64082: एरनेकाचोऽसंयोगपूर्वस्य ============================= **Padacheda:** एः | S | 6 | 1 | अनेकाचः | S | 6 | 1 | असंयोगपूर्वस्य | S | 6 | 1 | Sutrartha --------- **धात्वन्त-अनेकाच्-अङ्गस्य धातोः असंयोगपूर्वस्य इवर्णस्य अजादिप्रत्यये परे यणादेशः भवति ।** अस्य सूत्रस्य अर्थं किञ्चित् क्लिष्टः अस्ति, अतः क्रमेण पश्यामः - 1. अनेन सूत्रेण अजादिप्रत्यये परे यणादेशः प्रोक्तः अस्ति । 2. कस्य यणादेशः? अत्र स्थानी अस्ति 'असंयोगपूर्वस्य एः धातोः' । 'धातोः' इति विशेष्यम्, 'असंयोगपूर्वस्य' तथा 'एः' एते विशेषणे । 3. प्रथमं विशेषणमस्ति - 'एः' इति । एतत् 'इ' इत्यस्य षष्ठी-एकवचनमस्ति । 'एः धातोः' इत्युक्ते 'इवर्णान्त-धातोः' (**येन विधिस्तदन्तस्य** (1.1.72) )। 4. **अलोऽन्त्यस्य** (1.1.52) इत्यनेन अस्य इवर्णान्तधातोः 'अन्तिमवर्णस्य' ( = इवर्णस्य) यणादेशः भवतीति अर्थः जायते । 4. 'धातोः' अस्य द्वितीयम् विशेषणमत्र प्रयुक्तमस्ति - असंयोगपूर्वः । इत्युक्ते, सः धातुः यस्य अन्तिम-इवर्णात् पूर्वः संयोगः नास्ति । किम् नाम संयोगः? **हलोऽनन्तराः संयोगः** (1.1.7) इत्यनेन द्वयोः व्यञ्जनयोः स्वरं विना उच्चारणम् संयोगसंज्ञां प्राप्नोति । 5. अतः अत्र स्थानिनः वर्णनम् कथम् कृतमस्ति? सः धातुः यस्य अन्ते इवर्णः अस्ति, तथा यस्मिन् धातौ इवर्णात् पूर्वः संयोगः नास्ति । एतादृशस्य धातोः अन्तिम-इवर्णस्य स्थाने अच्-प्रत्यये परे यणादेशः भवति । 6. अयं स्थानी 'अनेकाच्-अङ्गस्य' भवेत् इति उक्तमस्ति । इयम् सम्बन्धषष्ठी । अतः अत्र वर्णितः धातुः अनेकाच्-अङ्गस्य अवयवः भवेत् इति आवश्यकम् । 'अनेकाच्' इत्युक्ते सः शब्दः यस्मिन् द्वौ वा अधिकाः स्वराः सन्ति । 7. **पदाङ्गाधिकारे तस्य च तदन्तस्य च** अनया परिभाषया 'अनेकाचः अङ्गस्य धातोः' इत्युक्ते 'अनेकाच्-अङ्गस्य अन्ते विद्यमानस्य धातोः' इति अर्थः निष्पद्यते । अतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - यत्र अङ्गमनेकाच् अस्ति, तत्र तस्य अङ्गस्य अन्ते यदि इवर्णान्तः असंयोगपूर्वः धातुः विद्यते, तर्हि तस्य धातोः इवर्णस्य अजादि-प्रत्यये परे यणादेशः भवति । कानिचन उदाहरणानि पश्यामः । 1) 'सेनानी' इति दीर्घ-ईकारान्त-पुंलिङ्गशब्दः । 'सेनां नयति सः' अस्मिन् अर्थे 'सेना' उपपदस्य उपस्थितौ 'नी' धातोः क्विप् प्रत्ययं कृत्वा अयं शब्दः सिद्ध्यति । अस्य शब्दस्य प्रथमाद्विवचनस्य 'औ' प्रत्यये परे 'सेनानी + औ' इति स्थिते **अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ** (6.4.77) इत्यनेन इयङ्-आदेशः आगच्छति । परन्तु अत्र अङ्गमनेकाच् तथा धात्वन्तमस्ति, तथा अस्य अन्ते विद्यमानः धातुः असंयोगपूर्वः इवर्णान्तः च अस्ति, अतः इयङ्-आदेशं बाधित्वा अत्र यणादेशः भवति । अतः 'सेनान्यौ' इति रूपम् सिद्ध्यति । 2) नी-धातोः लिट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपसिद्धेः प्रक्रिया इयम् - नी + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्] → नी नी ल् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्] → नि नी ल् [**ह्रस्वः** (7.4.59) इति अभ्यासस्य ह्रस्वः] → नि नी तस् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुष-द्विवचनस्य प्रत्ययः तस्] → नि नी अतुस् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति तस्-इत्यस्य अतुस्-आदेशः] अत्र **अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ** (6.4.77) इत्यनेन इयङ्-आदेशस्य प्रसक्तिः अस्ति । परन्तु अत्र अङ्गम् 'निनी' इति अनेकाच् तथा असंयोगपूर्व-इवर्णान्त-धात्वन्तमस्ति, अतः परत्वात् अत्र **एरनेकाचोऽसंयोगपूर्वस्य** (6.4.82) इति यणादेशः विधीयते । → निन्यतुः [**एरनेकाचोऽसंयोगपूर्वस्य** (6.4.82) इति यणादेशः] 3) 'यवक्री' अयम् कश्चन दीर्घ-ईकारान्त-पुंलिङ्गशब्दः । 'यवान् क्रीणाति' अस्मिन् अर्थे 'यव' उपपदस्य उपस्थितौ 'क्री' धातोः क्विप् प्रत्ययं कृत्वा अयं शब्दः सिद्ध्यति । अस्य शब्दस्य प्रथमाद्विवचनस्य 'औ'-प्रत्यये परे 'यवक्री + औ' इति स्थिते **अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ** (6.4.77) इत्यनेन इयङ्-आदेशः आगच्छति । अस्यामवस्थायाम् वर्तमानसूत्रस्य प्रसक्तिः नास्ति, यतः 'यवक्री' इत्यत्र यद्यपि अङ्गम् धात्वन्तमनेकाच् च अस्ति, तथापि अस्य अन्ते विद्यमानः धातुस्थः इवर्णः असंयोगपूर्वः नास्ति (क्री = क् + र् + ई) । अतः अत्र वर्तमानसूत्रेण यण्-आदेशः न भवति, अतः **अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ** (6.4.77) इत्यनेन इयङ्-आदेशे कृते 'यवक्रियौ' इति रूपं सिद्ध्यति । 4) नी-धातोः क्विप्-प्रत्ययं कृत्वा 'नी' इति दीर्घ-ईकारान्त-पुंलिङ्गः शब्दः जायते । अस्य शब्दस्य प्रथमाद्विवचनस्य 'औ'-प्रत्यये परे 'नी + औ' इति स्थिते **अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ** (6.4.77) इत्यनेन इयङ्-आदेशः आगच्छति । अस्यामवस्थायाम् वर्तमानसूत्रस्य प्रसक्तिः नास्ति, यतः 'नी' इत्यत्र अङ्गमनेकाच् नास्ति। अतः अत्र **अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ** (6.4.77) इत्यनेन इयङ्-आदेशे कृते 'नियौ' इति रूपं सिद्ध्यति । 5) 'उन्नी' अयं शब्दः उत् + नी इत्यस्मात् **सत्सूद्विष...** (3.2.61) इत्यनेन क्विप्-प्रत्ययं कृत्वा सिद्ध्यति । अस्मात् अस्य शब्दस्य प्रथमाद्विवचनस्य 'औ'-प्रत्यये परे 'उन्नी + औ' इति स्थिते **अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ** (6.4.77) इत्यनेन इयङ्-आदेशः आगच्छति । परन्तु अत्र अङ्गमनेकाच् तथा धात्वन्तमस्ति, तथा अस्य अन्ते विद्यमानः धातुः 'नी' इति इवर्णान्तः अस्ति, असंयोगपूर्वः च अस्ति, अतः इयङ्-आदेशं बाधित्वा अत्र यणादेशः भवति । अतः 'उन्न्यौ' इति रूपम् सिद्ध्यति । (स्मर्तव्यम् - अस्मिन् सूत्रे 'अङ्गम्' असंयोगपूर्वमुक्तम् नास्ति, 'धातुः' असंयोगपूर्वः उक्तः अस्ति । अतः 'उन्नी' इत्यत्र यद्यपि अङ्गम् संयोगपूर्वमस्ति, तथापि अयं संयोगः धातौ स्थितः नास्ति, उपसर्ग-धातोः योजनेन निर्मितः अस्ति । अतः अत्र धातुः असंयोगपूर्वः एव स्वीक्रियते ।] अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, यदि अङ्गे विद्यमानम् पूर्वपदम् गतिसंज्ञकम् कारकसंज्ञकं वा नास्ति, तर्हि अयम् यणादेशः न भवति । यथा - 1. 'प्रध्यायति सः' इत्यर्थे 'प्रधी' इति प्रातिपदिकम् सिद्ध्यति । अत्र पूर्वपदम् 'प्र' इति गतिसंज्ञकमस्ति, अतः अत्र वर्तमानसूत्रेण यणादेशं कृत्वा 'प्रध्यौ', 'प्रध्यः' आदीनि रूपाणि सिद्ध्यन्ति । 2. 'परमम् ब्रह्म ध्यायति सः' इत्यर्थे 'परमधी' इति प्रातिपदिकम् सिद्ध्यति । अत्र पूर्वपदम् 'परम' एतत् कारकसंज्ञकं अस्ति, यतः विग्रहवाक्ये एतत् कर्मकारकत्वं प्राप्नोति । अतः अत्रापि त वर्तमानसूत्रेण यणादेशं कृत्वा 'परमध्यौ', 'परमध्यः' आदीनि रूपाणि सिद्ध्यन्ति । 3. 'परमा धीः यस्य सः' इत्यर्थे अपि 'परमधी' इति प्रातिपदिकं सिद्ध्यति । परन्तु अत्र परम-शब्दः गतिसंज्ञकः अपि नास्ति, तथा कारकसंज्ञः नास्ति, अतः अत्र अनेन सूत्रेण यद्यपि अङ्गमनेकाच् तथा असंयोगपूर्व-इवर्णान्त-धात्वन्तमस्ति, तथाप्यत्र यणादेशः न भवति । अतः **अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ** (6.4.77) इत्यनेन इयङ्-आदेशः एव जायते । यथा - परमधियौ, परमधियः । Sutrartha (English) ------------------- An इवर्ण occurring at end of an a असंयोगपूर्व धातु which in turn occurs at end of an अनेकाच् अङ्ग is converted to यण् letter when followed by an अजादिप्रत्यय. Vasu English Summary -------------------- A semi-vowel is substituted before an affix beginning with a vowel for the final of इ or ई of a root, not preceded by a conjunct consonant forming part of the root, when the अङ्ग (stem) is mono-syllabic. Vasu English Translation ------------------------ A semi-vowel is substituted before an affix beginning with a vowel for the final of इ or ई of a root, not preceded by a conjunct consonant forming part of the root, when the अङ्ग (stem) is mono-syllabic. The word धातोः is understood here, and the word संयोग is qualified by that: i. e. the इ or ई which is not preceded by conjunct consonant forming part of the root is called an *asamyoga* *parva* इ ॥ Thus निन्यतुः, निन्युः, उन्न्यौ, उन्न्यः, ग्रामण्यौ, ग्रामण्यः ॥ All the above examples are of the root नी preceded by the *gati* prepositions नि and उत्, or a *Karaka*-*upapada* ग्राम ॥ The rule will not apply however if the preceding word is neither a *gati* nor a *Karaka*, but an adjective, as परमनी, its dual and plural will be परमनियौ and परमनियः by इवङ् ॥ Why do we say 'of इ or ई'? Observe लुलुवतुः and लुलुवः from लुलू which ending in ऊ takes उवङ् substitution. This is also shown in the next *sutra*. Why do we say the stem should be of more than one syllable? Observe नी; its dual and plural are नियौ and नियः by इयङ् ॥ Why do we say the इ or ई should not be preceded by a conjunct consonant? Observe यवक्री dual यवक्रियौ plural यवक्रियः by इयङ् ॥ Why do we say "forming part of the root"? So that the rule may apply to उन्नी also. Here though ई is preceded by a conjunct न्न्, yet the latter is not part of the root, one न् being part of the *upasarga* उत् ॥ Thus we have उन्न्यौ and उन्न्यः ॥ The phrase असंयोगपुर्व should in fact be taken as qualifying the letter ई, and not as qualifying the word अङ्ग ॥ Bhashya ------- एरनेकाचोऽसंयोगपूर्वस्य (3080) (सूत्रार्थदर्शकभाष्यम्) इह कस्मान्न भवति - ब्राह्मणस्य नियौ, ब्राह्मणस्य नियः ? अङागाधिकारात् । अङ्गस्येति वर्तते ॥ एमवपि - परमनियौ, परमनिय इत्यत्रापि प्राप्नोति । गतिकारकपूर्वस्यैवेष्यते ॥ (6568 उपसंख्यानवार्तिकम् ॥ 1 ॥) - यणादेशः स्वरपदपूर्वोपधस्य च - यणादेशः स्वरपूर्वोपधस्य पदपूर्वोपधस्येति वक्तव्यम् । स्वरपूर्वा च यस्योपधा पदपूर्वा च । स्वरपूर्वा - निन्यतुः, निन्युः । पदपूर्वा - उन्न्यौ, उन्नयः । उद्ध्यौ, उद्ध्यः । उभयपूर्वा - ग्रामण्यौ, ग्रामण्यः । सेनान्यौ, सेनान्य इति ॥ (6569 उपसंख्यानप्रयोजनवार्तिकम् ॥ 2 ॥) - असंयोगपूर्वे ह्यनिष्टप्रसङ्गः - असंयोगपूर्वस्येत्युच्यमाने, अनिष्टं प्रसज्येत - उन्न्यौ, उन्न्यः । उद्ध्यौ, उद्ध्यः । असंयोगपूर्वस्येति प्रतिषेधः प्रसज्येत ॥ (वार्तिकार्थसाधकभाष्यम्) तत्तर्हि वक्तव्यम् । न वक्तव्यम् । धातोः इति वर्तते, धातुना संयोगं विशेषयिष्यामः - धातोर्यः संयोगस्तत्पूर्वस्य नेति । उपसर्जनं वै संयोगः, न चोपसर्जनस्य विशेषणमस्ति । धातोरित्यनुवर्तनसार्मथ्यादुपसर्जनस्यापि विशेषणं भविष्यति । अस्त्यन्यत् धातोरित्यनुवृत्तौ प्रयोजनम् । किम् ? इवर्णं विशेष्यते । नैतदस्ति प्रयोजनम् । यद्ध्यधातोरिवर्णं, भवितव्यमेव तस्य यणादेशेन इको यणचि (6.1.77) इति ॥ Kashika ------- धातोरिति वर्तते, तेन संयोगो विशेष्यते। धातोरवयवः संयोगः पूर्वो यस्मादिवर्णाद् न भवत्यसावसंयोगपूर्वः, तदन्तस्याङ्गस्यानेकाचोऽचि परतो यणादेशो भवति। निन्यतुः, निन्युः। उन्न्यौ, उन्न्यः। ग्रामण्यौ, ग्रामण्यः। एरिति किम्? असंयोगपूर्वग्रहणमिवर्णविशेषणं यथा स्याद्, अङ्गविशेषणं मा भूदिति। लुलुवतुः, लुलुवुः इत्येतत् तु **ओः सुपि** (६.४.८३) इति नियमादपि सिध्यति। अनेकाच इति किम्? नियौ, नियः। असंयोगपूर्वस्येति किम्? यवक्रियौ, यवक्रियः। धातुना संयोगविशेषणं किम् ? इहापि न स्याद्। उन्न्यौ, उन्न्य इति । गतिकारकाभ्यामन्यपूर्वस्य नेष्यते। परमनियौ, परमनिय इति॥ Siddhanta Kaumudi ----------------- धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्याऽनेकाचोऽङ्गस्य यण्स्यादजादौ प्रत्यये परे । इति यण् । कुमार्यौ कुमार्यः । हे कुमारि । अमि शसि च । कुमार्यम् । कुमार्यः । कुमार्यै । कुमार्याः 2 । कुमारीणाम् । कुमार्याम् । प्रधीः । प्रध्यौ । प्रध्यः । प्रध्यम् । प्रध्यः । उन्नयतीत्युन्नीः । धातुना संयोगस्य विशेषणादिह स्यादेव यण् । उन्न्यौ । उन्न्यः । हे उन्नीः । उन्न्यम् । ङेराम् । उन्न्याम् । एवं ग्रामणीः । अनेकाचः किम् । नीः । नियौ । नियः । अमि शसि च परत्वादियङ् । नियम् । नियः । ङेराम् । नियाम् । असंयोगपूर्वस्य किम् । सुश्रियौ । यवक्रियौ ॥ (वार्तिकम्) ॥ शुद्धधियौ । परमधियौ । कथं तर्हि दुर्धियो वृश्चिकभियेत्यादि । उच्यते । दुःस्थिता धीर्येषामिति विग्रहे दुरित्यस्य धीशब्दं प्रति गतित्वमेव नास्ति । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः । वृश्चिकशब्दस्य बुद्धिकृतमपादानत्वं नेह विवक्षितम् । वृश्चिकसंबन्धिनी भीर्वृश्चिकभीरित्युत्तरपदलोपो वा ॥ Laghu Siddhanta Kaumudi ----------------------- धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यणजादौ प्रत्यये। प्रध्यौ। प्रध्यः। प्रध्यम्। प्रध्यौ। प्रध्यः। प्रध्यि। शेषं पपीवत्। एवं ग्रामणीः। ङौ तु ग्रामण्याम्॥ अनेकाचः किम्? नीः। नियौ। नियः। अमि शसि च परत्वादियङ्, नियम्। ङेराम्; नियाम्॥ असंयोगपूर्वस्य किम्? सुश्रियौ। यवक्रियौ॥ Balamanorama ------------ **एरनेकाचोऽसंयोगपूर्वस्य** - एरनेकाचः ।इणो य॑णित्यतो यणित्यनुवर्तते । एरिति षष्ठन्तम् । इवरस्येत्यर्थः । पूर्वसूत्रे श्नुधातुभ्रुवामिति द्वन्द्वनिर्देशेऽपि धातोरिति पृथक्कृत्य षष्ठन्तमनुवर्तते नतु श्नुभ्रुवावपि । तत्र इवर्णाऽभावात् । धातोरित्यनुवृत्तं चावर्तते । एकमवयवषष्ठन्तम्, अन्यत्स्थानषष्ठन्तम् । एरिति च धातोरिति षष्ठन्तस्य विशेषणं, ततः-तदन्तविधिः । इवर्णान्तधातोरित्यर्थः । अवयवषष्ठन्तं धातोरित्येतत्-॒असंयोगपूर्वस्ये॑त्यत्र संयोगांशेऽन्वेति । धात्ववयवसंयोगः पूर्वा यस्मात्स धात्ववयवसंयोगपूर्वः, तद्भिन्नः=असंयोगपूर्वः , तस्येति इवर्णविशेषणम् ।अङ्गस्ये॑त्यधिकृतं स्थानषष्ठयन्तधातुना विशेष्यते, तदन्तविधिः । अनेकोऽच् यस्य तस्य अनेकाच इत्यङ्गान्वयि ।अचि श्नुधातुभ्रावा॑मित्यतोऽचीत्यनुवर्तते । तच्चाङ्गाक्षिप्तस्य प्रत्ययस्य विशेषणं तदादिविधिः । तदाह-धात्ववयवेत्यादिना । हरिं हरीनित्यादौ यण्निवृत्त्यर्थंधातो॑रित्यङ्गविशेषणम् । अन्यथा प्रध्यमित्यादाविव पूर्वरूपादीन्बाधित्वा यण् स्यात् । धात्ववयवेति संयोगाविशेषणस्य तु प्रयोजनम् । उन्नीशब्दनिरूपणावसरे मूल एव स्फुटीभविष्यति ।अनेकाचोऽसंयोगा॑दित्येव सुवचम् । य्वोरित्यनुवर्तते ।धात्ववयवसंयोगात्परौ न भवतो यौ इवर्णोवर्णौ तदन्तस्ये॑त्यर्थलाभः ।ओः सुपी॑ति तु नियमार्थः-॒उवर्णस्य सुप्येव य॑णिति । ततश्च लुलुवतुरित्यादौ त्वतिप्रसङ्गाऽभाव इत्यलम् । इति यणिति । कुमार्यौ, कुमार्य इत्यत्र 'एरनेकाचः' इति इयङपवादो यणित्यर्थः । नन्वन्तर्वर्तिसुपा अमाक्यजन्तस्य कुमारीशब्दस्य पदत्वात् 'इकोऽसवर्णे' इति प्रकृतिभावः स्यात् । अल्लोपस्य स्थानिवद्भावेऽपि तमाश्रित्यैव स दुर्वार #इति चेन्मैवम् — ॒नः क्ये॑ इति क्यचि नान्तस्यैव पदत्वनियमात् । अमि शसि चेति । अमि पूर्वरूपं शसि पूर्वसवर्णदीर्घं च बाधित्वा इयङि प्राप्ते तदपवादे 'एरनेकाचः' इति यणि, अमि कुमार्यं, शसि कुमार्य इति रूपम् । 'तस्माच्छसः' इति नत्वं तु न, कृतपूर्वसवर्णदीर्घात्परत्वाऽभावात् । तथाच बहुश्रेयसीशब्दापेक्षया अम्शसोरेव रूपे विशेष इति भावः । प्रधीरिति । प्रध्यायतीति प्रधीः ।ध्यायतेः संप्रसारणं चे॑ति क्विप् । यकारस्य संप्रसारणमिकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । 'हलः' इति दीर्घः । कृदन्तत्वेन प्रातिपदिकत्वात्सुबुत्पत्तिः । अङ्यन्तत्वान्न सुलोपः । अजादौ सर्वत्र 'एरनेकाचः' इति यणेव । अस्त्रीत्वान्नदीकार्यं न । हे प्रधीः प्रध्यौ प्रध्यः । प्रध्यं प्रध्यः । प्रध्या । प्रध्ये । प्रध्योः । प्रध्यि । प्रकृष्टा दीर्यस्य स इति विग्रहे तु दीशब्दस्य नित्यस्त्रीत्वात्प्रथमलिङ्गग्रहणं चे॑ति नदीत्वान्नदीकार्यम् । अङ्यन्तत्वान्न सुलोपः । प्रधीः । शेषमुदाहृतक्विबन्तकुमारी शब्दवत् । हे प्रधि । प्रध्यौ । प्रध्यः । प्रध्यम् । प्रध्यौ । प्रध्यः । प्रध्या । प्रध्यै । प्रध्या २ । प्रधीनाम् । प्रध्याम् । उन्नीरिति ।सत्सूद्विषे॑त्यादिना उत्पूर्वान्नीधातोः क्विप् । सुबुत्पत्तिः । अङ्यन्तत्वान्न सुलोपः । अजादौ तु प्रत्यये परे 'एरनेकाचः' इति यण् । नन्वत्र इवर्णस्य संयोगपूर्वकत्वात्कथमत्र यणित्यत आह — धातुनेति । धात्वयवसंयोगपूर्वस्यैव यण् पर्युदस्यते । नचाऽत्र संयोगो धात्ववयव इति भावः । हे उन्नीरिति । अस्त्रीत्वादनदीत्वादम्बार्थेत्यादिना नदीकार्यं नेति भावः । उन्न्यमिति । पूर्वरूपापवादो यणितिभावः । हे उन्नीरिति । अस्त्रीत्वादनदीत्वादम्बार्थेत्यादिना नदीकार्यं नेति भावः । उन्न्यमिति । पूर्वरूपापवादो यणिति भावः । शसादौ-उन्न्यः । उन्न्या । उन्न्ये । उन्न्यः । उन्न्योः । ङेरामिति । नदीत्वाऽभावेऽपि 'ङेराम्' इति सूत्रे नीशब्दस्य पृथग्ग्रहणादाम् । आङ्गत्वेन नीशपब्दान्तादपि भवतीति भावः । एवं ग्रामणीरिति । ग्रामं नयति=नियच्छतीति ग्रामणीः ।अग्रग्रमाभ्यां नयतेर्णो वाच्यः॑ इति णत्वम् । अनेकाचः किमिति.॒एरनेकाचः इत्यत्रे॑ति शेषः । नीरिति । नीधातोः केवलात्पूर्ववत्क्विप् । अनेकाच्त्वाऽभावान्न यण् । किंतुअचि श्नुधात्वि॑ति इयङ् । एतावदेव उन्नीशब्दादस्य वैलक्षण्यमिति भावः । सुश्रियाविति । 'श्रिञ् सेवायाम् ।' 'क्विब्वची' इत्यादिना क्विप् । प्रकृतेदीर्घश्च । सु श्रयतीति, शोभना श्रीरस्येति वा सुश्रीः । ततोऽजादिप्रत्यये यण् न भवति । इवर्णस्य धात्वयवसंयोगपूर्वकत्वादिति भावः । यवक्रियाविति । यवान् क्रीणातीति यवक्रीः । क्रीञ्धातोः क्विपि रूपम् । अत्रापि धात्ववयवसंयोगपूर्वकत्वान्न यणिति भावः ।॒एरनेकाचः॑ इति सूत्रेगतिकारकपूर्वस्यैवेष्यते॑ इति वार्तिकं पठितं, तत्तात्परय्तः सङ्गृह्णाति — गतिकारकेतरेति । यथाश्रुते तूदाहृतक्विबन्तकुमारीशब्दे यण् न स्यात् । शुद्धधियाविति । शुद्धा धीर्यस्येति विग्रहः । अत्र शुद्धशब्दस्य गतिकारकेतरत्वात्तत्पूर्वकस्य न यणिति भावः । शुद्धं ब्राहृ ध्यायतीति विग्रहे तु स्यादेव यण् — शुद्धध्यौ इत्यादि । कथं तर्हीति । यदि गतिकारकेतरपूर्वस्यैव यण् पर्युदस्यते, गतिकारकपूर्वस्य त्ववश्यं यण्, तदा दुर्धियः वृश्चिकमिय इत्यादि कथमित्यन्वयः । आदिना दुर्धियौ वृश्चिकभियौ इत्यादिसङ्ग्रहः । दुःस्थिता धीर्येषामिति विग्रहः ।प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः॑ इति बहुव्रीहिः । पूर्वपदे उत्तरखण्डस्य लोपश्च । वृश्चिकाद्भोरिति विग्रहः । अत्र दुरो गतित्वाद्वृश्चिकस्या.ञपादनत्वाच्च गतिकारकपूर्वत्वात्पर्युदासाऽभावे सतीयङपवादोऽत्र यण् दुर्वार इत्याक्षेपः । उच्यते । इति । 'परिहार' इति शेषः । गतित्वमेव नास्तीति ।उपसर्गाः क्रियायोगे॑गतिश्चे॑ति प्रादीनां क्रियान्वये गत्युपसर्गसंज्ञे विहिते । धीशब्दश्च बुद्धिगुणवाची, न तु क्रियावाची । अतो न तं प्रति दुरो गतित्वमिति गतिपूर्वकत्वाऽभावान्नात्र यण्, किंतु इयङेवेत्यर्थः । ननु लुप्तस्य स्थिताशब्दस् क्रियाप्रवृत्तिनिमित्तकत्वात्तं प्रति दुरो गतित्वमस्त्येवेत्यत आह — यत्क्रियेति । यया क्रियया युक्ताः प्रादयस्तं प्रत्येव=तद्वाचकशब्दे प्रत्येव गत्युपसर्गसंज्ञका इत्यर्थः । नचैवमप्यत्र स्थिताशब्दं लुप्तं प्रति प्रवृत्तं दुरो गतित्वमादाय दुर्धोशब्दस्य गतिपूर्वकत्वम्स्त्येवेति वाच्यं, यत्क्रियायुक्ताः प्रादयस्तत्क्रियावाचकं प्रत्येव गत्युपसर्गत्वम् । तथाविधिक्रियावाचकस्यैव च गत्युपसर्गकार्यमित्यर्थस्य विवक्षितत्वात् । 'यत्क्रियायुक्ताः' इति प्रत्यासत्तिन्यायलभ्यम् । वृश्चिकेति । वृश्चिकशब्दस्याऽपादानत्वं नेह विवक्षितत्वात् । 'यत्क्रियायुक्ताः' इति च प्रत्यासत्तिन्यायलभ्यम् । वृश्चिकेति । वृश्चिकशब्दस्याऽपादानत्वं नेह विवक्षितमित्यन्वयः । कुत #इत्यत आह — बुद्धिकृतमिति । आरोपितमित्यर्थः । अपादानत्वं हि विश्लेषावधित्वम् । नह्यत्र वृक्षात्पर्णं पततीत्यत्र पर्णविश्लेषे वृक्षस्यैव भयविश्लेषे वृश्चिकस्याऽवधित्वमस्ति, वृक्षे पर्णवद्भयस्य वृश्चिके संश्लेषाऽभावात्, विश्लेषस्य संश्लेषपूर्वकत्वात् । उक्तं च भाष्ये — ॒विवक्षितः कारकाणि भवन्ती॑ति । प्रकृते च वृश्चिकेऽपादानत्वारोपस्य वक्रधीनत्वादिह च तदनारोपात्सम्बन्धमात्रविक्षया षष्ठीमाश्रित्यवृश्चिकस्य भी॑रिति षष्ठीसमासे वृश्चिकभीशब्दस्य व्युत्पत्तिराश्रीयते । ततश्च कारकेतरपूर्वकत्वान्नात्र यणिति भावः । नच वृश्चिकाद्भीरित्यादौ बुद्धिकृतमेवापादानत्वमादाय पञ्चम्युपपत्तेःभीत्रार्थाना॑मिति व्यर्थमिति वाच्यं, तस्य सूत्रस्य भाष्ये प्रत्याख्यातत्वेन इष्टापत्तेरित्यलम् । परिहारान्तरमाह-वृश्चिकसम्बन्धिनीति । उत्तरपदेति । वृश्चिकसम्बन्थिनीति पूर्वपदे उत्तरखण्डस्य सम्बन्धिनीशब्दस्य लोपः शाकपार्थिवादित्वादित्यर्थः । सुष्ठु ध्यायतीति सु=शोभना धीर्यस्येति वा विग्रहे सुधीशब्दः । अत्र अजादौ परे 'एरनेकाचः' इति यणि प्राप्ते- । Tattvabodhini ------------- **एरनेकाचोऽसंयोगपूर्वस्य** - एरनेकाचः ।इणो यण्इत्यतो यणिति वर्तते ।अचि श्नुधातु — ॑इति सूत्रादिह धातुरेवानुवर्तते, न तु श्रुभ्रुवौ, तयोरिवर्णाऽसंभवात् । धातुग्रहणं चावृत्त्योभयोर्विशेषणं, संयोगस्याङ्गस्य चेति ब्याचष्टे — धात्ववयवसंयोगेत्यादि । तत्र धातुना संयोगस्य विशेषणादिह यण् — , उन्न्यौः । उन्न्यः ।हरी॒॑हरी॑नित्यादि सिह्रार्थं धातुना अङ्गं विशेष्यते । अन्यथाप्रध्यं॒॑प्रध्य॑इत्यादाविव पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा यण्स्यात्, धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तत्वादङ्गस्य । प्रधीरिति । प्रध्यायतीति प्रधीः ।ध्यायतेः संपर्सारणं चे॑ति क्किपि संप्रसारणे पूर्वरूपे च कृतेहलः॑इति दीर्घः । यदा तुप्रकृष्टा धीर्बुद्धिर्यस्ये॑ति विगृह् ।यते तदा धीशब्दस्य नित्यस्त्रीत्वात्प्रथमलिङ्गग्रहणं चे॑ति नित्यस्त्रीलिङ्गातिदेशे यथासंभवं नदीकार्यं बोध्यम् ।प्रथमलिङ्गग्रहणं चे॑ति वार्तिकस्य प्रथमलिङ्गंयू स्त्र्याख्यौ॑इत्यनेन नदीत्वं वक्तव्यमित्यर्थात् । एरनेकाचेति यण्विषयटत्वेननेयडुवङ् -॑इति निषेधस्याऽप्रवृत्तेश्चेत्येके । अन्ये त्वाहुः -एवं तर्हि यथोद्देशप्रवृत्तौ न्यायसिद्धमिदमिति मनोरमादिग्रन्थो विरुध्येत । यथोद्देशपक्षेऽपि प्रधीशब्दार्थतया वचनस्यावश्यकत्वात् । मूले हिउपसर्जनत्वेऽपि नदीत्वं वक्तव्य॑मित्युक्तं, न तु नित्यस्त्रीत्वमिति । तस्मात्प्रथमलिङ्गग्रहण॑मित्यनेन लिङ्गप्रयुक्तं यन्नदीत्वं वृत्तेः प्राक् स्थितं तदिहाऽतिदिश्यते । धीशब्दे तुनेयङुवङ् — ॑इति निषेधेन मदीत्वाऽभावान्नास्त्येव प्रधीशब्दे नदीत्वातिदेश इति ।ङिति ह्रस्वश्चे॑ति वैकल्पिकनदीत्वमपीह नातिदिश्यते ।प्रथमलिङ्गे॑ति वचनं यथोद्देशे न्यायसिद्धमिति ग्रन्थानुरोधेनः वृत्तेः प्रागवस्थायामवयवत्वेनाभिमतेऽपि विद्यमानाया एव नदीसंज्ञायाः समुदाये अभ्युपेयत्वात् । न च प्रकृष्टा धीर्यस्य तस्मै प्रध्ये प्रध्य इत्यादौ प्रथमान्तधीशब्दस्य ङिति परे प्रवर्तमाना नदीसंज्ञाऽस्तीति दिक् । उन्नीरिति ।सत्सूद्विषे॑त्यादिना क्किप् । ङेरामिति । अङ्गत्वान्नीशब्दान्तादपि ङेराम्भवतीति भावः । ग्रामणीरिति । ग्रामं नयतीति ग्रामणीः ।अग्रग्रामाभ्यां नयते॑ रितिणत्वम् । नीरिति । नयतीति नीःष क्किप् ।गतिकारकेतरेति ।गतिकारकपूर्वस्यैव यणिष्यते॑इति तु नोक्तम्, कुमारीमिच्छन् ब्राआहृणः कुमारी, कुमार्यौ कुमार्य इत्यत्र यणभावप्रसङ्गात् । शुद्धधियाविति । यदा तु शुद्धं ब्राहृ ध्यायतीति विगृह्रते तदा भवत्येव यण् । शुद्धध्यौ । शुद्धध्यः । एवमग्रेऽपि । कथं तर्हीति । गतिकारकेतरपूर्वपदत्वमिह नास्तीतियणैव भाव्यमिति प्रश्नः ।दुर्धिय॑इत्यत्रप्रादिभ्यो धातुजस्ये॑ति वार्तिकेन उत्तरपदलोपो बोध्य इत्याशयेनाह — दुःस्थिता धीर्येषामिति । वृश्चिकशब्दस्येति । भाष्यकृता हि बुद्धिपरिकल्पितपायमाश्रित्यभीत्रार्थाना॑मिति सूत्रं प्रत्याख्यातं । ततश्च सम्बन्धमात्रविवक्षायां षष्ठएवेति नास्त्यत्र कारकपूर्वत्वमिति भावः ।ओः सुपी॑त्यतःसुपी॑त्यनुवर्तनादाह — Padamanjari ----------- तेन संयोगो विशेष्यते इति । यद्यप्यन्यपदार्थं प्रति गुणभूतः संयोगः, तथापि स एव विशेष्यते धातोः इत्यनुवृतस्य प्रयोजनान्तराभावात् । अस्तीदं प्रयोजनम् - इवर्ण विशेषयिष्यामीति नैतदस्ति यद्यधातोरिवर्णोऽसंयोगपूर्वः, भवितव्यमेव तस्य यणा इको यणचि इति, तद्यथा - कुमार्थौ, कुमार्य इति । ननु ग्रहमणीवदधातोः पूर्वसवर्णं बाधित्वा यण् मा भूदिति धातुनैवेवर्णो विशेषणीयः नेत्याहः इयङ्बाधनार्थो यण् । न च धातोरियङः प्रसङ्गोऽस्ति, तत्कथमधातुनिवृत्यर्था धात्वनुवृत्तिरुपद्यते, तस्मात्सुष्ठूअक्तम् - गुणभूत एव संयोगो विशेष्यत इति । अङ्गविशेषणं मा भूदिति । अन्यथाधिकारेण सन्निहितस्य तस्यैव विशेषणं स्यादसंयोगपूर्वग्रहणम्, ततश्च यवक्रियौ, यषक्रियः - इत्यत्रापि प्रसध्येत, न ह्यत्राङ्गस्य संयोगः पूर्वोऽवयव इति । ननु च य्वोरिति प्रकृतम् , तत्र एरित्यनुच्यमाने ओरपि यण् स्यात् - लुलुवतुरित्यादौ, ततश्च तन्निवत्यर्थमपि स्यात् इत्यत आह एलुलुवलुर्ल्लवुरित्येतत्विति । इह एरित्यनुच्यमानेनैवौ रपिसिद्धत्वाद् ओः सुपि इत्येतन्नियमार्थं भवति - ओः सुप्येवेति । वपरीतस्तु नियमो न भवतिओरेव सुपीति न भूसुधीयोः इति यण्प्रतिषेधात् । ततश्चास्तमादेव नियमाल्लुलुवुरित्यादौ सिद्धत्वादेरित्येतदोर्मिवृत्यर्थं नोपपद्यते इति पूर्वोक्तमेव प्रयोजनम् । यदि त्वसंयोगपूर्वयोरिति द्विवचननिर्देशेन य्वोरेवैतद्विशेषणमुच्येत, तर्ह्योरिति शक्यमकर्तुम् । इहापि न स्यादिति । यदि धातुना संयोगो न स्यादिति । यदि धातुना संयोगो न विशेष्येतेति भावः । क्वचिद् इहापि यथा स्यादिति पाठः, तत्र प्रकृतत्वाद्यणादेश इत्यर्थः ।गतिकारकाभ्यामित्यादि । इष्टिरेवैषा । परमनियाविति । भावे कर्तरि वा क्विप् ॥ Nyaas ----- `तेन संयोगो विशेष्यते` इति। ननु चान्यपदार्थे गूणीभूतत्वादुपसर्जनमत्र संयोगः। नचोपसर्जनं विशेषणेन सम्बन्धमनुभवति। तथा हि शोभनो राजपुरुष इत्युक्ते पुरुषस्येव प्रधानस्य शोभनत्वेन योगो गम्यते, नोपसर्जनस्य राज्ञः; नैतदस्ति; धातोरित्यनुवृत्तिसामर्थ्यादुपसर्जनमपि संयोगविशेषणेन सम्बन्धमनुभविष्यति, अन्यथा धात्वानुवृत्तिरपार्थिका स्यात्। न त्विवर्णविशेषणार्थं धातुग्रहणमिहानुवृत्तं स्यात्? नैतदस्ति; यदधातोरिवर्णान्तं तस्य हि भवितव्यमेव यणादेशेन **इको यणचि** (6.1.77) इत्यनेनेन। `निन्यतु; निन्युः` इति। नयतोर्लिट्। इयङादेशे प्राप्ते यणादेशः। `उन्न्यौ उन्न्यः` इति। उन्नयतीति **सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्** (3.2.61) इत्यादिना क्विप्। एवं `ग्रामण्यौ, ग्रामण्यः` इत्यत्रापि। `अग्रग्रामाभ्याञ्च` (वा) इति णत्वम्। `असंयोगपूर्वग्रहणम्` इत्यादि। यद्येरिति। नोच्येत, ततोऽसंयोगपूर्वङ्गस्य विशेषणं स्यात्, एवञ्च यवक्रियौ, यवक्रिय इत्यत्रापि स्यात्। भवति ह्रेतदंसयोगपूर्वमङ्गम्, तस्मात्? `एः` इत्युच्यते। असंयोगपूर्वग्रहणमिकारस्य विशेषणं यथा स्यादङ्गस्य मा भूदित्येवमर्थम्। ननु च `य्वोः` इति प्रकृतम्, तत्र यद्येरिति नोच्येत, तदोवर्णान्तस्यापि स्यात्; ततश्च लुलुवतुः, लुलुवुरिति न सिद्ध्येत्। तस्मादुवर्णान्तस्य मा भूदित्येवमर्थमेरिति स्यादित्यत आह -`लुलुवतुः, लुलुवुः` इत्यादि। इहैरोरित्युच्यमाने, अनेनैवोवर्णस्यापि सिद्धे सति **ओः सुपि** (6.4.83) इति नियमर्थं स्यात् -उवर्णान्तस्य यदि भवति तदा सुप्येव, नान्यत्रेति। ततश्चास्मादेव नियमात्? ल्लुलुवतुः, लुलुवुरिति सिद्ध्यतीति एरित्येतदुवर्णान्तनिवृत्त्यर्थं नोपपद्यते। तस्मात्? पूर्वोक्तमेवास्य प्रयोजनं युक्तम्। `यवक्रियौ यवक्रियः` इति। यवान्? क्रीणातीति **अन्येभ्योऽपि दृश्यते** (3.2.178) इति क्विप्। अत्रेकारस्य धात्ववयवसंयोगपूर्वत्वान्न भवति। `इहापि न स्यात्` इति। यदि धातुना संयोगो न विशिष्येतेति शेषः। क्वचिदिहापि यथा स्यादिति पाठः। तत्र प्रकृतत्वाद्यणादेश इति विज्ञायते। यदि धातुनासंयोगो न विशिष्येत, तदा धात्ववयवोऽधात्ववयवो वा संयोगः पूर्वो यस्माद्भवति तदन्तस्य न भवतीति विज्ञायते। ततश्चोन्न्यौ, उन्न्य इत्यत्रापि न स्यात्; संयोगपूर्वत्वादिवर्णस्य। धातुना संयोगे विशेषिते तु भवति। न ह्यत्रेवर्णो धात्ववयवसंयोगपूर्वः। तस्मादिहापि यथा स्यादिदि धातुना संयोगो विशिष्यतदे। `गतिकारकाभ्याम्` इत्यादि। अथ कथमिदं पुनरिष्यमाणमपि न भवति? पूर्वग्रहणात्। इह पूर्वग्रहणं न कर्त्त्यम्, `एरनेकाचोऽसंयोगात्` इत्येवोच्येत। तत्र, धात्ववयवसंयोगाद्य इवर्णः परो न भवति तदन्तस्याङ्गस्य यण्भवति -इत्येवं विज्ञायमाने सिद्ध्यत्येवेष्टमिति किं पूर्वग्रहणेन? तत्? क्रियते पूर्वाचार्यैः -यस्य विहितोऽयं यण्? तस्यैव कर्तव्यो नान्यस्येत्यस्यार्थस्य सूचनार्थम्। पूर्वाचार्याश्च क्विबन्तस्य गतिकारकपूर्वस्यैव कृतवन्तः, नान्यस्येति। तस्मादिहापि गतिकारकाभ्यामन्यपूर्वस्य न क्रियते। अथ वा `वाम्शसोः` (6.4.80) इत्यतो मण्डूकप्लुतिन्यायेन `वा इत्यनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन गतिकारकाभ्यामन्यपूर्वस्य न भविष्यतीति। अस्मश्च व्याख्याने पूर्वग्रहणं विस्पष्टार्थं वेदितव्यम्। `परमनियौ` इति। **सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः** (2.1.61) इत्यादिना समासः। अत्र परमशब्दो न गतिः, न च कारकमिति तत्? पूर्वस्य न भवति॥ Praudhamanorama --------------- 'अचि श्नुधातु' इति सूत्रे द्वन्द्वनिर्देशेऽपि धातुरेवेह सम्बध्यते न तु श्नुभ्रुवौ, तयोरिवर्णासम्भवात्। धातुग्रहणं चावृत्त्या उभयोर्विशेषणं संयोगस्य चाङ्गस्य चेति व्याचष्टे— **धात्ववयवसंयोगेत्यादि।** तत्र धातुना संयोगस्य विशेषणादिह यण्—उन्न्यौ, उन्न्यः। अङ्गविशेषणन्तु 'हरिम्, हरी, हरीन्' इत्यादिसिद्धये। यदि हि धातुनाङ्गं न विशेष्येत तर्हि इहापि 'प्रद्ध्यं, प्रद्धयः' इत्यादाविव पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा यण् स्यात्। धात्ववयवसंयोगपूर्वको न भवति य इवर्णस्तदन्तत्वादङ्गस्य। **वृश्चिकशब्दस्येति।** भाष्यकृता हि बुध्दिपरिकल्पितमपायमाश्रित्य 'भीत्रार्थानाम्' इति सूत्रं प्रत्याख्यातम्, ततश्च सम्बन्धमात्रविवक्षायां षष्ठ्येवेति भावः। सूत्रमतेऽप्याह- Prakriyasarvasvam ----------------- धात्वंशः संयोगः पूर्वो यस्मादिवर्णान्नास्ति, तदन्तानामनेकाचामङ्गानां धातुस्थस्येवर्णस्याचि परे यण् स्यात् । नेन्यः । जेज्यः । संयोगपूर्वस्येवर्णस्य त्वियङेव । शेश्रियः । उदन्ताद् यङो लुङ् नेति केचिदिति कौमुदी । 'रु शब्दे' । रोरूय अ । Sarala ------ एरिति । **एः** - षष्ठ्यन्तम्, **असंयोगपूर्वस्य** - षष्ठ्यन्तम् । **ग्रामणीः** = ग्रामाधिपः, नापितोऽपि (ठाकुर व नाई) । **नीः** = नेता ॥ Sudha ----- **एरनेकाच इति ।** **इको यणचि**(6.1.77) इत्यतो यण् इति **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इत्यतो धातुरित्यनुवर्तते, तच्चावर्तते । तस्मादेव सूत्रात् अचीति चानुवर्तते । अङ्गस्येत्यधिकृतम् । ततश्च प्रत्यये परत इति लभ्यते । अचीति तद्विशेषणम् । तदादिविधिः । तदाह - **धात्ववयवेत्यादिना । प्रध्यौ ।** "प्रधी-औ" इति स्थिते, अत्र **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति प्राप्ते **दीर्घाज्जसि च**(6.1.105) इति निषिद्धे **इको यणचि**(6.1.77) इति यणि प्राप्ते तं प्रबाध्य **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इति प्राप्ते तं बाधित्वा **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति यणि कृते 'प्र ध् य् औ' इति जाते अज्झीनं परेण संयुक्ते "प्रध्यौ" इति रूपम् । "प्रधी-जस्" इति स्थिते, अत्र **चुटू**(1.3.7) इत्यनेन जकारस्येत्सञ्ज्ञाय **तस्य लोपः**(1.3.9) इति लोपे कृते सति **इको यणचि**(6.1.77) इति यणि प्राप्ते तं बाधित्वा **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इतीयङि प्राप्ते तं प्रबाध्य **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति यणि कृते सकारस्य रुत्वे रेफस्य विसर्गे च "प्रध्यः" इति रूपम् । सम्बोधने - हे प्रधीः, हे प्रध्यौ, हे प्रध्यः, इति ।अत्र प्रक्रिया प्रथमाविभक्तिवज्ज्ञेया । **प्रध्यम् ।** "प्रधी-अम्" अत्र **अमि पूर्वः**(6.1.107) इति पूर्वरूपे प्राप्ते तं बाधित्वा **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इतीयङि प्राप्ते तं प्रबाध्य **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति यणि कृते "प्रध्यम्" इति रूपम् । **प्रध्यौ ।** प्रथमाद्विवचनवत्प्रक्रिया । **प्रध्यः** - प्रधीशब्दात् शसि, शकारस्येत्सञ्ज्ञायां लोपे च **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वसवर्णदीर्घे प्राप्ते तं प्रबाध्य **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इतीयङि प्राप्ते तं बाधित्वा **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति यणि कृते "प्रध्यः" इति रूपम् । अत्र पूर्वसवर्णदीर्घाभावान्न नत्वमिति भावः । प्रध्या, प्रधीभ्याम्, प्रधीभिः तृतीया । प्रध्ये, प्रधीभ्यां, प्रधीभ्यः, चतुर्थी । प्रध्यः, प्रधीभ्याम्, प्रधीभ्यः पञ्चमी । प्रध्यः, प्रध्योः, प्रध्याम्, षष्ठी । **प्रध्यि ।** प्रधीशब्दात्सप्तम्येकवचनविवक्षायां ङौ समागते अनुबन्धलोपे "प्रधी-ई" इति जाते **अकः सवर्णे दीर्घः**(6.1.101) इति दीर्घे प्राप्ते तं बाधित्वा **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इतीयङि प्राप्ते तं प्रबाध्य **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति यणि कृते "प्रध्यि" इति रूपम् । **एवं ग्रामणीरिति ।** ग्रामं नयति - नियच्छतीति ग्रामणीः । इति णत्वम् । सप्तम्येकवचनं विहाय एवमेव प्रधीशब्दवत् ग्रामणीशब्दस्य रूपाण्यूहनीयानि । प्रथमैकवचने - अङ्यन्तत्वान्न सुलोपः। अजादौ सर्वत्र **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति यणेव । अस्त्रीत्वान्नदीकार्यं न । हे ग्रामणीः, ग्रामण्यौ, ग्रामण्यः । ग्रामण्यम्, ग्रामण्यौ, ग्रामण्यः । ग्रामण्या । ग्रामण्ये । ग्रामण्योः । ग्रामण्यामिति । सप्तम्यां तु ग्रामणीशब्दात् ङौ समागते **ङेराम्नद्याम्नीभ्यः**(7.3.116) इति डेः स्थाने आमि **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति यणि "ग्रामण्याम्" इति भवति । **अनेकाचः किमिति ।** **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इत्यत्रेति शेषः । **नीः ।** नीशब्दात्सावागते उकारस्येत्सञ्ज्ञायां च सस्य रुत्वे रस्य विसर्गत्वे च विहिते **नीः** इति । नीशब्दाव्यथमाद्विवचने औ समागते **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इतीयङि कृते "नियौ" इति रूपम् । एवमेव जसि **नियः** इति । **अमि शसि चैति ।** नीशब्दात् अमि कृते **अमि पूर्वः**(6.1.107) इति पूर्वरूपे प्राप्ते तं बाधित्वाऽनेनेयङि कृते "नियम्" इति । औटि-नियौ, शसि - **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति प्रबाध्यानेनेयङि "नियः" इति रूपम् । निया, नीभ्याम्, नीभिः, तृतीया । निये, नीभ्यां, नीभ्यः, चतुर्थी । नियः, नीभ्यां नीभ्यः पञ्चमी । नियः, नियोः, नियाम्, षष्ठी । **नियामिति ।** नीशब्दात्सप्तम्येकवचनविवक्षायां ङौ समागते ङकारस्येत्सञ्ज्ञायां लोपे च सति **ङेराम्नद्याम्नीभ्यः**(7.3.116) इति ङेरामि विहिते, विहिते चेयङि "नियाम्" इति रूपम् । सुश्रीः। श्रिञ् सेवायाम् इत्यादिना क्विप् प्रकृतेर्दीर्घश्च । सु श्रयतीति शोभमाना श्रीरस्येति वा सुश्रीः । **सुश्रियाविति ।** **एरनेकाचोऽसंयोगपूर्वस्य**(6.4.82) इति सूत्रे "असंयोगपूर्वस्य" इत्युक्तत्वात् सुश्रीशब्दान्तर्गतेवर्णस्य धात्ववयवसंयोगपूर्वत्वात् न यण् ; किन्तु **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इति योगेनैव सर्वत्राजादौ प्रत्यये परे इयङादेशं विधाय नीशब्दवद्रूपाणि ज्ञेयानि । सप्तम्येकवचने तु अङ्यन्तत्वात् **ङेराम्नद्याम्नीभ्यः**(7.3.116) इति सूत्रस्याप्राप्तौ ङस्येत्सञ्ज्ञालोपौ कृत्वा इयङि कृते "सुश्रियि" इति रूपम्बोध्यम् । **यवक्रियौ ।** यवान् क्रीणातीति यवक्रीः । क्रीञ् धातोः क्विपि रूपम् । अत्रापि धात्ववयवसंयोगपूर्वकत्वान्न यण्, किन्तु सर्वत्राजादौ प्रत्यये परे **अचि श्नुधातुभ्रुवां य्वोरियङुवङौ**(6.4.77) इतीयङ् बोध्यः । Vartika ------- गतिकारकेतरपूर्वपदस्य यण् नेष्यते । Sutra Prayogas -------------- * **संविव्युः** (शिशुपालवधम्): `एरनेकाचोऽसंयोगपूर्वस्य` इति यणादेशः। * **विजिग्यो** (भट्टिकाव्यम्): `एरनेकाचः` इति यणादेशः। * **उच्चिक्यिरे** (भट्टिकाव्यम्): `एरनेकाचः` इति यणादेशः। * **प्रण्यः** (भट्टिकाव्यम्): `एरनेकाचः` इति यणादेशः। * **समापिप्ये** (भट्टिकाव्यम्): `एरनेकाचः` इति यण्। * **निलिल्ये** (भट्टिकाव्यम्): `एरनेकाचः` इति यण्। * **अधिशिश्यिरे** (भट्टिकाव्यम्): `एरनेकाचः` इति यण्।