64084: वर्षाभ्वश्च¶
Padacheda: वर्षाभ्वः | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘वर्षाभू’ शब्दस्य अजादि-सुप्-प्रत्यये परे यणादेशः भवति ।
वर्षाभूः इत्युक्ते मण्डुकः । अयम् दीर्घ-ऊकारान्त-पुंलिङ्गशब्दः अस्ति । अस्य शब्दस्य अजादि-सुप्-प्रत्यये परे वर्तमानसूत्रेण यणादेशः भवति । यथा - वर्षाभू + औ [प्रथमाद्विवचनस्य प्रत्ययः] इत्यत्र - इको यणचि (6.1.77) इत्यनेन यणादेशे प्राप्ते ; परत्वात् प्रथमयोः पूर्वसवर्णः (6.1.102) इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; दीर्घात् जसि च (6.1.105) इत्यनेन पूर्वसवर्णदीर्घस्य निषेधे प्राप्ते ; पुनः इको यणचि (6.1.77) इत्यनेन यणादेशे प्राप्ते ; परत्वात् अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन उवङ्-आदेशे प्राप्ते ; तं बाधित्वा ओः सुपि (6.4.83) इत्यनेन यणादेशे प्राप्ते ; न भूसुधियोः (6.4.85) इत्यनेन तस्य निषेधे प्राप्ते ; पुनः अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन उवङ्-आदेशे प्राप्ते ; परत्वात् वर्षाभ्वश्च (6.4.84) इत्यनेन अन्ते यणादेशः विधीयते । अतः वर्षाभू + औ → वर्षाभ्वौ इति रूपं सिद्ध्यति । अत्र एकम् वार्त्तिकं ज्ञातव्यम् - <!दृन्-कर-पुनः पूर्वस्य भुवो यण्वक्तव्यः !> । इत्युक्ते, दृम्भू, करभू, पुनर्भू - एतेषामं शब्दानामजादि सुप्-प्रत्यये परे यणादेशः भवति । यथा - दृम्भ्वौ, करभ्वौ, पुनर्भ्वौ ।
Sutrartha (English)¶
The word वर्षाभू gets a यणादेश when followed by an अजादि-सुप्-प्रत्यय.
Vasu English Summary¶
The semi-vowel व् is substituted for the ऊ of वर्षाभू also when a case-affix beginning with a vowel follows.
Vasu English Translation¶
The semi-vowel व् is substituted for the ऊ of वर्षाभू also when a case-affix beginning with a vowel follows. As वर्षाभ्वौ, वर्षाभ्वः ॥ वर्षाभू ‘what is born in the rains, a kind of herb.’ This is an exception to the subsequent rule.
Vart:- The semi-vowel substitution takes place when दृन्, कार and पुनर् precede भू; as दृन्भ्वौ, दृन्भवः, पुनर्भ्वौ, पुनर्भ्वः, कारभ्वौ (काराभ्वौ), कारभ्वः (काराभ्वः) ॥
Bhashya¶
वर्षाभ्वश्च (3082) (6570 उपसंख्यानवार्तिकम् ॥ 1 ॥) - वर्षाभूपुर्नभ्वश्च - वर्षाभू इत्यत्र पुर्नभ्वश्चेति वक्तव्यम् । पुर्नभ्वौ, पुर्नभ्वः - इति । अत्यल्पमिदमुच्यते । वर्षादृन्कारपुनः पूर्वस्य भुव इति वक्तव्यम् । वर्षाभ्वौ, वर्षाभ्वः । दृन्भ्वौ, दृन्भ्वः । कारभ्वौ, कारभ्वः । पुर्नभ्वौ, पुर्नभ्वः ॥
Kashika¶
वर्षाभू इत्येतस्याजादौ सुपि परतो यणादेशो भवति। वर्षाभ्वौ, वर्षाभ्वः॥ पुनर्भ्वश्चेति वक्त व्यम् ॥ पुनर्भ्वौ, पुनर्भ्वः। कारापूर्वस्यापीष्यते। काराभ्वौ, काराभ्वः॥
Siddhanta Kaumudi¶
अस्योवर्णस्य यण् स्यादचि सुपि । वर्षाभ्वौ । वर्षाभ्वः । दृम्भतीति दृम्भूः । अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषू (SK93)रित्युणादिसूत्रेण व्युत्पादितः । दृम्भ्वौ । दृम्भ्वः । दृम्भूम् । दृम्भ्वौ । दृम्भून् । शेषं हूहूवत् । दृन्निति नान्ते हिंसार्थेऽव्यये भुवः क्विप् । दृन्भूः ।<!दृन्करपुनः पूर्वस्य भुवो यण्वक्तव्यः !> (वार्तिकम्) ॥ दृन्भ्वौ । दृन्भ्व इत्यादि खलपूवत् । करभ्वौ । करभ्वः । दीर्घपाठे तु कर एव कारः । स्वार्थिकः प्रज्ञाद्यण् । कारभ्वौ । कारभ्वः । पुनर्भूर्यौगिकः पुंसि । पुनर्भ्वावित्यादि । दृग्भूकाराभूशब्दौ स्वयम्भूवत् ॥ इत्यूदन्ताः ॥ धाता । हे धातः । धातारौ । धातारः ।<!ऋवर्णान्नस्य णत्वं वाच्यम् !> (वार्तिकम्) ॥ धातॄणामित्यादि । एवं नप्त्रादयः । उद्गातारौ । पिता व्युत्पत्तिपक्षे नप्त्रादिग्रहणस्य नियमार्थत्वान्नदीर्घः । पितरौ । पितरः । पितरम् । पितरौ । शेषं धातृवत् । एवं जामातृभ्रात्रादयः ॥ ना । नरौ । नरः । हे नः ॥
Laghu Siddhanta Kaumudi¶
अस्य यण् स्यादचि सुपि। वर्षाभ्वावित्यादि॥ दृन्भूः। दृन्करपुनः पूर्वस्य भुवो यण् वक्तव्यः (वार्त्तिकम्)। दृन्भ्वौ। एवं करभूः॥ धाता। हे धातः। धातारौ। धातारः। ऋवर्णान्नस्य णत्वं वाच्यम् (वार्त्तिकम्) । धातॄणाम्। एवं नप्त्रादयः॥ नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम्। तेनेह न। पिता। पितरौ। पितरः। पितरम्। शेषं धातृवत्। एवं जामात्रादयः॥ ना। नरौ॥
Balamanorama¶
वर्षाभ्वश्च - वर्षाभ्वश्च ।ओः सुपी॑त्यनुवर्तते ।अचि श्नुधात्वि॑त्यतोऽचीति च, ‘इणो य’ णित्यतो यणिति चानुवर्तते । तदाह — अस्येति । वर्षाभूशब्दस्येत्यर्थः । दृभतीति ।दृभी ग्रन्थे॑ । तुदादिः । शविकरणस्यसार्वधातुकमपि॑दिति ङित्त्वान्न गुणः । निपातित इति । कूप्रत्ययो नुम्चेह निपात्यते इत्यर्थः ।नश्चापदान्तस्ये॑त्यनुस्वारः,अनुस्वारस्य ययी॑ति तस्य परसवर्णो मकारः । अत्र च ऊकारो न धात्ववयवः । अत उवङ्,ओः सुपी॑ति यण्च न । किंतुइको यणची॑त्येव यण् । स च ‘अमि पूर्वः’ इत्यनेन बाध्यत इत्याशयेनाह — दृम्भूमिति । शसिदीर्घाज्जसि चे॑ति निषेधाऽप्रवृत्त्या पूर्वसवर्णदीर्घेणइको यणची॑ति यण् बाध्यत इत्यभिप्रेत्याह — दृम्भूनिति । दृम्भ्वा । दृम्भवे । दृम्भ्वः । दृम्भ्वः दृम्भ्वोः । दृम्भ्वाम् । इह तुदृन्कारे॑ति यण्न भवति, भूशब्दस्यार्थवत एव तत्र ग्रहणात् । इह च भूशब्दस्याऽनर्थकत्वात् ।दृ न्निति नान्तमव्ययं हिंसायां वर्तते । तस्मिन्नुपपदे भूधातोः क्विबित्यर्थः । दृन्-हिंसां, भवते=प्राप्नोतीति विग्रहः । दृन्भूरिति । तरुविशेषः । सर्पविशेष इत्यन्ये । स्वाभाविक एवात्र नकारः । तस्य पदान्तत्वा॑न्नश्चापदान्तस्ये॑ति नानुस्वारः । अत एव न परसवर्णः । ॒न भूसुधियो॑रिति निषेधे प्राप्ते — दृन्करपुनः । दृन्भ्वमिति । यणा पूर्वरूपं बाध्यत इति भावः । दृन्भ्व इति । शसि यणा पूर्वसवर्णदीर्घो बाध्यत इति भावः । करात् करे वा भवतीति करभूः, दृन्भूवदित्यभिप्रेत्याह — करभ्वं करभ्व इति ।दृन्करे॑त्युदाहृतवार्तिके दीर्घमध्यकारशब्दपाठ इति मतान्तरं । तत्राह — दीर्घेति । स्वार्थिक इति । स्वस्याः प्रकृतेरर्थः स्वार्थः, तत्र भवः स्वार्थिकः । अध्यात्मादित्वाठ्ठञ् । प्रज्ञाद्यणिति ।प्रज्ञादिभ्योऽणि॑ति प्रज्ञादिभ्यः स्वार्थेऽण्विधानादिति भावः । दीर्घपाठे करपूर्वस्य उवडेव । ह्रस्वपाठे करपूर्वस्य यणेवेति विवेकः । पुनर्भवतीति पुनर्भूः । ननुपुनर्भूर्दिधिषूरूढा॑ इति कोशात्पुनर्भूशब्दस्य स्त्रीलिङ्गत्वात्स्त्रीलिङ्गाधिकार एव तन्निरूपणं युक्तमित्यत आह — पुनर्भूर्योगिकः पुंसीति । पुनर्भवतीति क्रियानिमित्तस्य पुनर्भूशब्दस्य पुंलिङ्गत्वमप्यस्तीत्यर्थः । दृग्भू इति । दृशो भवतीति दृग्भूः । कारायां भवतीति काराभूः । कारा=बन्धनालयः । स्वयंभूवदिति । तत्रन भूसुधियो॑रिति यणः प्रतिषेधात्, प्रतिप्रसवाऽभावाच्चेति भावः । इत्यूदन्ताः । अथ ऋदन्ताः । धातेति ।डुधाञ् धारणपोषणयोः॑ तत्र तृन् तज्वा स्यात् । क्रोष्टुशब्दवदनङ्दीर्घ सुलोपनलोपाः । हे धातरिति ।ऋदुशनसि॑त्यत्रासंबुद्धावित्यनुवृत्तेर्नानङ् ।ऋतो ङी॑ति गुणोऽकारः, रपरत्वं, हल्ङ्यादिलोपः, विसर्गः । ‘अप्तृन्’ इति दीर्घस्तु न, असंबुद्धावित्यनुवृत्तेः । धाताराविति । ङिसर्वनामस्थानयोःऋतो ङी॑ति गुणोऽकारः । रपरत्वम्, ‘अप्तृन्’ इति दीर्घश्च । धातारः । धातारम् । धातारौ । शसि पूर्वसवर्णदीर्घ ॠकारः, नत्वम् । धातृन् । टा-यण् । धात्रा । ङे-यण् । धात्रे । ङसिङसोः-ऋत उत्, रपरत्वम्, सलोपः, विसर्गः-धातुः । धातुः । धात्रोः धात्रोः । आमि ‘ह्रस्वनद्यापः’ इति नुट् ।नामी॑ति दीर्घः । नकारस्य रेफषकाराभ्यां परत्वाऽभावादप्राप्ते णत्वे । ऋवर्णान्नस्य । ऋवर्णात्परस्येत्यर्थः । इदं तु वार्तिकं णत्वविधायकसूत्राणां सर्वेषां शेषभूतम् । ङौऋतो ङी॑ति गुणोऽकारः, रपरत्वम् । धातरि । धातृषु । नच दातृशब्दस्य हिरण्यगर्भसंज्ञाशब्दादौणादिकशंसिक्षदादितृन्तृजन्तत्वादिह कथमप्तृन्निति दीर्घः,औणादिकतृन्तृजन्तेषु नप्त्रादिसप्तानामेव दीर्घ इति नियमादिति वाच्य, धाञ्धातोः शंसिक्षदादित्वकल्पनायां प्रमाणाऽभावेन धातृशब्दस्यौणादिकत्वाऽभावादिति भावः । एवं नप्त्रादय इति । नप्तृनेष्टुत्वष्टृक्षत्तृहोतृपोतृप्रशास्तृशब्दा धातृशब्दवदित्यर्थः । उद्गातृशब्दस्य औणादिकतृन्तृजन्तस्य नप्त्रादिष्वनन्तर्भावेऽपि समर्थसूत्रे उद्गातार इति भाष्यप्रयोगादेव दीर्घ इत्युक्तंप्राक् । तदेतत्समारयति-उद्गाताराविति । पितेति । धातृवदनङादि । सर्वनामस्थाने तुऋतो ङी॑ति गुणोऽकारः, रपरत्वम् । ‘अप्तृन्’ इति दीर्घस्तु नेत्याह — व्युत्पत्तीति । पातीति पिता । तृच्प्रत्ययः, इट् आकारलोपश्चेति व्युत्पत्तिर्बोध्या । अव्युत्पत्तिपक्षे तु अप्तृन्तृजादिष्वनन्तर्भावाद्दीर्घशङ्कैव नास्तीति भावः । पितरौ पितरः । पितरम् पितरौ पितृनित्यादि धातृवत् । एवं जामातृभ्रात्रादय इति । उणादिषुनप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ॑ इति सूत्रे पितृजामातृभ्रातृशब्दाः व्युत्पादिताः । तत्र पितृशब्दस्य व्युत्पत्तिरुक्ता । भ्राजेस्तृनि तृचि वा जलोपः । भ्राता । जायां मातीति जामाता । तृन्प्रत्ययः । तृज्वा यालोपश्च । अनयोरप्यौणादिकयोर्नप्त्रादिष्वनन्तर्भावान्न दीर्घ इत्यर्थः । आदिना मन्तृ हन्तृ इत्यनयोग्र्रहणं, तयोरुणादिषुतृन्तृचौ शंसिक्षदादिभ्यः॑ इति प्रकरणे बहुलमन्यत्रापि इत्यत्र उदाहृतत्वात् । नेति । नृशब्दो मनुष्यवाची । तस्मात्सुः ।ऋदुशन॑सित्यनङ् ।अप्तृ॑न्निति सूत्रेऽनन्तर्भावा॒त्सर्वनामस्थाने चे॑ति नान्तत्वप्रयुक्तो दीर्घः । हल्ङ्यादिलोपः । नलोपः ना इति रूपम् । नरा नर इति ।ऋतो ङी॑ति गुणो रपरः । अप्तृन्नाद्यनन्तर्भावान्नान्तत्वाऽभावाच्च न दीर्घः । हे न इति ।ऋतो ङी॑ति गुणो रपरः । हल्ङ्यादिलोपो विसर्गश्च । नरम् । नरौ । शसि पूर्वसवर्णदीर्घो ॠकारः, नत्वम्, नृन् । टादावचि यणि रेफः । न्रा । न्रे । ङसिङसोः ऋत् उत्, रपरः, सलोपः, विसर्गश्च । नुः । नुः । न्रोः । आमि नुट्,नामी॑ति नित्यं दीर्घे प्राप्ते- ।
Tattvabodhini¶
वर्षाभ्वश्च - वर्षाभ्वौ वर्षाभ्व इति । अत्रइको यणची॑ति यणं बाधित्वाप्रथमयो॑रिति पूर्वसवर्णगीर्घः प्राप्तः, तस्यदीर्घज्जसि चे॑ति निषेधे पुनरपि यणादेश प्रसक्तौअचि श्नुधातु भ्रुवाम्इत्यवङ्, तं च बाधित्वाऔः सुपी॑ति यण्, तस्यन भूसुधियो॑रिति निषेधे पुनरवङादेशस्य प्रसक्तौवर्षाभ्वश्चे॑ति यणिति बोध्यम् । एवमन्यत्राप्युत्सर्गापवादादविधय ऊह्राः ।भेके मण्डूकवर्षाभूशालूररल्पवदेर्दूराः॑इत्यमरः ।भोक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दूरे पुमान्इति यादवः । हम्भतीति ।हम्भी ग्रन्थे॑तुदादिः । हन्भूग्र्रन्थकर्ता । कथक इत्यन्ये । व्यचुत्पादितीति । ऊप्रत्ययो नुमागमश्चात्र निपात्यत इत्यर्थः । दशपादीवृत्तौ तुदर्भणं हम्भूः । नुमागमोऽनुस्वारश्च निपात्यते॑इत्युक्तम् । अयमुकारो न धातोरिति उवङोऽप्रसङ्गात्इको यणची॑ति यण्, स चअमि पूर्वः॑इत्यनेन बाध्यत इत्याशयेनाह — हम्भूमिति । इदं च श्रीपतिमतम् । माधवेन तुअन्दूहम्भू — ॑इत्यादिसूत्रेण हढशब्दे उपपदे भुवः कूप्रत्ययः, उपपदस्य हन्नदेशश्च निपात्यते इत्युक्तम् ।हन्करपुनःपूर्वस्य भुवो यण्वक्तव्यः । हम्भूरिति । तरुः । सर्पजातिभेद इत्येके । कपिरित्यन्ये । वक्तव्य इति ।वर्षाभ्वश्चे॑ति चकारस्याऽनुक्तसमुच्चयार्थत्वादिति भावः । एवञ्चओः सुपि॑इति प्राप्तस्य यणोन भूसुधियो॑रिति निषेधेवर्षाहन्करपुनः पूर्वस्य भुवः॑इत्येतद्धिध्यर्थमिति स्थितम् । अत्र नव्याः — ॒वर्षाहन्करे॑त्यस्य नियमार्थतां स्वीकृत्यन भूसुधियो रित्यत्र भूग्रहणं त्युक्तं शक्यमिति, तन्न,हन्करपुनः पूर्वस्य चेद्भवे॑दिति विपरितनियमापत्तेः । तथाचपुनर्भ्वौ॑इत्यादि न सिद्धयेदिति । दीर्घपाठ इति ।हन्कारे॑ — ति पाठे इत्यर्थः । एवंच ह्रस्वपाठे कारपूर्वस्योवहेव , दीर्घपाठे तु करपूर्वस्योवङिति विवेकः ।पुनर्भूदिंधिषूरूढा द्वि॑रित्यमरोक्तेः पुनर्भूशब्दो नित्यस्त्रीलिङ्गः । तथा च स्त्रीलिङ्गप्रकतरण एव वक्तुमुचितो न त्वत्रेत्याशङ्कायामाह — — यौगिकः पुंसीति ।पुनर्भवतीति पुनर्भू॑रिति क्रियाशब्दः पुंलिङ्गेऽप्यस्तीत्यर्थः । स्वयंभूवदिति । प्राचा तुहम्भू॒॑काराम्भू॑शब्दौ वर्षाभूवदाहृतौ, तदुपेक्ष्यमिति भावः । इत्यूदन्ताः । धातेति । दधातीति धाता अब्जयोनिः । डुधाञस्तृच् तृन् वा । अनङ्दीर्घसुलोपनलोपः ।ऋवर्णान्नस्य णत्वं वाच्यम् । व्युत्पत्तिपक्ष इति । अव्युत्पत्तिपक्षे दीर्घशङ्कैव नास्ति, अबादिष्वपठनादिति भावःष नेति ।नयतेर्डिच्चे॑ति ऋपत्र्ययान्तोनृ॑शब्दः । अनङादि प्राग्वत् ।
Nyaas¶
न भूसुधियोः (6.4.85) इति प्रतिषेधे प्राप्ते तदपवादोऽयमारभ्यते। वर्षाभ्यौ इति। वर्षाशब्दाद्भवतेः क्विप्। पुनर्भ्वश्चेति वक्तव्यम् इति। नपुनर्भ्वित्येतस्याचि सुपि यणादेशो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -चकारोऽत्रि क्रियते, स चानुक्तसमुच्चयार्थः। तेन पुनर्भ्वित्यस्यापि भविष्यतीति। `कारापूर्वस्यापीष्यते इति। सोऽपि तत एव चकाराद्भवतीति वेदितव्यम्॥
Praudhamanorama¶
वर्षाभूशब्दस्य नित्यस्त्रीत्वात् स्त्रीलिङ्गप्रकरण एव एतत्सूत्रं वक्तुं युक्तम्। पुल्लिङ्गे तु क्रियाशब्दाभिप्रायेण कथंचिद्योज्यमिति व्याचख्युः, तद्रभसात्। दर्दुरे हि पुल्लिङ्गोऽयम्— भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः। इत्यमरोक्तेः। भिन्नलिङ्गानां न द्वन्द्व इति तेन परिभाषितत्वात्, भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमान्॥ इति यादवकोशाच्च। दर्दुरे षणीति पाठान्तरम्। षणीति पुल्लिङ्गस्य प्राचां संज्ञा। दृभतीति। दृभी ग्रन्थे तुदादिः। व्युत्पादित इति। यद्यप्युज्ज्वलदत्तेन दृम्फूरिति पवर्गद्वतीयं पठित्वा दृम्फेर्नलोपाभावो निपात्यते इति व्याख्यातं, तथाऽपि वृत्त्यन्तरेषु दृभी ग्रन्थे इत्यस्मात् डूप्रत्यये नुमागमो निपात्यते इत्युक्तम्। एतच्च माधवग्रन्थे स्पष्टम्। दशपादीवृत्तौ तु दर्भणं दृम्भूः, नुमागमोऽनुस्वारश्च निपात्यते इत्युक्तम्। अयमूकारो न धातोरित्युवङोऽप्रसङ्गात् ‘इको यणचि’ इति यण्। स च ‘’अमि पूर्वः’ ‘प्रथमयोः पूर्वसवर्णः’ इत्याभ्यां बाध्यत इत्याशयेनोदाहरति— दृम्भूमित्यादि। न चेह ‘दृन्कर’ इति यण् शङ्क्यः, तत्र अर्थवत एव ग्रहणात्। अस्य तु दृन्शब्दस्य भूशब्दस्य च अनर्थकत्वादिति भावः। एवं चायं हूहूवदिति फलितम्। श्रीपतिमतेनाह— दृन्निति। माधवस्तु—‘अन्दूदृन्भू’इत्यादिसूत्रेण दृढशब्दे उपपदे कूप्रत्ययः, उपपदस्य दृन्नादेशश्च निपात्यते इत्याह- दृन्भूरिति। तरुः सर्पजातिभेद इति केचित्। कपिरित्यन्ये। दृन्करेति। अत्र दृन्निति नान्तपाठो मुख्यः। मान्तपाठोऽपि केषांचित्। वक्तव्य इति। ‘वर्षाभ्वश्च’ इति। चकारोऽनुक्तसमुच्चयार्थः। अनुक्तं च भाष्यवार्तिकबलान्निर्णेयमिति भावः। तथा च वर्षाभूपुनर्भ्वश्चेति वार्तिकं व्याख्याय भाष्यकार आह— अत्यल्पमिदमुच्यते, वर्षादृन्कारपुनः पूर्वस्य भुव इति वक्तव्यमिति। वामनेन तु दृन्शब्दो न पठित एव। एवं स्थिते यत्प्राचा दृक्कारेति पठितं, यच्च तत्पौत्रेण महाभाष्यकारवचनमर्थतोऽनुवदति इत्युक्तम्। यच्चान्यैर्वार्तिकेन पूरितमर्थमुदाहरतीत्यवतारितं, तत्सर्वं रभसकृतमेव। न च भाष्येऽपि दृगित्येव पाठ इति भ्रमितव्यम्। अन्दूदृन्भू इति निपातित इति माधवग्रन्थेन कैयटादिग्रन्थैश्चविरोधापत्तेरिति यत्किंचिदेतत्। दीर्घपाठे इति। अयं च भाष्यवृत्त्यादिबहुग्रन्थसंमतः पाठः। अनुस्मृतौ तु ह्रस्वः पठ्यते। यत्तु तद्विवृत्तावुक्तम्—एकदेशविकृतस्यानन्यत्वात् कारपूर्वस्यापि सिद्धमिति। तन्न, तथाप्यण्प्रत्ययविशिष्टस्यान्यत्वात्। न ह्यण्प्रत्ययोऽपि विकारः। तस्माद्ध्रस्वपाठे कारपूर्वकस्य उवङेव, तथा दीर्घपाठे करपूर्वस्य उवङिति विवेकः। स्वयम्भूवदिति। प्राचा तु दृन्भूकाराभूशब्दौ वर्षाभूशब्दवदुदाह्मतौ। तन्निर्मूलत्वादुपेक्ष्यमिति भावः।
Prakriyasarvasvam¶
अस्याचि सुपि यण् स्यात् । वर्षाभ्वौ । वर्षाभ्वः । नदीत्वादह्रस्वः । हे वर्षाभु । वर्षाभ्वम् । वर्षाभ्वौ । वर्षाभ्वः । शेषं वधूवत् । वर्षाभूणामित्यत्र ‘एकाजुत्तरपदे—’ (८-४-१२) इति णः । पुनर्भूकाराभ्वोश्च यणिष्यते । करम्बश्चाह माधवः । पुनर्भूः पुनर्भ्वावित्यादि ॥ स्वसा धातृवत् । शसि स्वसृः इति भेदः । माता पितृवत् । शसि मातृ । एवं यातृननान्दृदुहितरः । द्यौर्गौर्वत् । रैशब्दः स्त्रीत्वेऽपि पुंवत् । नौग्लौंवत् ॥ इत्यजन्तस्त्रीलिङ्गाः ॥ ज्ञान स्,
Sarala¶
वर्षाभूः = दर्दुरः । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमान् इति यादवकृतो वैजयन्तीकोशः । नियमार्थमिति । उणादि निष्पन्नानां तृन्तृच्प्रत्ययान्तानां सञ्ज्ञाशब्दानां चेदुपधादीर्घस्तर्हि नप्त्रादीनामेव नान्येषाम् इति च नियमाकारः । एवञ्च पित्रादिशब्दानां नप्त्रादिभिन्नतया नानेन दीर्घ इत्याशयः ॥
Sudha¶
वर्षाभ्वश्चेति । ओः सुपि**(6.4.83) इत्यनुवर्तते । **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इत्यतोऽचीति च **इणो यण्**(6.4.81) इत्यतो यणितिचानुवर्तते, तदाह - **अस्येत्यादिना । वर्षाभ्वौ - वर्षाभूशब्दात् प्रथमाद्विवचने औ समागते प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वसवर्णदीर्घे प्राप्ते तं बाधित्वा **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इति उवङि प्राप्ते तं बाधित्वा **ओः सुपि**(6.4.83) इति यणि प्राप्ते **न भूसुधियोः**(6.4.85) इति निषिद्धे **वर्षाभ्वश्च**(6.4.84) इति यणि कृते सति “वर्षाभ्वौ” इति रूपम्बोध्यम् । एवमेव सर्वत्राजादौ विभक्तौ परे बोध्यम् । **दृन्भूरिति । दृन्निति नान्तमव्ययं हिंसायां वर्तते । तस्मिन्नुपपदे भूधातोः व्किविति भावः । दृन् - हिंसां, भवते प्राप्नोतीति विग्रहः | तरुविशेषः, सर्पविशेषो वेत्यन्ये । स्वाभाविक एवात्र नकारः । तस्य पदान्तत्वात् नश्चापदान्तस्य झलि**(8.3.24) इति नानुस्वारः । अत एव न परसवर्णः। एवम्भूतात् दृम्भूशब्दात्सावागते उकारस्येत्सञ्ज्ञायां लोपे च सस्य रुत्वे विसर्गे च “दृन्भूः” इति रूपम् । **दृन्भ्वाविति । दृन्भूशब्दात् औ समागते ओः सुपि**(6.4.83) इति यणि प्राप्ते **न भूसुधियोः**(6.4.85) इति तस्य निषेधे कृते <!दृन्करपुनःपूर्वस्य भुवो यण् वक्तव्यः!> इति यणि कृते “दृन्भ्वौ” इति रूपम् । अमि - “दृन्भ्वम्” । यणा पूर्वरूपं बाध्यते इति भावः । शसि - “दृन्भवः” इति भवति, यणा पूर्वसवर्णदीर्घस्य बाधात् । सर्वत्राजादौ विभक्तौ परे <!दृन्करपुनःपूर्वस्य भुवो यण् वक्तव्यः!> इत्यनेन यण् विज्ञेयः । **एवम् - अनयैव रीत्या, दृन्भूशब्दवत् - करभूरिति । करात् करे वा भवतीति “करभूः” शब्दो बोध्य इति शेषः । धातेति । धातृशब्दात्प्रथमैकवचने सावागते ऋदुशनस्पुरुदंसोऽनेहसां च**(7.1.94) इत्यनङि विहिते **ङिच्च**(1.1.53) इत्यनेनान्तावयवे कृते ङकारस्येत्सञ्ज्ञायां लोपे च कृते “धातन् + सु” इत्यवस्थायाम् **अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्**(6.4.11) इत्यादिनोपधाया दीर्घत्वे कृते सकारोत्तरवर्तिन उकारस्येत्सञ्ज्ञत्वे लोपे च **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति सस्य लोपे **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नस्य लोपे च “धाता” इति रूपम् । “हे धातःइति ।” धातृशब्दात्सम्बोधनस्यैकवचनविवक्षायां सावागते सकारोत्तरवर्तिन उकारस्येत्सञ्ज्ञकत्वे लोपे च कृते “धातृ + स्” इत्यवस्थायाम् **एकवचनं संबुद्धिः**(2.3.49) इति सम्बुद्धिसञ्ज्ञायां **ह्रस्वस्य गुणः**(7.3.108) इति ऋकारस्य गुणे “अ” इति जाते **उरण् रपरः**(1.1.51) इति रपरे च “धातर् स्” इति भूते **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति सलोपे रेफस्य विसर्गे च “हे धातः” इति रूपम् । **धाताराविति । धातृ + शब्दात् औ समागते सुडनपुंसकस्य**(1.1.43) इति औ इत्यस्य सर्वनामस्थानसञ्ज्ञायाम् **ऋतो ङिसर्वनामस्थानयोः**(7.3.110) इति गुणे रपरे च जाते **अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्**(6.4.11) इति उपधादीर्घत्वे च विहिते “धातारौ” इति रूपम् । **धातारः इति । धातृशब्दाज्जसि सर्वनामस्थानसञ्ज्ञायाम् ऋतो ङिसर्वनामस्थानयोः**(7.3.110) इति गुणे रपरे च **अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्**(6.4.11) इति उपधादीर्घत्वे जकारस्येत्सञ्ज्ञायां लोपे च सस्य रुत्वे विसर्गे च “धातारः” इति रूपम् । शसि - पूर्वसवर्णदीर्घः ऋकारः, नत्वम्, धातॄन् । टा यण् - धात्रा । ङे यण् - धात्रे । ङसिङसोः । ऋत उत् रपरत्वम्, सलोपः, विसर्गः, धातुः । धातुः । धात्रोः । धात्रोः । आमि - **ह्रस्वनद्यापो नुट्**(7.1.54) इति नुट् । **नामि**(6.4.3) इति दीर्घः । नकारस्य रेफषकाराभ्यां परत्वाभावादप्राप्ते णत्वे <!ऋवर्णान्नस्य णत्वं वाच्यम्!> इति वार्तिकेन णत्वे कृते **”धातॄणाम्” इति । एवं नप्त्रादय इति । नप्तृनेष्टृत्वष्टृ क्षतृ होतृ पोतृ प्रशास्तृ शब्दाः धातृशब्दवदित्यर्थः । नप्त्रादिग्रहणमिति । व्युत्पत्तिपक्षे तृन्तृजन्तत्वादेव सिद्धे नप्त्रादिग्रहणं <!सिद्धे सत्यारभ्यमाणो विधिर्नियमार्थम् । तृन्तृजन्तानां चेत्तर्हि नप्त्रादीनामेव !> । तेन पितृभ्रातृप्रभृतीनां नेति बोध्यम् । पितेति । पितृशब्दात्सौ ऋदुशनस्पुरुदंसोऽनेहसां च**(7.1.94) इत्यनङि विहिते ङित्वादाद्यावयवे अनुबन्धलोपे **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति दीर्घे सकारस्य **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति लोपे “पिता” इति रूपम् । **पितराविति । पितृशब्दात् औ समागते सर्वनामस्थानसञ्ज्ञायाम् ऋतो ङिसर्वनामस्थानयोः**(7.3.110) इति गुणे रपरे च कृते “पितरौ” इति रूपम् । अत्र व्युत्पत्तिपक्षे - नप्त्रादिग्रहणस्य नियमार्थत्वान्न दीर्घः । अव्युत्पत्तिपक्षे तु अप्तृन्तृजादिष्वनन्तर्भावात् दीर्घशङ्कैव नास्ति । एवमेव “पितरः” इति । सम्बोधने - हे पितः, पितरौ, पितरः । पितरम्, पितरौ, पितॄन्, इत्यादि धातृवत् । **ना । नृशब्दो मनुष्यवाची । तस्मात् सुः । ऋदुशनस्पुरुदंसोऽनेहसां च**(7.1.94) इत्यनङ् । **अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्**(6.4.11) इति सूत्रे अनन्तर्भावात् **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नान्तत्वप्रयुक्तो दीर्घः । हल्ङ्यादिलोपः। नलोपः। “ना” इति रूपम् । **नरौ । **ऋतो ङिसर्वनामस्थानयोः**(7.3.110) इति गुणो रपरः । अप्तृन्नाद्यनन्तर्भावात् नान्तत्वाभावाच्च न दीर्घः। एवं “नरः” इति । हे नः- **ऋतो ङिसर्वनामस्थानयोः**(7.3.110) इति गुणो रपरः । हल्ङ्यादिलोपो विसर्गश्च । नरम्, नरौ । शसि — पूर्वसवर्णदीर्घ ॠकारः, नत्वम्, नॄन् । टादावचि यणि रेफः न्रा । न्रे । ङसिङसो: **ऋत उत्**(6.1.111) रपरः, सलोपः, विसर्गश्च । नुः । नुः । न्रोः ।
Vartika¶
दृन्करपुनःपूर्वस्य भुवो यण्वक्तव्यः ।