64083: ओः सुपि¶
Padacheda: ओः | S | 6 | 1 |
सुपि | S | 7 | 1 |
Sutrartha¶
धात्वन्त-अनेकाच्-अङ्गस्य धातोः असंयोगपूर्वस्य उवर्णस्य अजादौ सुप्-प्रत्यये परे यणादेशः भवति ।
अस्य सूत्रस्य अर्थं किञ्चित् क्लिष्टः अस्ति, अतः क्रमेण पश्यामः - 1. अनेन सूत्रेण अजादि-सुप्-प्रत्यये परे यणादेशः प्रोक्तः अस्ति । 2. कस्य यणादेशः? अत्र स्थानी अस्ति ‘असंयोगपूर्वस्य ओः धातोः’ । ‘धातोः’ इति विशेष्यम्, ‘असंयोगपूर्वस्य’ तथा ‘ओः’ एते विशेषणे । 3. प्रथमं विशेषणमस्ति - ‘ओः’ इति । एतत् ‘उ’ इत्यस्य षष्ठी-एकवचनमस्ति । ‘ओः धातोः’ इत्युक्ते ‘उवर्णान्त-धातोः’ (येन विधिस्तदन्तस्य (1.1.72) )। 4. अलोऽन्त्यस्य (1.1.52) इत्यनेन अस्य उवर्णान्तधातोः ‘अन्तिमवर्णस्य’ ( = उवर्णस्य) यणादेशः भवतीति अर्थः जायते । 4. ‘धातोः’ अस्य द्वितीयम् विशेषणमत्र प्रयुक्तमस्ति - असंयोगपूर्वः । इत्युक्ते, सः धातुः यस्य अन्तिम-उवर्णात् पूर्वः संयोगः नास्ति । किम् नाम संयोगः? हलोऽनन्तराः संयोगः (1.1.7) इत्यनेन द्वयोः व्यञ्जनयोः स्वरं विना उच्चारणम् संयोगसंज्ञां प्राप्नोति। 5. अतः अत्र स्थानिनः वर्णनम् कथम् कृतमस्ति? सः धातुः यस्य अन्ते उकारः अस्ति, तथा यस्मिन् धातौ उकारात् पूर्वः संयोगः नास्ति । एतादृशस्य धातोः अन्तिम-इकारस्य स्थाने अजादि-सुप्-प्रत्यये परे यणादेशः भवति । 6. अयं स्थानी ‘अनेकाच्-अङ्गस्य’ भवेत् इति उक्तमस्ति । इयम् सम्बन्धषष्ठी । अतः अत्र वर्णितः धातुः अनेकाच्-अङ्गस्य अवयवः भवेत् इति आवश्यकम् । ‘अनेकाच्’ इत्युक्ते सः शब्दः यस्मिन् द्वौ वा अधिकाः स्वराः सन्ति । 7. पदाङ्गाधिकारे तस्य च तदन्तस्य च अनया परिभाषया ‘अनेकाचः अङ्गस्य धातोः’ इत्युक्ते ‘अनेकाच्-अङ्गस्य अन्ते विद्यमानस्य धातोः’ इति अर्थः निष्पद्यते । अतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - यत्र अङ्गमनेकाच् अस्ति, तत्र तस्य अङ्गस्य अन्ते यदि उवर्णान्तः असंयोगपूर्वः धातुः विद्यते, तर्हि तस्य धातोः उवर्णस्य अजादि सुप्-प्रत्यये परे यणादेशः भवति । उदाहरणानि एतानि - 1) ‘खलं पुनाति सः’ अस्मिन् अर्थे क्विप्-प्रत्ययं कृत्वा ‘खलपू’ इति शब्दः सिद्ध्यति । अस्य प्रथमाद्विवचनस्य औ-प्रत्यये परे अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन उवङ्-आदेशः आगच्छति । परन्तु अत्र अङ्गमनेकाच् तथा धात्वन्तमस्ति, तथा अस्य अन्ते विद्यमानः धातुः असंयोगपूर्वः उवर्णान्तः च अस्ति, अतः उवङ्-आदेशं बाधित्वा अत्र यणादेशः भवति , ततः च ‘खलप्वौ’ इति रूपं सिद्ध्यति । 2) ‘कटं प्रवति सः’ अस्मिन् अर्थे क्विप्-प्रत्ययं कृत्वा ‘कटप्रू’ इति शब्दः सिद्ध्यति । अस्य प्रथमाद्विवचनस्य औ-प्रत्यये परे अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन उवङ्-आदेशः आगच्छति । अत्र अङ्गमनेकाच् तथा धात्वन्तमस्ति, परन्तु अस्य अन्ते विद्यमानः धातुः संयोगपूर्वः अस्ति । अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः उवङ्-आदेशे कृते ‘कटप्रुवौ’ इत्येव रूपं सिद्ध्यति । 3) अस्मिन् सूत्रे ‘अचि’ इत्यस्य ‘सुपि’ इति विशेषणमस्ति । अतः अस्य सूत्रस्य प्रसक्तिः केवलं सुप्-प्रत्यये परे एव अस्ति, अन्येषु प्रत्ययेषु परेषु न । यथा, ‘लूञ्’ (छेदने) अस्य धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् एतादृशं सिद्ध्यति - लू + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → लू लू ल् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → लु लू ल् [ह्रस्वः (7.4.59) इति अभ्यासस्य ह्रस्वः] → लु लू तस् [तिप्तस्.. (3.4.78) इति प्रथमपुरुष-द्विवचनस्य प्रत्ययः तस्] → लु लू अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति तस्-इत्यस्य अतुस्-आदेशः] → लु ल् उवङ् अतुस् [अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन उवङ्-आदेशः] → लुलुवतुः अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!गतिकारकेतरपूर्वपदस्य यण् नेष्यते !> । इत्युक्ते, यदि अङ्गे विद्यमानम् पूर्वपदम् गतिसंज्ञकम् कारकसंज्ञकं वा नास्ति, तर्हि अयम् यणादेशः न भवति । यथा - 1. ‘सुष्ठु लूनाति सः’ इत्यर्थे ‘सुलू’ इति प्रातिपदिकम् सिद्ध्यति । अत्र पूर्वपदम् ‘सु’ इति गतिसंज्ञकमस्ति, अतः अत्र वर्तमानसूत्रेण यणादेशं कृत्वा ‘सुल्वौ’, ‘सुल्वः’ आदीनि रूपाणि सिद्ध्यन्ति । 2. ‘परमम् वृक्षम् लूनाति सः’ इत्यर्थे ‘परमलू’ इति प्रातिपदिकम् सिद्ध्यति । अत्र पूर्वपदम् ‘परम’ एतत् कारकसंज्ञकं अस्ति, यतः विग्रहवाक्ये एतत् कर्मकारकत्वं प्राप्नोति । अतः अत्रापि त वर्तमानसूत्रेण यणादेशं कृत्वा ‘परमल्वौ, ‘परमल्वः’ आदीनि रूपाणि सिद्ध्यन्ति । 3. ‘परमः च असौ लूः’ इत्यर्थे अपि ‘परमलू’ इति प्रातिपदिकं सिद्ध्यति । परन्तु अत्र परम-शब्दः गतिसंज्ञकः अपि नास्ति, तथा कारकसंज्ञः नास्ति, अतः अत्र अनेन सूत्रेण यद्यपि अङ्गमनेकाच् तथा असंयोगपूर्व-उवर्णान्त-धात्वन्तमस्ति, तथाप्यत्र यणादेशः न भवति । अतः अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन उवङ्-आदेशः एव जायते । यथा - परमलुवौ, परमलुवः ।
Sutrartha (English)¶
An उवर्ण occurring at end of an a असंयोगपूर्व धातु which in turn occurs at end of an अनेकाच् अङ्ग is converted to यण् letter when followed by a सुप् अजादिप्रत्यय.
Vasu English Summary¶
When a case-affix beginning with a vowel follows, then the semi-vowel व् is substituted for the final ऊ of a अङ्ग (stem) containing more than one syllable if the अङ्ग (stem) ends with a verbal root ending in ऊ not preceded by a conjunct consonant forming part of the root.
Vasu English Translation¶
When a case-affix beginning with a vowel follows, then the semi-vowel व् is substituted for the final ऊ of a अङ्ग (stem) containing more than one syllable if the अङ्ग (stem) ends with a verbal root ending in ऊ not preceded by a conjunct consonant forming part of the root. As no roots at the end of a stem end in short उ, the latter is not mentioned in the translation. Thus खलपू ‘a sweeper’:- dual खलप्वौ, plural खलप्वः; so also शतस्वौ and शतस्वः, and सकृल्लू : dual सकृल्ल्वौ and सकृल्ल्वः ॥ But लुलुवतुः and लुलुवः before tense-affixes, (non-सुप्); लू - लुवौ, लुवः (because consisting of one syllable only), and कटप्रू - कटप्रुवौ, कटप्रुवः (because ऊ is preceded by a conjunct consonant forming part of the root). The rule does not apply if the first member is not a Gati or a Karaka word: as परमलूः- परमलुवौ and परमलुवः ॥
Kashika¶
धात्ववयवः संयोगः पूर्वो यस्मादुवर्णाद् न भवति, तदन्तस्याङ्गस्यानेकाचोऽजादौ सुपि परतो यणादेशो भवति। खलप्वौ, खलप्वः। शतस्वौ, शतस्वः. सकृल्ल्वौ, सकृल्ल्वः। सुपीति किम्? लुलुवतुः, लुलुवुः। अनेकाच इत्येव — लुवौ, लुवः। असंयोगपूर्वस्येत्येव — कटप्रुवौ, कटप्रुवः। गतिकारकाभ्यामन्यपूर्वस्य नेष्यत इत्येव — परमलुवौ, परमलुवः॥
Siddhanta Kaumudi¶
धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्याऽनेकाचोऽङ्गस्य यण् स्यादजादौ सुपि ॥<!गतिकारकेतरपूर्वपदस्य यण्नेष्यते !> (वार्तिकम्) ॥ खलप्वौ । खलप्व इत्यादि । एवं सुल्वादयः । अनेकाचः किम् । लूः लुवौ । लुवः । धात्ववयवेति किम् । उल्लूः । उल्ल्वौ । उल्ल्वः । असंयोगपूर्वस्य किम् । कटप्रुवौ । कटप्रुवः । गतीत्यादि किम् । परमलुवौ । सुपि किम् । लुलुवतुः । स्वभूः । न भूसुधियोः (SK273) । स्वभुवौ । स्वभुवः । एवं स्वयम्भूः ॥
Laghu Siddhanta Kaumudi¶
धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादचि सुपि। खलप्वौ। खलप्वः। एवं सुल्वादयः॥ स्वभूः। स्वभुवौ। स्वभुवः॥ वर्षाभूः॥
Balamanorama¶
ओः सुपि - ओः सुपि । ‘एरनेकाचः’ इति सूत्रं, एरितिवर्जमनुवर्तते । ‘अचि श्नुधातु’ इत्यतोऽचीत्यनुवृत्तं । तेन सुपीति विशेष्यते । तदादिविधिः । ‘इणो य’ णित्यतो यणित्यनुवर्तते । तदाह — धात्ववयवेत्यादिना । गतिकारकेति । इदमपि वार्तिकमत्रानुवर्तते इति भावः । खलप्वौ खलप्व इति । कारकपूर्वकत्वादिह यणिति भावः । हे खलपूः । खलप्वम् खलप्वौ खलप्वः । खलप्वा । खलप्वे । खलप्वः । खलप्वः खलप्वोः । खलप्वि । इह अजादौ ‘एरनेकाचः’ इतिओः सुपी॑ति यण् च सर्वत्र पूर्वरूपसवर्णदीर्घापवादाः । एवं सुल्वादय इति । सुष्ठु लुनातीति सुलूः । गतिपूर्वकत्वादिहापि यण् । आदिना केदारलूरित्यादिसङ्ग्रहः । कटप्ररिति ।प्रुगतौ॑ ।क्विब्वची॑त्यादिना क्विप्, उकारस्य दीर्घश्च । परमलुवाविति । परमश्चासौ लूश्चेति विग्रहः । गतिकारकेतरपूर्वकत्वान्न यण् । लुलुवतुरिति । अतुसि लुलू इत्यस्याऽनेकाच्त्वेऽपि सुप्परकत्वाऽभावान्न यणिति भावः । स्वभूरिति । स्वस्माद्भवतीति क्विप् । कारकपूर्वकत्वाद्यणि प्राप्ते आह-न भूसुधियोरिति । वर्षासु भवति वर्षाभूः । वर्षर्तावुत्पन्न इत्यर्थः । वर्षशब्दो नित्यस्त्रीलिङ्गबहुवचनान्तः ।अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे॑ति लिङ्गानुशासने स्त्र्यधिकारे सूत्रकृतोक्तेः ।वर्षाभूर्ददुरे पुमान् इति यादवः ।न भूसुधियो॑रिति निषेधे प्राप्ते- ।
Tattvabodhini¶
ओः सुपि - ओः सुपि ।इणो यण्इत्यतो यण्,एरनेकाचः ॑इति सूत्रं च सर्वमनुवर्तते इवर्णवर्जम्,ओ॑रित्युकारस्य कार्यिणो निर्देशात् ।अचि श्नुधात्वि॑ति सूत्राद्धातुःएरनेकाचः॑इत्यत्रेव संवध्यत इत्याशयेन व्याचष्टे -धात्ववयवसंयोगेत्यादि ।
Padamanjari¶
सकृल्ल्वाविति । क्रियाविशेषणत्वात् सकृदित्यस्य कारकत्वम् । कटप्रुवाविति । क्विब्वचि इत्यादिना क्विप्, दीर्घश्च ॥
Nyaas¶
खलप्वौ इति। खलं पुनातीति अन्येभ्योऽपि दृश्यते (3.3.130) इति क्विप्। शतस्वौ इति। अत्रापि शतं सूत्र इति सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् (3.2.61) इत्यादिना क्विप्। सकृल्ल्वौ इति। तोर्लि (8.4.59) इति परसवर्णः। कटप्रुवौ इति। प्रूङ्? गतौ (धातुपाठः-957), [प्रुङ् -धातुपाठः-] क्विब्? वचप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणञ्च इति क्विप्, दीर्घत्वञ्च। ओः इति स्पष्टार्थम्। अनुकारान्तनिवृत्यर्थन्तु न युज्यते; `य्वोः इत्यनुवृत्तेः। इकारस्य च पूर्वेणैव सिद्धो यण् -उन्न्यौ; ग्रामण्याविति॥
Prakriyasarvasvam¶
धात्वंशसंयोगपूर्वत्वरहितोवर्णान्तस्यानेकाचोऽजादौ सुपि परे यण् स्यात् । कंसल्वौ कंसल्वः इति ग्रामणीवत् । ङौ कंसल्वि । एवमग्रेगूजगत्स्वादि । स्वभूः । ‘न भूसुधियोः’ (६–४–८५) इति यण् न । स्वभुवावित्यादि । एवं स्वयम्भ्वादि ॥ धातृ स् । क्रोष्टुस्तृज्वत्त्वोक्तवदनङादि सर्वम् । धाता । धातारौ । धातारः । धातृ स् । ह्रस्वात् सम्बुद्धिलोपे प्राप्ते परत्वाद् ‘ऋतो ङि—’ (७–४–११०) इति गुणः । धातर् स् । हल्ङ्यादिलोपो रस्य विसर्गश्च । हे धातः । धातारम् । धातारौ । पूर्वसवर्णदीर्घः । नत्वम् । धातॄन् । धात्रा धातृभ्यामित्यादि । आमि धातॄणाम् । एवमन्येऽपि तृन्तृजन्ताः । एवमन्यत्रापि । <karika>अव्युत्पन्नमुणादीत्याश्रित्योणादितृन्तृजन्तोऽपि । नप्त्रादिरत्र कथितः पित्रादावीदृशस्य विनिवृत्त्यै ॥ ५८३ ॥</karika> पिता । अप्तृन्नादावनुक्तेरदीर्घः । पितरावित्यादि सुटि । शेषं धातृवत् । एवं जामातृभ्रात्रादि । ना । नरौ । नरः ॥
Sarala¶
ओः सुपीति । अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यतोऽचीति, धात्विति चानुवर्त्तते, एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) इत्यतोऽसंयोगपूर्वस्येति “अनेकाच” इति चानुवर्त्तते । ओः - षष्ठ्यन्तं, सुपि - सप्तम्यन्तम् । सुष्ठु लुनानीति “सुलूः” = शोभनलवनकर्त्ता नापितः, कृषीवलश्च । “स्वभूः” = ब्रह्मा ॥
Sudha¶
ओः सुपीति । एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति सूत्रं एरितिवर्जमनुवर्तते । **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इत्यतोऽचीत्यनुवृत्तम् । तेन सुपीति विशिष्यते । तदादिविधिः । **इणो यण्**(6.4.81) इत्यतो यणित्यनुवर्तते, तदाह - **धात्ववयवेत्यादिना । खलप्वौ, खलप्वः इति । ‘खलपू + औ’ “खलपू असू” इति स्थिते अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इति उवङि प्राप्ते तं बाधित्वा **ओः सुपि**(6.4.83) इति यणादेशे कृते “खलप्वौ” “खलप्वः” इति रूपे भवतः । अत्र <!गतिकारकेतरपूर्वपदस्य यण् नेष्यते!> इति वार्तिकप्रवृत्तिर्बोध्या । प्रकृते कारकपूर्वकत्वादिह यणितिभावः । हे खलपूः, हे खलप्वौ, हे खलप्वः, सम्बोधनम् । खलप्वम्, खलप्वौ, खलप्वः । खलप्वा, खलप्वेः, खलप्वः, खलप्वः, खलप्वोः, खलपप्वि । इह अजादौ **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति यणोऽसम्भवात् उवङि प्राप्ते अनेन सूत्रेण यणिति भावः । उवङोऽपवादो यणिति फलितम् । **एवं सुल्वादय इति । सुष्ठु लुनातीति सुलूः । गतिपूर्वकत्वादिहापि यण् । आदिना केदारलृरित्यादिसंग्रहः । स्वभूरिति । स्वस्माद्भवतीति क्विप् । कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सावागतेऽनुबन्धलोपे सस्य रुत्वे विसर्गे च “स्वभूः” इति रूपम् । “स्वभुवौ” “स्वभुवः” इति । ‘स्वभू x औ’ इतिस्थिते प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वसवर्णदीर्घे प्राप्ते तं बाधित्वा **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इत्युवङि प्राप्ते तं प्रबाध्य **ओः सुपि**(6.4.83) इति यणि प्राप्ते **न भूसुधियोः**(6.4.85) इति निषिद्धे **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इत्युवङि विहिते **ङिच्च**(1.1.53) इत्यन्तादेशे जाते ङकारस्येत्सञ्ज्ञायां लोपे च “स्वभुवौ” इति रूपम् । एवमेव जसि परे “स्वभुवः” इति बोध्यम् । अजादौ विभक्तौ परे सर्वत्र उवङ् भवतीति ज्ञेयम् । **वर्षाभूरिति । वर्षासु भवतीति वर्षाभूः । वर्षर्तादुत्पन्न इत्यर्थः । “वर्षाभूर्दर्दुरे पुमान्” इति यादवः ।
Sutra Prayogas¶
**** (भट्टिकाव्यम्): … इति यणादेशः।