64082: एरनेकाचोऽसंयोगपूर्वस्य

Padacheda: एः | S | 6 | 1 |

अनेकाचः | S | 6 | 1 |

असंयोगपूर्वस्य | S | 6 | 1 |

Sutrartha

धात्वन्त-अनेकाच्-अङ्गस्य धातोः असंयोगपूर्वस्य इवर्णस्य अजादिप्रत्यये परे यणादेशः भवति ।

अस्य सूत्रस्य अर्थं किञ्चित् क्लिष्टः अस्ति, अतः क्रमेण पश्यामः - 1. अनेन सूत्रेण अजादिप्रत्यये परे यणादेशः प्रोक्तः अस्ति । 2. कस्य यणादेशः? अत्र स्थानी अस्ति ‘असंयोगपूर्वस्य एः धातोः’ । ‘धातोः’ इति विशेष्यम्, ‘असंयोगपूर्वस्य’ तथा ‘एः’ एते विशेषणे । 3. प्रथमं विशेषणमस्ति - ‘एः’ इति । एतत् ‘इ’ इत्यस्य षष्ठी-एकवचनमस्ति । ‘एः धातोः’ इत्युक्ते ‘इवर्णान्त-धातोः’ (येन विधिस्तदन्तस्य (1.1.72) )। 4. अलोऽन्त्यस्य (1.1.52) इत्यनेन अस्य इवर्णान्तधातोः ‘अन्तिमवर्णस्य’ ( = इवर्णस्य) यणादेशः भवतीति अर्थः जायते । 4. ‘धातोः’ अस्य द्वितीयम् विशेषणमत्र प्रयुक्तमस्ति - असंयोगपूर्वः । इत्युक्ते, सः धातुः यस्य अन्तिम-इवर्णात् पूर्वः संयोगः नास्ति । किम् नाम संयोगः? हलोऽनन्तराः संयोगः (1.1.7) इत्यनेन द्वयोः व्यञ्जनयोः स्वरं विना उच्चारणम् संयोगसंज्ञां प्राप्नोति । 5. अतः अत्र स्थानिनः वर्णनम् कथम् कृतमस्ति? सः धातुः यस्य अन्ते इवर्णः अस्ति, तथा यस्मिन् धातौ इवर्णात् पूर्वः संयोगः नास्ति । एतादृशस्य धातोः अन्तिम-इवर्णस्य स्थाने अच्-प्रत्यये परे यणादेशः भवति । 6. अयं स्थानी ‘अनेकाच्-अङ्गस्य’ भवेत् इति उक्तमस्ति । इयम् सम्बन्धषष्ठी । अतः अत्र वर्णितः धातुः अनेकाच्-अङ्गस्य अवयवः भवेत् इति आवश्यकम् । ‘अनेकाच्’ इत्युक्ते सः शब्दः यस्मिन् द्वौ वा अधिकाः स्वराः सन्ति । 7. पदाङ्गाधिकारे तस्य च तदन्तस्य च अनया परिभाषया ‘अनेकाचः अङ्गस्य धातोः’ इत्युक्ते ‘अनेकाच्-अङ्गस्य अन्ते विद्यमानस्य धातोः’ इति अर्थः निष्पद्यते । अतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - यत्र अङ्गमनेकाच् अस्ति, तत्र तस्य अङ्गस्य अन्ते यदि इवर्णान्तः असंयोगपूर्वः धातुः विद्यते, तर्हि तस्य धातोः इवर्णस्य अजादि-प्रत्यये परे यणादेशः भवति । कानिचन उदाहरणानि पश्यामः । 1) ‘सेनानी’ इति दीर्घ-ईकारान्त-पुंलिङ्गशब्दः । ‘सेनां नयति सः’ अस्मिन् अर्थे ‘सेना’ उपपदस्य उपस्थितौ ‘नी’ धातोः क्विप् प्रत्ययं कृत्वा अयं शब्दः सिद्ध्यति । अस्य शब्दस्य प्रथमाद्विवचनस्य ‘औ’ प्रत्यये परे ‘सेनानी + औ’ इति स्थिते अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन इयङ्-आदेशः आगच्छति । परन्तु अत्र अङ्गमनेकाच् तथा धात्वन्तमस्ति, तथा अस्य अन्ते विद्यमानः धातुः असंयोगपूर्वः इवर्णान्तः च अस्ति, अतः इयङ्-आदेशं बाधित्वा अत्र यणादेशः भवति । अतः ‘सेनान्यौ’ इति रूपम् सिद्ध्यति । 2) नी-धातोः लिट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपसिद्धेः प्रक्रिया इयम् - नी + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → नी नी ल् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → नि नी ल् [ह्रस्वः (7.4.59) इति अभ्यासस्य ह्रस्वः] → नि नी तस् [तिप्तस्.. (3.4.78) इति प्रथमपुरुष-द्विवचनस्य प्रत्ययः तस्] → नि नी अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति तस्-इत्यस्य अतुस्-आदेशः] अत्र अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन इयङ्-आदेशस्य प्रसक्तिः अस्ति । परन्तु अत्र अङ्गम् ‘निनी’ इति अनेकाच् तथा असंयोगपूर्व-इवर्णान्त-धात्वन्तमस्ति, अतः परत्वात् अत्र एरनेकाचोऽसंयोगपूर्वस्य (6.4.82) इति यणादेशः विधीयते । → निन्यतुः [एरनेकाचोऽसंयोगपूर्वस्य (6.4.82) इति यणादेशः] 3) ‘यवक्री’ अयम् कश्चन दीर्घ-ईकारान्त-पुंलिङ्गशब्दः । ‘यवान् क्रीणाति’ अस्मिन् अर्थे ‘यव’ उपपदस्य उपस्थितौ ‘क्री’ धातोः क्विप् प्रत्ययं कृत्वा अयं शब्दः सिद्ध्यति । अस्य शब्दस्य प्रथमाद्विवचनस्य ‘औ’-प्रत्यये परे ‘यवक्री + औ’ इति स्थिते अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन इयङ्-आदेशः आगच्छति । अस्यामवस्थायाम् वर्तमानसूत्रस्य प्रसक्तिः नास्ति, यतः ‘यवक्री’ इत्यत्र यद्यपि अङ्गम् धात्वन्तमनेकाच् च अस्ति, तथापि अस्य अन्ते विद्यमानः धातुस्थः इवर्णः असंयोगपूर्वः नास्ति (क्री = क् + र् + ई) । अतः अत्र वर्तमानसूत्रेण यण्-आदेशः न भवति, अतः अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन इयङ्-आदेशे कृते ‘यवक्रियौ’ इति रूपं सिद्ध्यति । 4) नी-धातोः क्विप्-प्रत्ययं कृत्वा ‘नी’ इति दीर्घ-ईकारान्त-पुंलिङ्गः शब्दः जायते । अस्य शब्दस्य प्रथमाद्विवचनस्य ‘औ’-प्रत्यये परे ‘नी + औ’ इति स्थिते अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन इयङ्-आदेशः आगच्छति । अस्यामवस्थायाम् वर्तमानसूत्रस्य प्रसक्तिः नास्ति, यतः ‘नी’ इत्यत्र अङ्गमनेकाच् नास्ति। अतः अत्र अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन इयङ्-आदेशे कृते ‘नियौ’ इति रूपं सिद्ध्यति । 5) ‘उन्नी’ अयं शब्दः उत् + नी इत्यस्मात् सत्सूद्विष… (3.2.61) इत्यनेन क्विप्-प्रत्ययं कृत्वा सिद्ध्यति । अस्मात् अस्य शब्दस्य प्रथमाद्विवचनस्य ‘औ’-प्रत्यये परे ‘उन्नी + औ’ इति स्थिते अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन इयङ्-आदेशः आगच्छति । परन्तु अत्र अङ्गमनेकाच् तथा धात्वन्तमस्ति, तथा अस्य अन्ते विद्यमानः धातुः ‘नी’ इति इवर्णान्तः अस्ति, असंयोगपूर्वः च अस्ति, अतः इयङ्-आदेशं बाधित्वा अत्र यणादेशः भवति । अतः ‘उन्न्यौ’ इति रूपम् सिद्ध्यति । (स्मर्तव्यम् - अस्मिन् सूत्रे ‘अङ्गम्’ असंयोगपूर्वमुक्तम् नास्ति, ‘धातुः’ असंयोगपूर्वः उक्तः अस्ति । अतः ‘उन्नी’ इत्यत्र यद्यपि अङ्गम् संयोगपूर्वमस्ति, तथापि अयं संयोगः धातौ स्थितः नास्ति, उपसर्ग-धातोः योजनेन निर्मितः अस्ति । अतः अत्र धातुः असंयोगपूर्वः एव स्वीक्रियते ।] अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!गतिकारकेतरपूर्वपदस्य यण् नेष्यते!> । इत्युक्ते, यदि अङ्गे विद्यमानम् पूर्वपदम् गतिसंज्ञकम् कारकसंज्ञकं वा नास्ति, तर्हि अयम् यणादेशः न भवति । यथा - 1. ‘प्रध्यायति सः’ इत्यर्थे ‘प्रधी’ इति प्रातिपदिकम् सिद्ध्यति । अत्र पूर्वपदम् ‘प्र’ इति गतिसंज्ञकमस्ति, अतः अत्र वर्तमानसूत्रेण यणादेशं कृत्वा ‘प्रध्यौ’, ‘प्रध्यः’ आदीनि रूपाणि सिद्ध्यन्ति । 2. ‘परमम् ब्रह्म ध्यायति सः’ इत्यर्थे ‘परमधी’ इति प्रातिपदिकम् सिद्ध्यति । अत्र पूर्वपदम् ‘परम’ एतत् कारकसंज्ञकं अस्ति, यतः विग्रहवाक्ये एतत् कर्मकारकत्वं प्राप्नोति । अतः अत्रापि त वर्तमानसूत्रेण यणादेशं कृत्वा ‘परमध्यौ’, ‘परमध्यः’ आदीनि रूपाणि सिद्ध्यन्ति । 3. ‘परमा धीः यस्य सः’ इत्यर्थे अपि ‘परमधी’ इति प्रातिपदिकं सिद्ध्यति । परन्तु अत्र परम-शब्दः गतिसंज्ञकः अपि नास्ति, तथा कारकसंज्ञः नास्ति, अतः अत्र अनेन सूत्रेण यद्यपि अङ्गमनेकाच् तथा असंयोगपूर्व-इवर्णान्त-धात्वन्तमस्ति, तथाप्यत्र यणादेशः न भवति । अतः अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन इयङ्-आदेशः एव जायते । यथा - परमधियौ, परमधियः ।

Sutrartha (English)

An इवर्ण occurring at end of an a असंयोगपूर्व धातु which in turn occurs at end of an अनेकाच् अङ्ग is converted to यण् letter when followed by an अजादिप्रत्यय.

Vasu English Summary

A semi-vowel is substituted before an affix beginning with a vowel for the final of इ or ई of a root, not preceded by a conjunct consonant forming part of the root, when the अङ्ग (stem) is mono-syllabic.

Vasu English Translation

A semi-vowel is substituted before an affix beginning with a vowel for the final of इ or ई of a root, not preceded by a conjunct consonant forming part of the root, when the अङ्ग (stem) is mono-syllabic. The word धातोः is understood here, and the word संयोग is qualified by that: i. e. the इ or ई which is not preceded by conjunct consonant forming part of the root is called an asamyoga parva इ ॥ Thus निन्यतुः, निन्युः, उन्न्यौ, उन्न्यः, ग्रामण्यौ, ग्रामण्यः ॥ All the above examples are of the root नी preceded by the gati prepositions नि and उत्, or a Karaka-upapada ग्राम ॥ The rule will not apply however if the preceding word is neither a gati nor a Karaka, but an adjective, as परमनी, its dual and plural will be परमनियौ and परमनियः by इवङ् ॥ Why do we say ‘of इ or ई’? Observe लुलुवतुः and लुलुवः from लुलू which ending in ऊ takes उवङ् substitution. This is also shown in the next sutra. Why do we say the stem should be of more than one syllable? Observe नी; its dual and plural are नियौ and नियः by इयङ् ॥ Why do we say the इ or ई should not be preceded by a conjunct consonant? Observe यवक्री dual यवक्रियौ plural यवक्रियः by इयङ् ॥ Why do we say “forming part of the root”? So that the rule may apply to उन्नी also. Here though ई is preceded by a conjunct न्न्, yet the latter is not part of the root, one न् being part of the upasarga उत् ॥ Thus we have उन्न्यौ and उन्न्यः ॥ The phrase असंयोगपुर्व should in fact be taken as qualifying the letter ई, and not as qualifying the word अङ्ग ॥

Bhashya

एरनेकाचोऽसंयोगपूर्वस्य (3080) (सूत्रार्थदर्शकभाष्यम्) इह कस्मान्न भवति - ब्राह्मणस्य नियौ, ब्राह्मणस्य नियः ? अङागाधिकारात् । अङ्गस्येति वर्तते ॥ एमवपि - परमनियौ, परमनिय इत्यत्रापि प्राप्नोति । गतिकारकपूर्वस्यैवेष्यते ॥ (6568 उपसंख्यानवार्तिकम् ॥ 1 ॥) - यणादेशः स्वरपदपूर्वोपधस्य च - यणादेशः स्वरपूर्वोपधस्य पदपूर्वोपधस्येति वक्तव्यम् । स्वरपूर्वा च यस्योपधा पदपूर्वा च । स्वरपूर्वा - निन्यतुः, निन्युः । पदपूर्वा - उन्न्यौ, उन्नयः । उद्ध्यौ, उद्ध्यः । उभयपूर्वा - ग्रामण्यौ, ग्रामण्यः । सेनान्यौ, सेनान्य इति ॥ (6569 उपसंख्यानप्रयोजनवार्तिकम् ॥ 2 ॥) - असंयोगपूर्वे ह्यनिष्टप्रसङ्गः - असंयोगपूर्वस्येत्युच्यमाने, अनिष्टं प्रसज्येत - उन्न्यौ, उन्न्यः । उद्ध्यौ, उद्ध्यः । असंयोगपूर्वस्येति प्रतिषेधः प्रसज्येत ॥ (वार्तिकार्थसाधकभाष्यम्) तत्तर्हि वक्तव्यम् । न वक्तव्यम् । धातोः इति वर्तते, धातुना संयोगं विशेषयिष्यामः - धातोर्यः संयोगस्तत्पूर्वस्य नेति । उपसर्जनं वै संयोगः, न चोपसर्जनस्य विशेषणमस्ति । धातोरित्यनुवर्तनसार्मथ्यादुपसर्जनस्यापि विशेषणं भविष्यति । अस्त्यन्यत् धातोरित्यनुवृत्तौ प्रयोजनम् । किम् ? इवर्णं विशेष्यते । नैतदस्ति प्रयोजनम् । यद्ध्यधातोरिवर्णं, भवितव्यमेव तस्य यणादेशेन इको यणचि (6.1.77) इति ॥

Kashika

धातोरिति वर्तते, तेन संयोगो विशेष्यते। धातोरवयवः संयोगः पूर्वो यस्मादिवर्णाद् न भवत्यसावसंयोगपूर्वः, तदन्तस्याङ्गस्यानेकाचोऽचि परतो यणादेशो भवति। निन्यतुः, निन्युः। उन्न्यौ, उन्न्यः। ग्रामण्यौ, ग्रामण्यः। एरिति किम्? असंयोगपूर्वग्रहणमिवर्णविशेषणं यथा स्याद्, अङ्गविशेषणं मा भूदिति। लुलुवतुः, लुलुवुः इत्येतत् तु ओः सुपि (६.४.८३) इति नियमादपि सिध्यति। अनेकाच इति किम्? नियौ, नियः। असंयोगपूर्वस्येति किम्? यवक्रियौ, यवक्रियः। धातुना संयोगविशेषणं किम् ? इहापि न स्याद्। उन्न्यौ, उन्न्य इति । गतिकारकाभ्यामन्यपूर्वस्य नेष्यते। परमनियौ, परमनिय इति॥

Siddhanta Kaumudi

धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्याऽनेकाचोऽङ्गस्य यण्स्यादजादौ प्रत्यये परे । इति यण् । कुमार्यौ कुमार्यः । हे कुमारि । अमि शसि च । कुमार्यम् । कुमार्यः । कुमार्यै । कुमार्याः 2 । कुमारीणाम् । कुमार्याम् । प्रधीः । प्रध्यौ । प्रध्यः । प्रध्यम् । प्रध्यः । उन्नयतीत्युन्नीः । धातुना संयोगस्य विशेषणादिह स्यादेव यण् । उन्न्यौ । उन्न्यः । हे उन्नीः । उन्न्यम् । ङेराम् । उन्न्याम् । एवं ग्रामणीः । अनेकाचः किम् । नीः । नियौ । नियः । अमि शसि च परत्वादियङ् । नियम् । नियः । ङेराम् । नियाम् । असंयोगपूर्वस्य किम् । सुश्रियौ । यवक्रियौ ॥<!गतिकारकेतरपूर्वपदस्य यण्नेष्यते !> (वार्तिकम्) ॥ शुद्धधियौ । परमधियौ । कथं तर्हि दुर्धियो वृश्चिकभियेत्यादि । उच्यते । दुःस्थिता धीर्येषामिति विग्रहे दुरित्यस्य धीशब्दं प्रति गतित्वमेव नास्ति । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः । वृश्चिकशब्दस्य बुद्धिकृतमपादानत्वं नेह विवक्षितम् । वृश्चिकसंबन्धिनी भीर्वृश्चिकभीरित्युत्तरपदलोपो वा ॥

Laghu Siddhanta Kaumudi

धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यणजादौ प्रत्यये। प्रध्यौ। प्रध्यः। प्रध्यम्। प्रध्यौ। प्रध्यः। प्रध्यि। शेषं पपीवत्। एवं ग्रामणीः। ङौ तु ग्रामण्याम्॥ अनेकाचः किम्? नीः। नियौ। नियः। अमि शसि च परत्वादियङ्, नियम्। ङेराम्; नियाम्॥ असंयोगपूर्वस्य किम्? सुश्रियौ। यवक्रियौ॥

Balamanorama

एरनेकाचोऽसंयोगपूर्वस्य - एरनेकाचः ।इणो य॑णित्यतो यणित्यनुवर्तते । एरिति षष्ठन्तम् । इवरस्येत्यर्थः । पूर्वसूत्रे श्नुधातुभ्रुवामिति द्वन्द्वनिर्देशेऽपि धातोरिति पृथक्कृत्य षष्ठन्तमनुवर्तते नतु श्नुभ्रुवावपि । तत्र इवर्णाऽभावात् । धातोरित्यनुवृत्तं चावर्तते । एकमवयवषष्ठन्तम्, अन्यत्स्थानषष्ठन्तम् । एरिति च धातोरिति षष्ठन्तस्य विशेषणं, ततः-तदन्तविधिः । इवर्णान्तधातोरित्यर्थः । अवयवषष्ठन्तं धातोरित्येतत्-॒असंयोगपूर्वस्ये॑त्यत्र संयोगांशेऽन्वेति । धात्ववयवसंयोगः पूर्वा यस्मात्स धात्ववयवसंयोगपूर्वः, तद्भिन्नः=असंयोगपूर्वः , तस्येति इवर्णविशेषणम् ।अङ्गस्ये॑त्यधिकृतं स्थानषष्ठयन्तधातुना विशेष्यते, तदन्तविधिः । अनेकोऽच् यस्य तस्य अनेकाच इत्यङ्गान्वयि ।अचि श्नुधातुभ्रावा॑मित्यतोऽचीत्यनुवर्तते । तच्चाङ्गाक्षिप्तस्य प्रत्ययस्य विशेषणं तदादिविधिः । तदाह-धात्ववयवेत्यादिना । हरिं हरीनित्यादौ यण्निवृत्त्यर्थंधातो॑रित्यङ्गविशेषणम् । अन्यथा प्रध्यमित्यादाविव पूर्वरूपादीन्बाधित्वा यण् स्यात् । धात्ववयवेति संयोगाविशेषणस्य तु प्रयोजनम् । उन्नीशब्दनिरूपणावसरे मूल एव स्फुटीभविष्यति ।अनेकाचोऽसंयोगा॑दित्येव सुवचम् । य्वोरित्यनुवर्तते ।धात्ववयवसंयोगात्परौ न भवतो यौ इवर्णोवर्णौ तदन्तस्ये॑त्यर्थलाभः ।ओः सुपी॑ति तु नियमार्थः-॒उवर्णस्य सुप्येव य॑णिति । ततश्च लुलुवतुरित्यादौ त्वतिप्रसङ्गाऽभाव इत्यलम् । इति यणिति । कुमार्यौ, कुमार्य इत्यत्र ‘एरनेकाचः’ इति इयङपवादो यणित्यर्थः । नन्वन्तर्वर्तिसुपा अमाक्यजन्तस्य कुमारीशब्दस्य पदत्वात् ‘इकोऽसवर्णे’ इति प्रकृतिभावः स्यात् । अल्लोपस्य स्थानिवद्भावेऽपि तमाश्रित्यैव स दुर्वार #इति चेन्मैवम् — ॒नः क्ये॑ इति क्यचि नान्तस्यैव पदत्वनियमात् । अमि शसि चेति । अमि पूर्वरूपं शसि पूर्वसवर्णदीर्घं च बाधित्वा इयङि प्राप्ते तदपवादे ‘एरनेकाचः’ इति यणि, अमि कुमार्यं, शसि कुमार्य इति रूपम् । ‘तस्माच्छसः’ इति नत्वं तु न, कृतपूर्वसवर्णदीर्घात्परत्वाऽभावात् । तथाच बहुश्रेयसीशब्दापेक्षया अम्शसोरेव रूपे विशेष इति भावः । प्रधीरिति । प्रध्यायतीति प्रधीः ।ध्यायतेः संप्रसारणं चे॑ति क्विप् । यकारस्य संप्रसारणमिकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । ‘हलः’ इति दीर्घः । कृदन्तत्वेन प्रातिपदिकत्वात्सुबुत्पत्तिः । अङ्यन्तत्वान्न सुलोपः । अजादौ सर्वत्र ‘एरनेकाचः’ इति यणेव । अस्त्रीत्वान्नदीकार्यं न । हे प्रधीः प्रध्यौ प्रध्यः । प्रध्यं प्रध्यः । प्रध्या । प्रध्ये । प्रध्योः । प्रध्यि । प्रकृष्टा दीर्यस्य स इति विग्रहे तु दीशब्दस्य नित्यस्त्रीत्वात्प्रथमलिङ्गग्रहणं चे॑ति नदीत्वान्नदीकार्यम् । अङ्यन्तत्वान्न सुलोपः । प्रधीः । शेषमुदाहृतक्विबन्तकुमारी शब्दवत् । हे प्रधि । प्रध्यौ । प्रध्यः । प्रध्यम् । प्रध्यौ । प्रध्यः । प्रध्या । प्रध्यै । प्रध्या २ । प्रधीनाम् । प्रध्याम् । उन्नीरिति ।सत्सूद्विषे॑त्यादिना उत्पूर्वान्नीधातोः क्विप् । सुबुत्पत्तिः । अङ्यन्तत्वान्न सुलोपः । अजादौ तु प्रत्यये परे ‘एरनेकाचः’ इति यण् । नन्वत्र इवर्णस्य संयोगपूर्वकत्वात्कथमत्र यणित्यत आह — धातुनेति । धात्वयवसंयोगपूर्वस्यैव यण् पर्युदस्यते । नचाऽत्र संयोगो धात्ववयव इति भावः । हे उन्नीरिति । अस्त्रीत्वादनदीत्वादम्बार्थेत्यादिना नदीकार्यं नेति भावः । उन्न्यमिति । पूर्वरूपापवादो यणितिभावः । हे उन्नीरिति । अस्त्रीत्वादनदीत्वादम्बार्थेत्यादिना नदीकार्यं नेति भावः । उन्न्यमिति । पूर्वरूपापवादो यणिति भावः । शसादौ-उन्न्यः । उन्न्या । उन्न्ये । उन्न्यः । उन्न्योः । ङेरामिति । नदीत्वाऽभावेऽपि ‘ङेराम्’ इति सूत्रे नीशब्दस्य पृथग्ग्रहणादाम् । आङ्गत्वेन नीशपब्दान्तादपि भवतीति भावः । एवं ग्रामणीरिति । ग्रामं नयति=नियच्छतीति ग्रामणीः ।अग्रग्रमाभ्यां नयतेर्णो वाच्यः॑ इति णत्वम् । अनेकाचः किमिति.॒एरनेकाचः इत्यत्रे॑ति शेषः । नीरिति । नीधातोः केवलात्पूर्ववत्क्विप् । अनेकाच्त्वाऽभावान्न यण् । किंतुअचि श्नुधात्वि॑ति इयङ् । एतावदेव उन्नीशब्दादस्य वैलक्षण्यमिति भावः । सुश्रियाविति । ‘श्रिञ् सेवायाम् ।’ ‘क्विब्वची’ इत्यादिना क्विप् । प्रकृतेदीर्घश्च । सु श्रयतीति, शोभना श्रीरस्येति वा सुश्रीः । ततोऽजादिप्रत्यये यण् न भवति । इवर्णस्य धात्वयवसंयोगपूर्वकत्वादिति भावः । यवक्रियाविति । यवान् क्रीणातीति यवक्रीः । क्रीञ्धातोः क्विपि रूपम् । अत्रापि धात्ववयवसंयोगपूर्वकत्वान्न यणिति भावः ।॒एरनेकाचः॑ इति सूत्रेगतिकारकपूर्वस्यैवेष्यते॑ इति वार्तिकं पठितं, तत्तात्परय्तः सङ्गृह्णाति — गतिकारकेतरेति । यथाश्रुते तूदाहृतक्विबन्तकुमारीशब्दे यण् न स्यात् । शुद्धधियाविति । शुद्धा धीर्यस्येति विग्रहः । अत्र शुद्धशब्दस्य गतिकारकेतरत्वात्तत्पूर्वकस्य न यणिति भावः । शुद्धं ब्राहृ ध्यायतीति विग्रहे तु स्यादेव यण् — शुद्धध्यौ इत्यादि । कथं तर्हीति । यदि गतिकारकेतरपूर्वस्यैव यण् पर्युदस्यते, गतिकारकपूर्वस्य त्ववश्यं यण्, तदा दुर्धियः वृश्चिकमिय इत्यादि कथमित्यन्वयः । आदिना दुर्धियौ वृश्चिकभियौ इत्यादिसङ्ग्रहः । दुःस्थिता धीर्येषामिति विग्रहः ।प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः॑ इति बहुव्रीहिः । पूर्वपदे उत्तरखण्डस्य लोपश्च । वृश्चिकाद्भोरिति विग्रहः । अत्र दुरो गतित्वाद्वृश्चिकस्या.ञपादनत्वाच्च गतिकारकपूर्वत्वात्पर्युदासाऽभावे सतीयङपवादोऽत्र यण् दुर्वार इत्याक्षेपः । उच्यते । इति । ‘परिहार’ इति शेषः । गतित्वमेव नास्तीति ।उपसर्गाः क्रियायोगे॑गतिश्चे॑ति प्रादीनां क्रियान्वये गत्युपसर्गसंज्ञे विहिते । धीशब्दश्च बुद्धिगुणवाची, न तु क्रियावाची । अतो न तं प्रति दुरो गतित्वमिति गतिपूर्वकत्वाऽभावान्नात्र यण्, किंतु इयङेवेत्यर्थः । ननु लुप्तस्य स्थिताशब्दस् क्रियाप्रवृत्तिनिमित्तकत्वात्तं प्रति दुरो गतित्वमस्त्येवेत्यत आह — यत्क्रियेति । यया क्रियया युक्ताः प्रादयस्तं प्रत्येव=तद्वाचकशब्दे प्रत्येव गत्युपसर्गसंज्ञका इत्यर्थः । नचैवमप्यत्र स्थिताशब्दं लुप्तं प्रति प्रवृत्तं दुरो गतित्वमादाय दुर्धोशब्दस्य गतिपूर्वकत्वम्स्त्येवेति वाच्यं, यत्क्रियायुक्ताः प्रादयस्तत्क्रियावाचकं प्रत्येव गत्युपसर्गत्वम् । तथाविधिक्रियावाचकस्यैव च गत्युपसर्गकार्यमित्यर्थस्य विवक्षितत्वात् । ‘यत्क्रियायुक्ताः’ इति प्रत्यासत्तिन्यायलभ्यम् । वृश्चिकेति । वृश्चिकशब्दस्याऽपादानत्वं नेह विवक्षितत्वात् । ‘यत्क्रियायुक्ताः’ इति च प्रत्यासत्तिन्यायलभ्यम् । वृश्चिकेति । वृश्चिकशब्दस्याऽपादानत्वं नेह विवक्षितमित्यन्वयः । कुत #इत्यत आह — बुद्धिकृतमिति । आरोपितमित्यर्थः । अपादानत्वं हि विश्लेषावधित्वम् । नह्यत्र वृक्षात्पर्णं पततीत्यत्र पर्णविश्लेषे वृक्षस्यैव भयविश्लेषे वृश्चिकस्याऽवधित्वमस्ति, वृक्षे पर्णवद्भयस्य वृश्चिके संश्लेषाऽभावात्, विश्लेषस्य संश्लेषपूर्वकत्वात् । उक्तं च भाष्ये — ॒विवक्षितः कारकाणि भवन्ती॑ति । प्रकृते च वृश्चिकेऽपादानत्वारोपस्य वक्रधीनत्वादिह च तदनारोपात्सम्बन्धमात्रविक्षया षष्ठीमाश्रित्यवृश्चिकस्य भी॑रिति षष्ठीसमासे वृश्चिकभीशब्दस्य व्युत्पत्तिराश्रीयते । ततश्च कारकेतरपूर्वकत्वान्नात्र यणिति भावः । नच वृश्चिकाद्भीरित्यादौ बुद्धिकृतमेवापादानत्वमादाय पञ्चम्युपपत्तेःभीत्रार्थाना॑मिति व्यर्थमिति वाच्यं, तस्य सूत्रस्य भाष्ये प्रत्याख्यातत्वेन इष्टापत्तेरित्यलम् । परिहारान्तरमाह-वृश्चिकसम्बन्धिनीति । उत्तरपदेति । वृश्चिकसम्बन्थिनीति पूर्वपदे उत्तरखण्डस्य सम्बन्धिनीशब्दस्य लोपः शाकपार्थिवादित्वादित्यर्थः । सुष्ठु ध्यायतीति सु=शोभना धीर्यस्येति वा विग्रहे सुधीशब्दः । अत्र अजादौ परे ‘एरनेकाचः’ इति यणि प्राप्ते- ।

Tattvabodhini

एरनेकाचोऽसंयोगपूर्वस्य - एरनेकाचः ।इणो यण्इत्यतो यणिति वर्तते ।अचि श्नुधातु — ॑इति सूत्रादिह धातुरेवानुवर्तते, न तु श्रुभ्रुवौ, तयोरिवर्णाऽसंभवात् । धातुग्रहणं चावृत्त्योभयोर्विशेषणं, संयोगस्याङ्गस्य चेति ब्याचष्टे — धात्ववयवसंयोगेत्यादि । तत्र धातुना संयोगस्य विशेषणादिह यण् — , उन्न्यौः । उन्न्यः ।हरी॒॑हरी॑नित्यादि सिह्रार्थं धातुना अङ्गं विशेष्यते । अन्यथाप्रध्यं॒॑प्रध्य॑इत्यादाविव पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा यण्स्यात्, धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तत्वादङ्गस्य । प्रधीरिति । प्रध्यायतीति प्रधीः ।ध्यायतेः संपर्सारणं चे॑ति क्किपि संप्रसारणे पूर्वरूपे च कृतेहलः॑इति दीर्घः । यदा तुप्रकृष्टा धीर्बुद्धिर्यस्ये॑ति विगृह् ।यते तदा धीशब्दस्य नित्यस्त्रीत्वात्प्रथमलिङ्गग्रहणं चे॑ति नित्यस्त्रीलिङ्गातिदेशे यथासंभवं नदीकार्यं बोध्यम् ।प्रथमलिङ्गग्रहणं चे॑ति वार्तिकस्य प्रथमलिङ्गंयू स्त्र्याख्यौ॑इत्यनेन नदीत्वं वक्तव्यमित्यर्थात् । एरनेकाचेति यण्विषयटत्वेननेयडुवङ् -॑इति निषेधस्याऽप्रवृत्तेश्चेत्येके । अन्ये त्वाहुः -एवं तर्हि यथोद्देशप्रवृत्तौ न्यायसिद्धमिदमिति मनोरमादिग्रन्थो विरुध्येत । यथोद्देशपक्षेऽपि प्रधीशब्दार्थतया वचनस्यावश्यकत्वात् । मूले हिउपसर्जनत्वेऽपि नदीत्वं वक्तव्य॑मित्युक्तं, न तु नित्यस्त्रीत्वमिति । तस्मात्प्रथमलिङ्गग्रहण॑मित्यनेन लिङ्गप्रयुक्तं यन्नदीत्वं वृत्तेः प्राक् स्थितं तदिहाऽतिदिश्यते । धीशब्दे तुनेयङुवङ् — ॑इति निषेधेन मदीत्वाऽभावान्नास्त्येव प्रधीशब्दे नदीत्वातिदेश इति ।ङिति ह्रस्वश्चे॑ति वैकल्पिकनदीत्वमपीह नातिदिश्यते ।प्रथमलिङ्गे॑ति वचनं यथोद्देशे न्यायसिद्धमिति ग्रन्थानुरोधेनः वृत्तेः प्रागवस्थायामवयवत्वेनाभिमतेऽपि विद्यमानाया एव नदीसंज्ञायाः समुदाये अभ्युपेयत्वात् । न च प्रकृष्टा धीर्यस्य तस्मै प्रध्ये प्रध्य इत्यादौ प्रथमान्तधीशब्दस्य ङिति परे प्रवर्तमाना नदीसंज्ञाऽस्तीति दिक् । उन्नीरिति ।सत्सूद्विषे॑त्यादिना क्किप् । ङेरामिति । अङ्गत्वान्नीशब्दान्तादपि ङेराम्भवतीति भावः । ग्रामणीरिति । ग्रामं नयतीति ग्रामणीः ।अग्रग्रामाभ्यां नयते॑ रितिणत्वम् । नीरिति । नयतीति नीःष क्किप् ।गतिकारकेतरेति ।गतिकारकपूर्वस्यैव यणिष्यते॑इति तु नोक्तम्, कुमारीमिच्छन् ब्राआहृणः कुमारी, कुमार्यौ कुमार्य इत्यत्र यणभावप्रसङ्गात् । शुद्धधियाविति । यदा तु शुद्धं ब्राहृ ध्यायतीति विगृह्रते तदा भवत्येव यण् । शुद्धध्यौ । शुद्धध्यः । एवमग्रेऽपि । कथं तर्हीति । गतिकारकेतरपूर्वपदत्वमिह नास्तीतियणैव भाव्यमिति प्रश्नः ।दुर्धिय॑इत्यत्रप्रादिभ्यो धातुजस्ये॑ति वार्तिकेन उत्तरपदलोपो बोध्य इत्याशयेनाह — दुःस्थिता धीर्येषामिति । वृश्चिकशब्दस्येति । भाष्यकृता हि बुद्धिपरिकल्पितपायमाश्रित्यभीत्रार्थाना॑मिति सूत्रं प्रत्याख्यातं । ततश्च सम्बन्धमात्रविवक्षायां षष्ठएवेति नास्त्यत्र कारकपूर्वत्वमिति भावः ।ओः सुपी॑त्यतःसुपी॑त्यनुवर्तनादाह —

Padamanjari

तेन संयोगो विशेष्यते इति । यद्यप्यन्यपदार्थं प्रति गुणभूतः संयोगः, तथापि स एव विशेष्यते धातोः इत्यनुवृतस्य प्रयोजनान्तराभावात् । अस्तीदं प्रयोजनम् - इवर्ण विशेषयिष्यामीति नैतदस्ति यद्यधातोरिवर्णोऽसंयोगपूर्वः, भवितव्यमेव तस्य यणा इको यणचि इति, तद्यथा - कुमार्थौ, कुमार्य इति । ननु ग्रहमणीवदधातोः पूर्वसवर्णं बाधित्वा यण् मा भूदिति धातुनैवेवर्णो विशेषणीयः नेत्याहः इयङ्बाधनार्थो यण् । न च धातोरियङः प्रसङ्गोऽस्ति, तत्कथमधातुनिवृत्यर्था धात्वनुवृत्तिरुपद्यते, तस्मात्सुष्ठूअक्तम् - गुणभूत एव संयोगो विशेष्यत इति । अङ्गविशेषणं मा भूदिति । अन्यथाधिकारेण सन्निहितस्य तस्यैव विशेषणं स्यादसंयोगपूर्वग्रहणम्, ततश्च यवक्रियौ, यषक्रियः - इत्यत्रापि प्रसध्येत, न ह्यत्राङ्गस्य संयोगः पूर्वोऽवयव इति । ननु च य्वोरिति प्रकृतम् , तत्र एरित्यनुच्यमाने ओरपि यण् स्यात् - लुलुवतुरित्यादौ, ततश्च तन्निवत्यर्थमपि स्यात् इत्यत आह एलुलुवलुर्ल्लवुरित्येतत्विति । इह एरित्यनुच्यमानेनैवौ रपिसिद्धत्वाद् ओः सुपि इत्येतन्नियमार्थं भवति - ओः सुप्येवेति । वपरीतस्तु नियमो न भवतिओरेव सुपीति न भूसुधीयोः इति यण्प्रतिषेधात् । ततश्चास्तमादेव नियमाल्लुलुवुरित्यादौ सिद्धत्वादेरित्येतदोर्मिवृत्यर्थं नोपपद्यते इति पूर्वोक्तमेव प्रयोजनम् । यदि त्वसंयोगपूर्वयोरिति द्विवचननिर्देशेन य्वोरेवैतद्विशेषणमुच्येत, तर्ह्योरिति शक्यमकर्तुम् । इहापि न स्यादिति । यदि धातुना संयोगो न स्यादिति । यदि धातुना संयोगो न विशेष्येतेति भावः । क्वचिद् इहापि यथा स्यादिति पाठः, तत्र प्रकृतत्वाद्यणादेश इत्यर्थः ।गतिकारकाभ्यामित्यादि । इष्टिरेवैषा । परमनियाविति । भावे कर्तरि वा क्विप् ॥

Nyaas

तेन संयोगो विशेष्यते इति। ननु चान्यपदार्थे गूणीभूतत्वादुपसर्जनमत्र संयोगः। नचोपसर्जनं विशेषणेन सम्बन्धमनुभवति। तथा हि शोभनो राजपुरुष इत्युक्ते पुरुषस्येव प्रधानस्य शोभनत्वेन योगो गम्यते, नोपसर्जनस्य राज्ञः; नैतदस्ति; धातोरित्यनुवृत्तिसामर्थ्यादुपसर्जनमपि संयोगविशेषणेन सम्बन्धमनुभविष्यति, अन्यथा धात्वानुवृत्तिरपार्थिका स्यात्। न त्विवर्णविशेषणार्थं धातुग्रहणमिहानुवृत्तं स्यात्? नैतदस्ति; यदधातोरिवर्णान्तं तस्य हि भवितव्यमेव यणादेशेन इको यणचि (6.1.77) इत्यनेनेन। निन्यतु; निन्युः इति। नयतोर्लिट्। इयङादेशे प्राप्ते यणादेशः। उन्न्यौ उन्न्यः इति। उन्नयतीति सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् (3.2.61) इत्यादिना क्विप्। एवं ग्रामण्यौ, ग्रामण्यः इत्यत्रापि। अग्रग्रामाभ्याञ्च (वा) इति णत्वम्। असंयोगपूर्वग्रहणम् इत्यादि। यद्येरिति। नोच्येत, ततोऽसंयोगपूर्वङ्गस्य विशेषणं स्यात्, एवञ्च यवक्रियौ, यवक्रिय इत्यत्रापि स्यात्। भवति ह्रेतदंसयोगपूर्वमङ्गम्, तस्मात्? एः इत्युच्यते। असंयोगपूर्वग्रहणमिकारस्य विशेषणं यथा स्यादङ्गस्य मा भूदित्येवमर्थम्। ननु च य्वोः इति प्रकृतम्, तत्र यद्येरिति नोच्येत, तदोवर्णान्तस्यापि स्यात्; ततश्च लुलुवतुः, लुलुवुरिति न सिद्ध्येत्। तस्मादुवर्णान्तस्य मा भूदित्येवमर्थमेरिति स्यादित्यत आह -लुलुवतुः, लुलुवुः इत्यादि। इहैरोरित्युच्यमाने, अनेनैवोवर्णस्यापि सिद्धे सति ओः सुपि (6.4.83) इति नियमर्थं स्यात् -उवर्णान्तस्य यदि भवति तदा सुप्येव, नान्यत्रेति। ततश्चास्मादेव नियमात्? ल्लुलुवतुः, लुलुवुरिति सिद्ध्यतीति एरित्येतदुवर्णान्तनिवृत्त्यर्थं नोपपद्यते। तस्मात्? पूर्वोक्तमेवास्य प्रयोजनं युक्तम्। यवक्रियौ यवक्रियः इति। यवान्? क्रीणातीति अन्येभ्योऽपि दृश्यते (3.2.178) इति क्विप्। अत्रेकारस्य धात्ववयवसंयोगपूर्वत्वान्न भवति। इहापि न स्यात् इति। यदि धातुना संयोगो न विशिष्येतेति शेषः। क्वचिदिहापि यथा स्यादिति पाठः। तत्र प्रकृतत्वाद्यणादेश इति विज्ञायते। यदि धातुनासंयोगो न विशिष्येत, तदा धात्ववयवोऽधात्ववयवो वा संयोगः पूर्वो यस्माद्भवति तदन्तस्य न भवतीति विज्ञायते। ततश्चोन्न्यौ, उन्न्य इत्यत्रापि न स्यात्; संयोगपूर्वत्वादिवर्णस्य। धातुना संयोगे विशेषिते तु भवति। न ह्यत्रेवर्णो धात्ववयवसंयोगपूर्वः। तस्मादिहापि यथा स्यादिदि धातुना संयोगो विशिष्यतदे। गतिकारकाभ्याम् इत्यादि। अथ कथमिदं पुनरिष्यमाणमपि न भवति? पूर्वग्रहणात्। इह पूर्वग्रहणं न कर्त्त्यम्, एरनेकाचोऽसंयोगात् इत्येवोच्येत। तत्र, धात्ववयवसंयोगाद्य इवर्णः परो न भवति तदन्तस्याङ्गस्य यण्भवति -इत्येवं विज्ञायमाने सिद्ध्यत्येवेष्टमिति किं पूर्वग्रहणेन? तत्? क्रियते पूर्वाचार्यैः -यस्य विहितोऽयं यण्? तस्यैव कर्तव्यो नान्यस्येत्यस्यार्थस्य सूचनार्थम्। पूर्वाचार्याश्च क्विबन्तस्य गतिकारकपूर्वस्यैव कृतवन्तः, नान्यस्येति। तस्मादिहापि गतिकारकाभ्यामन्यपूर्वस्य न क्रियते। अथ वा वाम्शसोः (6.4.80) इत्यतो मण्डूकप्लुतिन्यायेन वा इत्यनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन गतिकारकाभ्यामन्यपूर्वस्य न भविष्यतीति। अस्मश्च व्याख्याने पूर्वग्रहणं विस्पष्टार्थं वेदितव्यम्। `परमनियौ इति। सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (2.1.61) इत्यादिना समासः। अत्र परमशब्दो न गतिः, न च कारकमिति तत्? पूर्वस्य न भवति॥

Praudhamanorama

‘अचि श्नुधातु’ इति सूत्रे द्वन्द्वनिर्देशेऽपि धातुरेवेह सम्बध्यते न तु श्नुभ्रुवौ, तयोरिवर्णासम्भवात्। धातुग्रहणं चावृत्त्या उभयोर्विशेषणं संयोगस्य चाङ्गस्य चेति व्याचष्टे— धात्ववयवसंयोगेत्यादि। तत्र धातुना संयोगस्य विशेषणादिह यण्—उन्न्यौ, उन्न्यः। अङ्गविशेषणन्तु ‘हरिम्, हरी, हरीन्’ इत्यादिसिद्धये। यदि हि धातुनाङ्गं न विशेष्येत तर्हि इहापि ‘प्रद्ध्यं, प्रद्धयः’ इत्यादाविव पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा यण् स्यात्। धात्ववयवसंयोगपूर्वको न भवति य इवर्णस्तदन्तत्वादङ्गस्य। वृश्चिकशब्दस्येति। भाष्यकृता हि बुध्दिपरिकल्पितमपायमाश्रित्य ‘भीत्रार्थानाम्’ इति सूत्रं प्रत्याख्यातम्, ततश्च सम्बन्धमात्रविवक्षायां षष्ठ्येवेति भावः। सूत्रमतेऽप्याह-

Prakriyasarvasvam

धात्वंशः संयोगः पूर्वो यस्मादिवर्णान्नास्ति, तदन्तानामनेकाचामङ्गानां धातुस्थस्येवर्णस्याचि परे यण् स्यात् । नेन्यः । जेज्यः । संयोगपूर्वस्येवर्णस्य त्वियङेव । शेश्रियः । उदन्ताद् यङो लुङ् नेति केचिदिति कौमुदी । ‘रु शब्दे’ । रोरूय अ ।

Sarala

एरिति । एः - षष्ठ्यन्तम्, असंयोगपूर्वस्य - षष्ठ्यन्तम् । ग्रामणीः = ग्रामाधिपः, नापितोऽपि (ठाकुर व नाई) । नीः = नेता ॥

Sudha

एरनेकाच इति । इको यणचि**(6.1.77) इत्यतो यण् इति **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इत्यतो धातुरित्यनुवर्तते, तच्चावर्तते । तस्मादेव सूत्रात् अचीति चानुवर्तते । अङ्गस्येत्यधिकृतम् । ततश्च प्रत्यये परत इति लभ्यते । अचीति तद्विशेषणम् । तदादिविधिः । तदाह - **धात्ववयवेत्यादिना । प्रध्यौ । “प्रधी-औ” इति स्थिते, अत्र प्रथमयोः पूर्वसवर्णः**(6.1.102) इति प्राप्ते **दीर्घाज्जसि च**(6.1.105) इति निषिद्धे **इको यणचि**(6.1.77) इति यणि प्राप्ते तं प्रबाध्य **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इति प्राप्ते तं बाधित्वा **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति यणि कृते ‘प्र ध् य् औ’ इति जाते अज्झीनं परेण संयुक्ते “प्रध्यौ” इति रूपम् । “प्रधी-जस्” इति स्थिते, अत्र **चुटू**(1.3.7) इत्यनेन जकारस्येत्सञ्ज्ञाय **तस्य लोपः**(1.3.9) इति लोपे कृते सति **इको यणचि**(6.1.77) इति यणि प्राप्ते तं बाधित्वा **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इतीयङि प्राप्ते तं प्रबाध्य **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति यणि कृते सकारस्य रुत्वे रेफस्य विसर्गे च “प्रध्यः” इति रूपम् । सम्बोधने - हे प्रधीः, हे प्रध्यौ, हे प्रध्यः, इति ।अत्र प्रक्रिया प्रथमाविभक्तिवज्ज्ञेया । **प्रध्यम् । “प्रधी-अम्” अत्र अमि पूर्वः**(6.1.107) इति पूर्वरूपे प्राप्ते तं बाधित्वा **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इतीयङि प्राप्ते तं प्रबाध्य **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति यणि कृते “प्रध्यम्” इति रूपम् । **प्रध्यौ । प्रथमाद्विवचनवत्प्रक्रिया । प्रध्यः - प्रधीशब्दात् शसि, शकारस्येत्सञ्ज्ञायां लोपे च प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वसवर्णदीर्घे प्राप्ते तं प्रबाध्य **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इतीयङि प्राप्ते तं बाधित्वा **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति यणि कृते “प्रध्यः” इति रूपम् । अत्र पूर्वसवर्णदीर्घाभावान्न नत्वमिति भावः । प्रध्या, प्रधीभ्याम्, प्रधीभिः तृतीया । प्रध्ये, प्रधीभ्यां, प्रधीभ्यः, चतुर्थी । प्रध्यः, प्रधीभ्याम्, प्रधीभ्यः पञ्चमी । प्रध्यः, प्रध्योः, प्रध्याम्, षष्ठी । **प्रध्यि । प्रधीशब्दात्सप्तम्येकवचनविवक्षायां ङौ समागते अनुबन्धलोपे “प्रधी-ई” इति जाते अकः सवर्णे दीर्घः**(6.1.101) इति दीर्घे प्राप्ते तं बाधित्वा **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इतीयङि प्राप्ते तं प्रबाध्य **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति यणि कृते “प्रध्यि” इति रूपम् । **एवं ग्रामणीरिति । ग्रामं नयति - नियच्छतीति ग्रामणीः । <!अग्रग्रामाभ्यां नयतेर्णो वाच्यः!> इति णत्वम् । सप्तम्येकवचनं विहाय एवमेव प्रधीशब्दवत् ग्रामणीशब्दस्य रूपाण्यूहनीयानि । प्रथमैकवचने - अङ्यन्तत्वान्न सुलोपः। अजादौ सर्वत्र एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति यणेव । अस्त्रीत्वान्नदीकार्यं न । हे ग्रामणीः, ग्रामण्यौ, ग्रामण्यः । ग्रामण्यम्, ग्रामण्यौ, ग्रामण्यः । ग्रामण्या । ग्रामण्ये । ग्रामण्योः । ग्रामण्यामिति । सप्तम्यां तु ग्रामणीशब्दात् ङौ समागते **ङेराम्नद्याम्नीभ्यः**(7.3.116) इति डेः स्थाने आमि **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति यणि “ग्रामण्याम्” इति भवति । **अनेकाचः किमिति । एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इत्यत्रेति शेषः । **नीः । नीशब्दात्सावागते उकारस्येत्सञ्ज्ञायां च सस्य रुत्वे रस्य विसर्गत्वे च विहिते नीः इति । नीशब्दाव्यथमाद्विवचने औ समागते अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इतीयङि कृते “नियौ” इति रूपम् । एवमेव जसि **नियः इति । अमि शसि चैति । नीशब्दात् अमि कृते अमि पूर्वः**(6.1.107) इति पूर्वरूपे प्राप्ते तं बाधित्वाऽनेनेयङि कृते “नियम्” इति । औटि-नियौ, शसि - **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति प्रबाध्यानेनेयङि “नियः” इति रूपम् । निया, नीभ्याम्, नीभिः, तृतीया । निये, नीभ्यां, नीभ्यः, चतुर्थी । नियः, नीभ्यां नीभ्यः पञ्चमी । नियः, नियोः, नियाम्, षष्ठी । **नियामिति । नीशब्दात्सप्तम्येकवचनविवक्षायां ङौ समागते ङकारस्येत्सञ्ज्ञायां लोपे च सति ङेराम्नद्याम्नीभ्यः**(7.3.116) इति ङेरामि विहिते, विहिते चेयङि “नियाम्” इति रूपम् । सुश्रीः। श्रिञ् सेवायाम् <!क्विब्वचिप्रच्छपायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च !> इत्यादिना क्विप् प्रकृतेर्दीर्घश्च । सु श्रयतीति शोभमाना श्रीरस्येति वा सुश्रीः । **सुश्रियाविति । एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति सूत्रे “असंयोगपूर्वस्य” इत्युक्तत्वात् सुश्रीशब्दान्तर्गतेवर्णस्य धात्ववयवसंयोगपूर्वत्वात् न यण् ; किन्तु **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इति योगेनैव सर्वत्राजादौ प्रत्यये परे इयङादेशं विधाय नीशब्दवद्रूपाणि ज्ञेयानि । सप्तम्येकवचने तु अङ्यन्तत्वात् **ङेराम्नद्याम्नीभ्यः**(7.3.116) इति सूत्रस्याप्राप्तौ ङस्येत्सञ्ज्ञालोपौ कृत्वा इयङि कृते “सुश्रियि” इति रूपम्बोध्यम् । **यवक्रियौ । यवान् क्रीणातीति यवक्रीः । क्रीञ् धातोः क्विपि रूपम् । अत्रापि धात्ववयवसंयोगपूर्वकत्वान्न यण्, किन्तु सर्वत्राजादौ प्रत्यये परे **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इतीयङ् बोध्यः ।

Vartika

गतिकारकेतरपूर्वपदस्य यण् नेष्यते ।

Sutra Prayogas

  • संविव्युः (शिशुपालवधम्): एरनेकाचोऽसंयोगपूर्वस्य इति यणादेशः।

  • विजिग्यो (भट्टिकाव्यम्): एरनेकाचः इति यणादेशः।

  • उच्चिक्यिरे (भट्टिकाव्यम्): एरनेकाचः इति यणादेशः।

  • प्रण्यः (भट्टिकाव्यम्): एरनेकाचः इति यणादेशः।

  • समापिप्ये (भट्टिकाव्यम्): एरनेकाचः इति यण्।

  • निलिल्ये (भट्टिकाव्यम्): एरनेकाचः इति यण्।

  • अधिशिश्यिरे (भट्टिकाव्यम्): एरनेकाचः इति यण्।