुके न भविष्यति, लिडजादिः ॥ Nyaas ----- ईत्त्वापवाद इत्त्वमारभ्यते; अन्यतरस्यांग्रहणानुवृत्तेः। पक्षे तदपि भवत्येव। सार्वधातुक इत्येव -हीनः, हीनवान्। इह केचित्? `सार्वधातुके` (6.4.110) इत्यस्यानुवृतिंत प्रत्याचक्षते। कथम्? `हलि परत ईत्त्वेत्त्वे प्राप्नुतः, द्विर्वचनं च; तत्र यदि परत्वादीत्त्वेत्त्वे स्यातां ततश्चेवर्णन्तताभ्यासस्य स्यात्; तस्मादभ्यस्त ग्रहणमनुवर्तनीयम्, तस्मश्चानुवर्तमाने सार्वधातुकानुवृत्तिरपार्थिका` इति। एतच्चायुक्तम्; अन्तरङ्गत्वात्। `द्विर्वचनेनैव प्रागीत्त्वेत्त्वाभ्यां भवितव्यम्, तत्? कुतोऽभ्यासस्येवर्णान्तताप्रसङ्गः! अन्तरङ्गत्वन्तु द्विर्वचनस्याल्पापेक्षत्वात्। तद्धि श्लुमात्रमपेक्षते। इत्त्वेत्त्वयोश्च बह्वपेक्षत्वाद्बहिरङ्गता, बहवपेक्षा च; तयोः पुनरङ्गस्य हलादौ क्ङिति सार्वधातुके विधानात्। जहातेरिति निर्देशात्? जिहीत इत्यतद्र जिहातेर्न भवति। `पृथग्योगकरणमुत्तरार्थम्` इति। `आच हौ` (6.4.117) इत्येष विधिर्जहातेरेव यता स्यात्, बिभेतेर्मा भूदिति॥ Prakriyasarvasvam ----------------- हलादौ क्ङिति सार्वधातुके परे जहातेरिद्वा स्यात् । जहितः । Sutra Prayogas -------------- * **जहीहि** (भट्टिकाव्यम्): `जहातेश्च` इति इत्वे विकल्पिते। * **जहीहि** (भट्टिकाव्यम्): `ईत्वस्य जहातेश्व` इति वा वचनाद्विकल्पः। * **जहितो** (भट्टिकाव्यम्): `जहातेश्च` इतीत्वम्। * **जहीहि** (भट्टिकाव्यम्): `जहातेश्च` इत्यन्यतरस्यामित्वमीत्वं च।