64081: इणो यण्

Padacheda: इणः | S | 6 | 1 |

यण् | S | 1 | 1 |

Sutrartha

‘इण्’-धातोः अङ्गस्य अच्-वर्णे परे यणादेशः भवति ।

‘इण्’ (गतौ) इति अदादिगणस्य धातुः । अस्य धातोः अजादिप्रत्यये परे अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ (6.4.77) इत्यनेन इयङ्-आदेशे प्राप्ते अपवादत्वेन इकारस्य यणादेशः यकारः भवति । यथा - 1. इण्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - इ + लट् [वर्तमाने लट् (3.2.123)] → इ + झि [तिप्तस्.. (3.4.78) इति प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः] → इ + शप् + झि [कर्तरि शप् (3.1.68) इति शप्] → इ + झि [अदिप्रभृतिभ्यः शपः (2.4.72) इति शप्-विकरणस्य लुक् ] → इ + अन्ति [झोऽन्तः (7.1.3) इति अन्त्यादेशः] → य् + अन्ति [इणो यण् (6.4.81) इति यणादेशः] → यन्ति 2. इण्-धातोः लङ्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - इ + लङ् [अनद्यतने लङ् (3.2.111) इति लङ्] → आट् + इ + ल् [आडजादीनाम् (6.4.72) इति आडागमः] → आ + इ + झि [तिप्तस्.. (3.4.78) इति प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः] → आ + इ + शप् + झि [कर्तरि शप् (3.1.68) इति शप्] → आ + इ + झि [अदिप्रभृतिभ्यः शपः (2.4.72) इति शप्-विकरणस्य लुक् ] → आ + इ + अन्ति [झोऽन्तः (7.1.3) इति अन्त्यादेशः] → आ + इ + अन्त् [इतश्च (3.4.100) इति इकारलोपः] → आ + य् + अन्त् [इणो यण् (6.4.81) इति इकारस्य यणादेशः] → आयन् [संयोगान्तस्य लोपः (8.2.7) इति तकारलोपः] ज्ञातव्यम् - 1. अस्मिन् सूत्रे इकारस्य ‘यण्’ भवति इत्युक्तमस्ति । वस्तुतः यण्-प्रत्याहारे चत्वारः वर्णाः आगच्छन्ति । परन्तु स्थानसाधर्म्यात् इकारस्य यकारः एव भवति । 2. मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् अनया परिभाषया अयम् यणादेशः केवलं इयङ्-इत्यस्यैव अपवादरूपेण आगच्छति, गुण-वृद्धेः अपवादत्वेन न । यथा, इण्-धातोः ण्वुल्-प्रत्यये परे - इ + ण्वुल् [ण्वुल्तृचौ (3.1.133) इति ण्वुल्] → इ + अक [युवोरनाकौ (7.1.1) इति ‘अक’ आदेशः] → ऐ + अक [इणो यण् (6.4.81) इति इकारस्य यणादेशे प्राप्ते, परत्वात् अचो ञ्णिति (7.2.115) इति वृद्धिः] → आयक [एचोऽयवायावः (6.1.78) इति आय्-आदेशः] अत्र वृद्धि-आदेशः यणादेशम् परत्वात् बाधते ।

Sutrartha (English)

The verb root इण् gets a यणादेश when followed by an अच् letter.

Vasu English Summary

For the इ of the root इण् (एति) is substituted a semi-vowel (य) before the affix beginning with a vowel.

Vasu English Translation

For the इ of the root इण् (एति) is substituted a semi-vowel (य) before the affix beginning with a vowel. Thus यन्ति, यन्तु, आयन् ॥ This supersedes इयङ् substitution, and is itself superseded by (7.2.115), and (7.3.84) which ordain Vriddhi and Guna: on the maxim मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरात् ॥ “Apavadas that are surrounded by the rules which teach operations that have to be superseded by the apavada operations, supersede only those rules that precede, not those that follow them.” So we have अयनम् and आयकः ॥

Kashika

इणोऽङ्गस्य यणादेशो भवत्यचि परतः। यन्ति। यन्तु। आयन्। इयङादेशापवादोऽयम्। मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते इति गुणवृद्धिभ्यां परत्वादयं बाध्यते। अयनम्। आयकः॥

Siddhanta Kaumudi

अजादौ प्रत्यये परे । इयङोऽपवादः । यन्ति । इयाय ॥

Laghu Siddhanta Kaumudi

अजादौ प्रत्यये परे। यन्ति॥

Balamanorama

इणो यण् - इणो यण् ।अचि श्नुधातु॑इत्यतोऽचीत्यनुवृत्तस्य अङ्गाधिकारलब्धाऽङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिरित्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — अजादौ प्रत्यये परे इति । इयङोऽपवाद इति । इयङि प्राप्ते एव तदारम्भादिति भावः । गुणवृद्धी तु परत्वादस्य बाधिके । यथा — अयनम् । आयकः । यन्तीति । एषि इथः इथ । एमि इवः इमः । इयायेति । द्वित्वे सति उत्तरखण्डवृद्धावायादेशे ‘अभ्यासस्याऽसवर्णे’ इतीयङ् । अतुसि तु द्वित्वे कित्त्वाद्गुणाऽभावे इ इ अतुस् इति स्थितेइणो य॑णित्युत्तरखण्डस्य यणि इ-यतुरिति स्थिते -

Tattvabodhini

इणो यण् - येन नाप्राप्तिन्यायेनेति भावः । गुणवृद्धी तु परत्वादस्य बाधिके । अयनम् । आयकः ।

Padamanjari

अत्र सूत्रार्थकथनानन्तरं क्वचित्पठ।ल्ते - अन्तरङ्गत्वात् इको यणचि इति सिद्धे समानाश्रये वार्णादाङ्गं बलीयः इति ज्ञापनार्थ वचनम् इति, तदयुक्तम् इयङदेशापवादोऽयम् इति वक्ष्यति, तत्कथमियङ्विषये यण्प्रवर्तते । इयङदेशापवादोऽयमिति । इयङ्गादेशस्यैवापवाद इत्यर्थः । कुतः इत्याह मध्येऽपवादा इति । एवं सति यदिष्ट्ंअ सिद्धम्, तद्दर्शयति - गुथणवृद्धिभ्यमिति । यदि तु नाप्राप्ते विध्यन्तरे आरम्भात्सर्वमेव विध्यन्तरं यण्बाधेत, गुणवृद्धिवषयेऽपि स्यत् । अथ इणो न इत्येव कस्मान्नोक्तम् इयङदेशे हि एप्रतिषिद्धे इको यणचि इत्येव यणभविष्यति अहो सूक्ष्मदर्शी देवानांपियः, यदिदमपि न दृष्टम् - ईयिव, ईयिम, कर्मणि ईयिरे, अत्रेयङ् प्रितिषिद्धे सर्वर्णंदीर्घः स्यात् । तस्माद्यणेव विधेयः ॥

Nyaas

अत्र पक्षद्वयं सम्भाव्यते -इणः इति प्रत्याहारग्रहणं स्यात्, धातुग्रहणं वा? तत्र एरच् (3.3.56) इति, ओरावश्यके (3.1.125) इति, उरत् (7.4.66) इत्यवमादिभ्यो निर्देशेभ्य एव नेदं प्रत्याहारग्रहणम्। अतः परिशेष्याद्धातुग्रहणमेवेदं विज्ञायते। णकारोच्चारणमिगिङोर्निवृत्त्यर्थम्। ये तु इण्वदिकः (वा।167) इति सामान्येनातिदेशमिच्छन्ति, तेषामिङ एव निवृत्त्यर्थम्। इकस्त्वधियन्तीति भवितव्यमेव यणा। अथ नेणः इत्येव कस्मान्नोक्तम्, इयङादेशेऽचि प्रतिषिद्धे सति इको यणचि (6.1.77) इति यण्? भविष्यति? सत्यमेतत्; उत्तरार्थन्तु यण्ग्रहणम्। यन्ति इत्यद्युदाहरणेष्वदादित्वाच्छपो लुक्। आयन् इति। लङ्? झोऽन्तादेशे संयोगान्तलोपः, असिद्धत्वादजादित्वादाट्। अथेह कस्मान्न भवति -अयनम्? आयक इति? अत आह -इयङादेशापवादोऽयम् इति। ननु यथेयङि प्राप्तोऽयमारभ्यते, तथा गुणवृद्ध्योरपि, तत्? कुत एतल्लभ्यते -अयमियङोऽपवादः, न गुणवृद्ध्योरित्याह -मध्येऽपवादाः इत्यादि। इतिकरणो हेतौ। यस्मात्? मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोत्तरान् (व्या।प।10), तस्मादियङ एव पूर्वस्य विधेरयमपवादः, न तु परयोर्गुणवृद्ध्योः यतश्चैतदेवं तेन गुणवृद्धिभ्यां तु परत्वाद्बाध्यते। अस्यावकाशः -यन्ति, यन्त्विति। `गुणवृद्ध्योः -चयनम्, चायक इति; अयनम्, आयक इत्यत्रोभयं प्राप्नोति। परत्वाद्यणं बाधित्वा गुणवृद्धी भवतः॥

Prakriyasarvasvam

इणोऽङ्गस्याचि पर इयङि प्राप्ते यण् स्यात् । यन्ति । एषि । इथः । इथ१ एमि । इवः । इमः । कर्मणि ईयते । लिङि इयात् । इयाताम् । इयुः । लोटि एतु, इतात्, इताम्, यन्तु । हेरपित्त्वेन ङित्त्वाद्गुणः । इहि इतात् । इतम् । इत१ आटि पित्त्वाद् गुणः । अयानि, अयाव । अयाम । लङि ऐत्, इताम् । आड्वृद्धौ१ ऐत् । ऐताम् । ‘इणोयण्’ । तस्य ‘असिद्धवदत्र’ इत्यसिद्धत्वेनाजादित्वादाट्१ आयन् । ऐः, ऐतम्, ऐत । अमि गुणायौ । अयम्, आड्वृद्धौ । आयम् । ऐव१ ऐम । कर्मणि ऐयत । लुङि ‘इणो गा—’ इति गादेशे ‘गातिस्था—’ इति सिज्लुक्१ तत्र हि२ गापेति इण्पिबत्योर्ग्रहः । अगात् । अगाताम् । ‘आतः’ इति जुस् । अगुः१ अगाः । अगातम् । अगाम्, अगाव । कर्मणि अगायि । अगासाताम् । चिण्वदिटि तु गात्वं नेत्येके । स्यादित्यन्ये । अगायिषाताम्, आयिषाताम् । इत्यादि । लिटि वृद्ध्यायौ । तयोः स्थानिवत्त्वाद् द्वित्वम् । पुनर्वृद्ध्यायौ । इ आय ।

Sutra Prayogas

  • तदवयती (शिशुपालवधम्): इणो यण इति यणादेशः।

  • वियता (शिशुपालवधम्): इणो यण इति यणादेशः।

  • प्रतीयीरे (भट्टिकाव्यम्): इणो यण् इति यण्।

  • ईयुर्भरद्वाज-मुनेर्निकेतं (भट्टिकाव्यम्): इणो यण् इति यत्वम्।

  • आयतीगवम् (भट्टिकाव्यम्): आङ्पूर्वादिणः शतरि इणो यण् इति यणि ङीपि च रूपम्।