64083: ओः सुपि ============== **Padacheda:** ओः | S | 6 | 1 | सुपि | S | 7 | 1 | Sutrartha --------- **धात्वन्त-अनेकाच्-अङ्गस्य धातोः असंयोगपूर्वस्य उवर्णस्य अजादौ सुप्-प्रत्यये परे यणादेशः भवति ।** अस्य सूत्रस्य अर्थं किञ्चित् क्लिष्टः अस्ति, अतः क्रमेण पश्यामः - 1. अनेन सूत्रेण अजादि-सुप्-प्रत्यये परे यणादेशः प्रोक्तः अस्ति । 2. कस्य यणादेशः? अत्र स्थानी अस्ति 'असंयोगपूर्वस्य ओः धातोः' । 'धातोः' इति विशेष्यम्, 'असंयोगपूर्वस्य' तथा 'ओः' एते विशेषणे । 3. प्रथमं विशेषणमस्ति - 'ओः' इति । एतत् 'उ' इत्यस्य षष्ठी-एकवचनमस्ति । 'ओः धातोः' इत्युक्ते 'उवर्णान्त-धातोः' (**येन विधिस्तदन्तस्य** (1.1.72) )। 4. **अलोऽन्त्यस्य** (1.1.52) इत्यनेन अस्य उवर्णान्तधातोः 'अन्तिमवर्णस्य' ( = उवर्णस्य) यणादेशः भवतीति अर्थः जायते । 4. 'धातोः' अस्य द्वितीयम् विशेषणमत्र प्रयुक्तमस्ति - असंयोगपूर्वः । इत्युक्ते, सः धातुः यस्य अन्तिम-उवर्णात् पूर्वः संयोगः नास्ति । किम् नाम संयोगः? **हलोऽनन्तराः संयोगः** (1.1.7) इत्यनेन द्वयोः व्यञ्जनयोः स्वरं विना उच्चारणम् संयोगसंज्ञां प्राप्नोति। 5. अतः अत्र स्थानिनः वर्णनम् कथम् कृतमस्ति? सः धातुः यस्य अन्ते उकारः अस्ति, तथा यस्मिन् धातौ उकारात् पूर्वः संयोगः नास्ति । एतादृशस्य धातोः अन्तिम-इकारस्य स्थाने अजादि-सुप्-प्रत्यये परे यणादेशः भवति । 6. अयं स्थानी 'अनेकाच्-अङ्गस्य' भवेत् इति उक्तमस्ति । इयम् सम्बन्धषष्ठी । अतः अत्र वर्णितः धातुः अनेकाच्-अङ्गस्य अवयवः भवेत् इति आवश्यकम् । 'अनेकाच्' इत्युक्ते सः शब्दः यस्मिन् द्वौ वा अधिकाः स्वराः सन्ति । 7. **पदाङ्गाधिकारे तस्य च तदन्तस्य च** अनया परिभाषया 'अनेकाचः अङ्गस्य धातोः' इत्युक्ते 'अनेकाच्-अङ्गस्य अन्ते विद्यमानस्य धातोः' इति अर्थः निष्पद्यते । अतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - यत्र अङ्गमनेकाच् अस्ति, तत्र तस्य अङ्गस्य अन्ते यदि उवर्णान्तः असंयोगपूर्वः धातुः विद्यते, तर्हि तस्य धातोः उवर्णस्य अजादि सुप्-प्रत्यये परे यणादेशः भवति । उदाहरणानि एतानि - 1) 'खलं पुनाति सः' अस्मिन् अर्थे क्विप्-प्रत्ययं कृत्वा 'खलपू' इति शब्दः सिद्ध्यति । अस्य प्रथमाद्विवचनस्य औ-प्रत्यये परे **अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ** (6.4.77) इत्यनेन उवङ्-आदेशः आगच्छति । परन्तु अत्र अङ्गमनेकाच् तथा धात्वन्तमस्ति, तथा अस्य अन्ते विद्यमानः धातुः असंयोगपूर्वः उवर्णान्तः च अस्ति, अतः उवङ्-आदेशं बाधित्वा अत्र यणादेशः भवति , ततः च 'खलप्वौ' इति रूपं सिद्ध्यति । 2) 'कटं प्रवति सः' अस्मिन् अर्थे क्विप्-प्रत्ययं कृत्वा 'कटप्रू' इति शब्दः सिद्ध्यति । अस्य प्रथमाद्विवचनस्य औ-प्रत्यये परे **अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ** (6.4.77) इत्यनेन उवङ्-आदेशः आगच्छति । अत्र अङ्गमनेकाच् तथा धात्वन्तमस्ति, परन्तु अस्य अन्ते विद्यमानः धातुः संयोगपूर्वः अस्ति । अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः उवङ्-आदेशे कृते 'कटप्रुवौ' इत्येव रूपं सिद्ध्यति । 3) अस्मिन् सूत्रे 'अचि' इत्यस्य 'सुपि' इति विशेषणमस्ति । अतः अस्य सूत्रस्य प्रसक्तिः केवलं सुप्-प्रत्यये परे एव अस्ति, अन्येषु प्रत्ययेषु परेषु न । यथा, 'लूञ्' (छेदने) अस्य धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् एतादृशं सिद्ध्यति - लू + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्] → लू लू ल् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्] → लु लू ल् [**ह्रस्वः** (7.4.59) इति अभ्यासस्य ह्रस्वः] → लु लू तस् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुष-द्विवचनस्य प्रत्ययः तस्] → लु लू अतुस् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति तस्-इत्यस्य अतुस्-आदेशः] → लु ल् उवङ् अतुस् [**अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ** (6.4.77) इत्यनेन उवङ्-आदेशः] → लुलुवतुः अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, यदि अङ्गे विद्यमानम् पूर्वपदम् गतिसंज्ञकम् कारकसंज्ञकं वा नास्ति, तर्हि अयम् यणादेशः न भवति । यथा - 1. 'सुष्ठु लूनाति सः' इत्यर्थे 'सुलू' इति प्रातिपदिकम् सिद्ध्यति । अत्र पूर्वपदम् 'सु' इति गतिसंज्ञकमस्ति, अतः अत्र वर्तमानसूत्रेण यणादेशं कृत्वा 'सुल्वौ', 'सुल्वः' आदीनि रूपाणि सिद्ध्यन्ति । 2. 'परमम् वृक्षम् लूनाति सः' इत्यर्थे 'परमलू' इति प्रातिपदिकम् सिद्ध्यति । अत्र पूर्वपदम् 'परम' एतत् कारकसंज्ञकं अस्ति, यतः विग्रहवाक्ये एतत् कर्मकारकत्वं प्राप्नोति । अतः अत्रापि त वर्तमानसूत्रेण यणादेशं कृत्वा 'परमल्वौ, 'परमल्वः' आदीनि रूपाणि सिद्ध्यन्ति । 3. 'परमः च असौ लूः' इत्यर्थे अपि 'परमलू' इति प्रातिपदिकं सिद्ध्यति । परन्तु अत्र परम-शब्दः गतिसंज्ञकः अपि नास्ति, तथा कारकसंज्ञः नास्ति, अतः अत्र अनेन सूत्रेण यद्यपि अङ्गमनेकाच् तथा असंयोगपूर्व-उवर्णान्त-धात्वन्तमस्ति, तथाप्यत्र यणादेशः न भवति । अतः **अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ** (6.4.77) इत्यनेन उवङ्-आदेशः एव जायते । यथा - परमलुवौ, परमलुवः । Sutrartha (English) ------------------- An उवर्ण occurring at end of an a असंयोगपूर्व धातु which in turn occurs at end of an अनेकाच् अङ्ग is converted to यण् letter when followed by a सुप् अजादिप्रत्यय. Vasu English Summary -------------------- When a case-affix beginning with a vowel follows, then the semi-vowel व् is substituted for the final ऊ of a अङ्ग (stem) containing more than one syllable if the अङ्ग (stem) ends with a verbal root ending in ऊ not preceded by a conjunct consonant forming part of the root. Vasu English Translation ------------------------ When a case-affix beginning with a vowel follows, then the semi-vowel व् is substituted for the final ऊ of a अङ्ग (stem) containing more than one syllable if the अङ्ग (stem) ends with a verbal root ending in ऊ not preceded by a conjunct consonant forming part of the root. As no roots at the end of a stem end in short उ, the latter is not mentioned in the translation. Thus खलपू 'a sweeper':- dual खलप्वौ, plural खलप्वः; so also शतस्वौ and शतस्वः, and सकृल्लू : dual सकृल्ल्वौ and सकृल्ल्वः ॥ But लुलुवतुः and लुलुवः before tense-affixes, (non-सुप्); लू - लुवौ, लुवः (because consisting of one syllable only), and कटप्रू - कटप्रुवौ, कटप्रुवः (because ऊ is preceded by a conjunct consonant forming part of the root). The rule does not apply if the first member is not a *Gati* or a *Karaka* word: as परमलूः- परमलुवौ and परमलुवः ॥ Kashika ------- धात्ववयवः संयोगः पूर्वो यस्मादुवर्णाद् न भवति, तदन्तस्याङ्गस्यानेकाचोऽजादौ सुपि परतो यणादेशो भवति। खलप्वौ, खलप्वः। शतस्वौ, शतस्वः. सकृल्ल्वौ, सकृल्ल्वः। सुपीति किम्? लुलुवतुः, लुलुवुः। अनेकाच इत्येव — लुवौ, लुवः। असंयोगपूर्वस्येत्येव — कटप्रुवौ, कटप्रुवः। गतिकारकाभ्यामन्यपूर्वस्य नेष्यत इत्येव — परमलुवौ, परमलुवः॥ Siddhanta Kaumudi ----------------- धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्याऽनेकाचोऽङ्गस्य यण् स्यादजादौ सुपि ॥ (वार्तिकम्) ॥ खलप्वौ । खलप्व इत्यादि । एवं सुल्वादयः । अनेकाचः किम् । लूः लुवौ । लुवः । धात्ववयवेति किम् । उल्लूः । उल्ल्वौ । उल्ल्वः । असंयोगपूर्वस्य किम् । कटप्रुवौ । कटप्रुवः । गतीत्यादि किम् । परमलुवौ । सुपि किम् । लुलुवतुः । स्वभूः । न भूसुधियोः (SK273) । स्वभुवौ । स्वभुवः । एवं स्वयम्भूः ॥ Laghu Siddhanta Kaumudi ----------------------- धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादचि सुपि। खलप्वौ। खलप्वः। एवं सुल्वादयः॥ स्वभूः। स्वभुवौ। स्वभुवः॥ वर्षाभूः॥ Balamanorama ------------ **ओः सुपि** - ओः सुपि । 'एरनेकाचः' इति सूत्रं, एरितिवर्जमनुवर्तते । 'अचि श्नुधातु' इत्यतोऽचीत्यनुवृत्तं । तेन सुपीति विशेष्यते । तदादिविधिः । 'इणो य' णित्यतो यणित्यनुवर्तते । तदाह — धात्ववयवेत्यादिना । गतिकारकेति । इदमपि वार्तिकमत्रानुवर्तते इति भावः । खलप्वौ खलप्व इति । कारकपूर्वकत्वादिह यणिति भावः । हे खलपूः । खलप्वम् खलप्वौ खलप्वः । खलप्वा । खलप्वे । खलप्वः । खलप्वः खलप्वोः । खलप्वि । इह अजादौ 'एरनेकाचः' इतिओः सुपी॑ति यण् च सर्वत्र पूर्वरूपसवर्णदीर्घापवादाः । एवं सुल्वादय इति । सुष्ठु लुनातीति सुलूः । गतिपूर्वकत्वादिहापि यण् । आदिना केदारलूरित्यादिसङ्ग्रहः । कटप्ररिति ।प्रुगतौ॑ ।क्विब्वची॑त्यादिना क्विप्, उकारस्य दीर्घश्च । परमलुवाविति । परमश्चासौ लूश्चेति विग्रहः । गतिकारकेतरपूर्वकत्वान्न यण् । लुलुवतुरिति । अतुसि लुलू इत्यस्याऽनेकाच्त्वेऽपि सुप्परकत्वाऽभावान्न यणिति भावः । स्वभूरिति । स्वस्माद्भवतीति क्विप् । कारकपूर्वकत्वाद्यणि प्राप्ते आह-न भूसुधियोरिति । वर्षासु भवति वर्षाभूः । वर्षर्तावुत्पन्न इत्यर्थः । वर्षशब्दो नित्यस्त्रीलिङ्गबहुवचनान्तः ।अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे॑ति लिङ्गानुशासने स्त्र्यधिकारे सूत्रकृतोक्तेः ।वर्षाभूर्ददुरे पुमान् इति यादवः ।न भूसुधियो॑रिति निषेधे प्राप्ते- । Tattvabodhini ------------- **ओः सुपि** - ओः सुपि ।इणो यण्इत्यतो यण्,एरनेकाचः ॑इति सूत्रं च सर्वमनुवर्तते इवर्णवर्जम्,ओ॑रित्युकारस्य कार्यिणो निर्देशात् ।अचि श्नुधात्वि॑ति सूत्राद्धातुःएरनेकाचः॑इत्यत्रेव संवध्यत इत्याशयेन व्याचष्टे -धात्ववयवसंयोगेत्यादि । Padamanjari ----------- सकृल्ल्वाविति । क्रियाविशेषणत्वात् सकृदित्यस्य कारकत्वम् । कटप्रुवाविति । क्विब्वचि इत्यादिना क्विप्, दीर्घश्च ॥ Nyaas ----- `खलप्वौ` इति। खलं पुनातीति **अन्येभ्योऽपि दृश्यते** (3.3.130) इति क्विप्। `शतस्वौ` इति। अत्रापि शतं सूत्र इति **सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्** (3.2.61) इत्यादिना क्विप्। `सकृल्ल्वौ` इति। `तोर्लि` (8.4.59) इति परसवर्णः। `कटप्रुवौ` इति। `प्रूङ्? गतौ` (धातुपाठः-957), [`प्रुङ्` -धातुपाठः-] `क्विब्? वचप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणञ्च` इति क्विप्, दीर्घत्वञ्च। `ओः` इति स्पष्टार्थम्। अनुकारान्तनिवृत्यर्थन्तु न युज्यते; `य्वोः इत्यनुवृत्तेः। इकारस्य च पूर्वेणैव सिद्धो यण् -उन्न्यौ; ग्रामण्याविति॥ Prakriyasarvasvam ----------------- धात्वंशसंयोगपूर्वत्वरहितोवर्णान्तस्यानेकाचोऽजादौ सुपि परे यण् स्यात् । कंसल्वौ कंसल्वः इति ग्रामणीवत् । ङौ कंसल्वि । एवमग्रेगूजगत्स्वादि । स्वभूः । ‘न भूसुधियोः’ (६–४–८५) इति यण् न । स्वभुवावित्यादि । एवं स्वयम्भ्वादि ॥ धातृ स् । क्रोष्टुस्तृज्वत्त्वोक्तवदनङादि सर्वम् । धाता । धातारौ । धातारः । धातृ स् । ह्रस्वात् सम्बुद्धिलोपे प्राप्ते परत्वाद् ‘ऋतो ङि—’ (७–४–११०) इति गुणः । धातर् स् । हल्ङ्यादिलोपो रस्य विसर्गश्च । हे धातः । धातारम् । धातारौ । पूर्वसवर्णदीर्घः । नत्वम् । धातॄन् । धात्रा धातृभ्यामित्यादि । आमि धातॄणाम् । एवमन्येऽपि तृन्तृजन्ताः । एवमन्यत्रापि । अव्युत्पन्नमुणादीत्याश्रित्योणादितृन्तृजन्तोऽपि । नप्त्रादिरत्र कथितः पित्रादावीदृशस्य विनिवृत्त्यै ॥ ५८३ ॥ पिता । अप्तृन्नादावनुक्तेरदीर्घः । पितरावित्यादि सुटि । शेषं धातृवत् । एवं जामातृभ्रात्रादि । ना । नरौ । नरः ॥ Sarala ------ **ओः सुपीति** । **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ** (६.४.७७) इत्यतोऽचीति, धात्विति चानुवर्त्तते, **एरनेकाचोऽसंयोगपूर्वस्य** (६.४.८२) इत्यतोऽसंयोगपूर्वस्येति "अनेकाच" इति चानुवर्त्तते । **ओः** - षष्ठ्यन्तं, **सुपि** - सप्तम्यन्तम् । सुष्ठु लुनानीति "सुलूः" = शोभनलवनकर्त्ता नापितः, कृषीवलश्च । "स्वभूः" = ब्रह्मा ॥ Sudha ----- **ओः सुपीति ।** **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति सूत्रं एरितिवर्जमनुवर्तते । **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इत्यतोऽचीत्यनुवृत्तम् । तेन सुपीति विशिष्यते । तदादिविधिः । **इणो यण्**(6.4.81) इत्यतो यणित्यनुवर्तते, तदाह - **धात्ववयवेत्यादिना । खलप्वौ, खलप्वः इति ।** 'खलपू + औ' "खलपू असू" इति स्थिते **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इति उवङि प्राप्ते तं बाधित्वा **ओः सुपि**(6.4.83) इति यणादेशे कृते "खलप्वौ" "खलप्वः" इति रूपे भवतः । अत्र इति वार्तिकप्रवृत्तिर्बोध्या । प्रकृते कारकपूर्वकत्वादिह यणितिभावः । हे खलपूः, हे खलप्वौ, हे खलप्वः, सम्बोधनम् । खलप्वम्, खलप्वौ, खलप्वः । खलप्वा, खलप्वेः, खलप्वः, खलप्वः, खलप्वोः, खलपप्वि । इह अजादौ **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति यणोऽसम्भवात् उवङि प्राप्ते अनेन सूत्रेण यणिति भावः । उवङोऽपवादो यणिति फलितम् । **एवं सुल्वादय इति ।** सुष्ठु लुनातीति सुलूः । गतिपूर्वकत्वादिहापि यण् । आदिना केदारलृरित्यादिसंग्रहः । **स्वभूरिति ।** स्वस्माद्भवतीति क्विप् । कृदन्तत्वात्प्रातिपदिकसञ्ज्ञायां सावागतेऽनुबन्धलोपे सस्य रुत्वे विसर्गे च "स्वभूः" इति रूपम् । **"स्वभुवौ" "स्वभुवः" इति ।** 'स्वभू x औ' इतिस्थिते **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वसवर्णदीर्घे प्राप्ते तं बाधित्वा **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इत्युवङि प्राप्ते तं प्रबाध्य **ओः सुपि**(6.4.83) इति यणि प्राप्ते **न भूसुधियोः**(6.4.85) इति निषिद्धे **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इत्युवङि विहिते **ङिच्च**(1.1.53) इत्यन्तादेशे जाते ङकारस्येत्सञ्ज्ञायां लोपे च "स्वभुवौ" इति रूपम् । एवमेव जसि परे "स्वभुवः" इति बोध्यम् । अजादौ विभक्तौ परे सर्वत्र उवङ् भवतीति ज्ञेयम् । **वर्षाभूरिति ।** वर्षासु भवतीति वर्षाभूः । वर्षर्तादुत्पन्न इत्यर्थः । "वर्षाभूर्दर्दुरे पुमान्" इति यादवः । Sutra Prayogas -------------- * **** (भट्टिकाव्यम्): `...` इति यणादेशः।