64072: आडजादीनाम्

Padacheda: आट् | S | 1 | 1 |

अजादीनाम् | S | 6 | 3 |

Sutrartha

लुङ्लकारे, लङ्लकारे, लृङ्लकारे च परे अजादेः अङ्गस्य उदात्तः आट्-आगमः भवति ।

लुङ्लकारस्य , लङ्लकारस्य, लृङ्लकारस्य प्रत्यये परे अङ्गस्य लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इत्यनेन अट्-आगमे प्राप्ते अपवादत्वेन वर्तमानसूत्रेण आट्-आगमः भवति । आट्-आगमे कृते च तस्य आट्-आगमस्य तथा अङ्गस्य आदिस्वरस्य आटश्च इत्यनेन पूर्वपरयोः एकः वृद्धि-एकादेशः भवति । यथा - 1. ईक्ष् + लङ् [अनद्यतने लङ् (3.2.111) इति लङ्] → आट् + ईक्ष् + लङ् [आडजादीनाम् (6.4.72) इति आट्-आगमः] → आ + ईक्ष् + त [तिप्तस्.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः ‘त’] → आ + ईक्ष् + शप् + त [कर्तरि शप् (3.1.68) इति शप्] → ऐक्षत [आटश्च (6.1.90) इति वृद्धि-एकादेशः] 2. ईक्ष् + लुङ् [लुङ् (3.2.110) इति लुङ्] → ईक्ष् + च्लि + ल् [च्लि लुङि (3.1.43) इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् ‘च्लि’] → ईक्ष् + सिच् + ल् [च्लेः सिच् (3.1.44) इति च्ले-इत्यस्य सिच्-आदेशः ।] → आट् ईक्ष्+ स् + ल् आडजादीनाम् (6.4.72) इति आट्-आगमः] → आ ईक्ष् + स् + त [तिप्तस्.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः ‘त’] → आ ईक्ष् + इट् स् + त [आर्द्धधातकस्य इड्वलादेः (7.2.35) इति इडागमः] → ऐक्ष् + इ स् + त [आटश्च (6.1.90) इति वृद्धि-एकादेशः] → एक्षिष् + त [आदेशप्रत्यययोः (8.3.59) इति प्रत्ययावयवस्य सकारस्य षत्वम्] → ऐक्षिष्ट [ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्] 3. ईक्ष् + लृङ् [लिङ्निमित्ते लृङ् क्रियातिपत्तौ (3.3.139) इति लृङ्] → आट् + ईक्ष् + लृङ् [आडजादीनाम् (6.4.72) इति आट्-आगमः] → आ + ईक्ष् + स्य + लृङ् [ स्यतासी लृलुटोः (3.1.33) इति विकरणम् ‘स्य’] → आ + ईक्ष् + स्य + त [तिप्तस्.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः ‘त’] → आ+ ईक्ष् + इट् स्य + त [आर्द्धधातुकस्य इड्वलादेः (7.2.35) इति इडागमः] → ऐक्ष् + इ स्य + त [आटश्च (6.1.90) इति वृद्धि-एकादेशः] → ऐक्षिष्यत [आदेशप्रत्यययोः (8.3.59) इति प्रत्ययावयवस्य सकारस्य षत्वम्] विशेषः - यदि धातोः आदिवर्णः व्यञ्जनमस्ति, परन्तु प्रक्रियायाम् तस्य स्थाने स्वरादेशः भवति, तर्हि लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इत्यनेन अडागमः न भवति, अपितु अपवादत्वेन आडजादीनाम् (6.4.72) अनेन सूत्रेण आडागमः भवति । यथा, ‘वेञ्’ धातोः कर्मणि-प्रयोगे लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - वे + लङ् [अनद्यतने लङ् (3.2.111)] → वे + त [भावकर्मणोः (1.3.13) इति आत्मनेपदम् । तिप्तस्झि.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य ‘त’ प्रत्ययः] → वे + यक् + त [सार्वधातुके यक् (3.1.67) इति यक्-विकरणम्] → उ + य + त [वचिस्वपियजादीनां किति (6.1.15) इति सम्प्रसारणम् , सम्प्रसारणाच्च (6.1.108) इति पूर्वरूपः] → आट् + उ + य + त [आडजादीनाम् (6.4.72) इति आडागमः ।] → औयत [आटश्च (6.1.90) इति वृद्धि-एकादेशः] अस्य कारणम् एतत् - अडागमः / आडागमः लादेशापेक्षया बहिरङ्गकार्यमस्ति । अतः लादेशैः यदि अङ्गे परिवर्तनम् क्रियते, तर्हि तत् परिवर्तनमादौ कृत्वा ततः एव अडागमः / आडागमः क्रियते ।

Sutrartha (English)

For the लुङ्लकार, लङ्लकार and लृङ्लकार, an अजादि अङ्ग gets an आट्-आगम, which is also उदात्त.

Vasu English Summary

आट् acutely accented (उदात्त) is the augment of a verbal अङ्ग (stem) beginning with a vowel in the Aorist, Imperfect and the Conditional.

Vasu English Translation

आट् acutely accented (उदात्त) is the augment of a verbal अङ्ग (stem) beginning with a vowel in the Aorist, Imperfect and the Conditional. Thus ऐक्षिष्ट, ऐक्षत, ऐक्षिष्यत; औव्जीत्, औव्जत्, औव्जिष्यत् ॥ ऐहिष्ट, ऐहत and ऐहष्य औम्भीत्, औम्भत्, and औम्भिष्यत् ॥ The Vriddhi takes place by (6.1.90).

The Passive Imperfect (लङ्) of यज्, वप् and वह are ऐज्यत, औप्यत and औह्यत formed by आट् and not अट् ॥ First, the affixes of the Imperfect are added and then the Passive characteristic यक् is added to these roots, which causes the vocalisation of the semi-vovels, and we have इज्यत, उप्यत, and उह्यत stems (6.1.15). The stems having now assumed a form in which they begin with a vowel, take आट् ॥ The addition of tense-affixes being an antaranga operation precedes the addition of augment. After the affixes have been added, the vikarana यक, being nitya, is added and precedes in order the augment, the latter being so far anitya; after यक् addition the roots assume a form in which we can add आट् ॥ Why आट् is considered anitya depends on the following maxim :- शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति “when the word-form in reference to which a rule teaches something; after the taking effect of another rule that applies simultaneously would be different from what it was before that other rule had taken effect, then the former rule is not nitya.”

Kashika

आडागमो भवत्यजादीनां लुङ्लङ्ऌङ्क्षु परतः, उदात्तश्च स भवति। ऐक्षिष्ट। ऐहिष्ट। औब्जीत्। औम्भीत्। लङ् — ऐक्षत। ऐहत। औब्जत्। औम्भत्। लृङ् — ऐक्षिष्यत। ऐहिष्यत। औब्जिष्यत्। औम्भिष्यत्। इह ऐज्यत औप्यत औह्यतेति लङि कृते लावस्थायामडागमादन्तरङ्गत्वाद् लादेशः क्रियते। तत्र कृते विकरणो नित्यत्वादडागमं बाधते। शब्दान्तरप्राप्तेरडागमस्यानित्यत्वम्, कृते हि विकरणान्तस्याङ्गस्य तेन भवितव्यम्,अकृते तु धातुमात्रस्य। **शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति**(परि०४२), न तु शब्दान्तरादिति विकरणो नित्यः। विकरणे कृते संप्रसारणमडागमाद् नित्यत्वादेव भवति, संप्रसारणे च कृतेऽजाद्यङ्गं जातमिति आडजादीनामित्याडागमः॥

Siddhanta Kaumudi

अजादीनामाट् स्याल्लुङादिषु । अटोऽपवादः । आटश्च (SK269) । ऐधत । ऐधेताम् । ऐधन्त । ऐधथाः । ऐधेथाम् । ऐधध्वम् । ऐधे । ऐधावहि । ऐधामहि ॥

Laghu Siddhanta Kaumudi

अजादेरङ्गस्याट् लुङ्लङॢङ्क्षु। आतत्। अतेत्। अत्यात्। अत्यास्ताम्। लुङि सिचि इडागमे कृते -

Balamanorama

आडजादीनाम् - अथ एधधातोर्लङि लुङ्लङ्लृङ्क्ष्वडुदात्त इत्यडागमे वृदिंध बाधित्वा परत्वादतो गुण इति पररूपे प्राप्ते — आडजादीनां । लुङादिष्विति । ‘लुङ्लङ्लृङ्क्ष्वि’ त्यनुवृत्तेरिति भावः । अटोऽपवाद इति । अटि सति पररूपं स्यादिति भावः ।आटश्चेत्यनन्तरंवृद्धि॑रिति शेषः । यद्यपि वृद्धिरेचीति वा वृद्धौ इदं सिध्यति तथापि ऐक्षतेत्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् । ऐधतेति । लङस्तादेशे शपि आडागमे आटश्चेति वृद्धिः । लङादेशानां टिदादेशत्वाऽभावादेत्वं न भवति ।आडजादीना॑मिति सूत्रं भाष्ये प्रत्याख्यातम् । ऐधेतामिति । आतामि शपि आटि वृद्धिः । ‘आतो ङित’ इत्याकारस्य #इय् । आद्गुणः । आटो वृद्धिः । ऐधावहि ऐधमहीति । वहिमह्योः शप्, आट्, वृद्धिः । इति लङ्प्रक्रिया ।

Tattvabodhini

आडजादीनाम् - एतच्चाऽजादीनमटा सिद्धमिति वार्तिककृता प्रत्याख्यातम् । ननु अटिसतिवृद्धिरेची॑त्यनेन ऐधतेत्यादिसिद्धावपि ऐन्ददित्यादि न सिध्येत् । किं चअतो गुणे॑ इति पररूपप्रवृत्त्या ऐधतेत्याद्यपि न सिध्येत् । यदि तुआटश्चे॑ति सूत्रम्अटश्चे॑ति क्रियेत तर्हि अस्वपोऽहसदित्यत्र वृद्धिः स्यात् ।॒रुदश्च पञ्चभ्यः॑,अङ्गाग्र्यगालवयो॑रित्यडागमस्य सत्त्वात्,अतो रोरप्लुता॑दिति रोरुत्वे सति अच्परत्वाच्चेति चेन्न,उपसर्गादृति धातौ॑ इत्यतो धातावित्यपकृष्याऽजादौ धाताविति व्याख्यानात् । न च अस्वपोऽस्तीत्यादावोकारस्यान्तवद्भावेनाऽट्त्वात्परत्राजादिधातुसत्त्वाच्चोक्तदोषस्तदवस्थ इति वाच्यम्, आदित्यनुवत्र्य अकाररूपादटोऽचि परे वृद्धिरिति व्याख्यानात् । एतेन अटश्चेत्युक्तौअट गतौ॑ इत्यस्माल्ल्युटि अटनमित्यत्रातिप्रसङ्गः स्यादित्येतदपि निरस्तमम् । न चैवमपि आतत् आतीदित्यादि न सिध्यति ।अटश्चे॑त्यस्यैन्ददित्यादौ सावकाशतया परत्वादिहअतो गुणे॑ इत्यस्यैव प्रवृत्तेरिति वाच्यं, चकारोऽत्र पुनर्वृद्धिविधानार्थ इत्यभ्युपगमादन्तरङ्गत्वाद्वाअटश्चे॑त्यस्यैव प्रवृत्तेः । स्यादेतत् — आडजादीना॑मिति सूत्राऽभावे आस्तामासन् इति कथमटा सिध्यति ।श्नसो॑रित्याल्लोपेनअटश्च॑ इतितत्र वृद्ध्यप्रवृत्तेः । मैवम् । अन्तरङ्गत्वात्प्रागेवाऽऽडागमे कृते वृद्धौ च कृतायां पश्चात् श्नसोरल्लोपस्याऽप्रसक्तेः । न चवार्णादाङ्गं बलीयः॑ इति वृद्धेःप्रागल्लोप एव स्यादिति शङ्क्यं, व्याश्रयत्वात्,वार्णादाङ्ग॑मिति परिभाषाया अनित्यत्वाद्वा । तत्र हिश्नसोरल्लोपः॑ इति तपरकरणमेव लिङ्गं ,यदि वृद्धेः प्रागेवाल्लोपः स्यात्तर्हि किंतेन तपरकरणेनेति । यद्यपि वैदिकप्रक्रियायामानट् आव इत्यादौछन्दस्यापि दृश्यते॑ इत्याडागमस्य वक्ष्यमाणत्वात्तदर्थमाट्सूत्रं कर्तव्यं तथाप्याटं विनैवाड्व्यत्ययेन, आङ्पूर्वकत्वेन वा तत्र कथंचिद्व्याख्येयमिति स्थितस्य गतिमाहुः ।

Padamanjari

ऐज्यतेत्यादौ यजिवपिवहीनां हलादित्वादाणन प्राप्नोति, सम्प्रसारणे कृतेऽजादित्वाद्भविष्यति, परत्वाल्लादेशेभ्यः प्रागटा भवितव्यम्, ततो लादेशैः, ततो यका, ततः सम्प्रसारणेन, अत आह - इहेति । लादेशास्यान्तरङ्गत्वं लकारमात्रापेक्षित्वात् । अडागमस्तु लकारविशेषमङ्गं चापेक्षते इति बहिरङ्गः, कृताकृतप्रसङ्गत्वाद्वकरणस्य नित्यत्वम् । नन्वडागमोऽपि कृतेऽपि विकरणे प्राप्नोत्यकृतेऽपीति नित्य एव, ततश्च परत्वादडागम एव प्राप्नोति, तत्राह - शब्दान्तरप्राप्तोरिति । शब्दान्तरप्राप्तिमेव दर्शयति - कृते हीति । अङ्गस्याडागमः कृते विकरणोऽपि शब्दान्तरप्रप्तेरनित्यः तथा हि स कृतेऽडागमे तदादेर्धातोर्भवति, तथाकृते तु धातुमात्रात् अत आह - शब्दान्तरस्येति । षष्ठीनिर्द्देष्टस्य यद्विधीयते आगम आदेशो वा तत्रैषा परिभाषा, न पञ्चमीनिर्देश इत्यर्थः । नित्यत्वादेवेति । एवकारः पौनर्वचनिकः, नित्यत्वादडागमं बाधते इति पूर्वमुक्तम्, तत्रापि स एव हेतुरिति । अडागमस्तु सम्प्रसारणे कृते न प्राप्नोति, आटा बाधितत्वात् । यस्य निमितं लक्षणान्तरेण विहन्यते इति तु न सार्वत्रिकमिति भावः । अयं योगः शक्योऽकर्तुम्, अजादीनामपि पूर्वसूत्रेण अडेवास्तु । कथमाटश्चेति वृद्धिः अटश्चेति वक्ष्यामि । इहापि तर्हि प्राप्नोति - अकार्षीत् अचीति वर्तते । एवमपि स्वपेर्लङ्, सिप्, अड् गार्ग्यगालवयोः इति सिपोऽट्, रुत्वम्, हशि च इत्युत्वम् - अस्वपो हसतीत्यत्र वृद्धप्रसङ्गः अजादौ धातौ वृद्धिं वक्ष्यामि । तर्हि धाताविति वक्तव्यम् न वक्तव्यम् यदेतद् उपसर्गादृति धातौ इति, तत्पूर्वत्रापकृष्यते, अटश्च इत्यत्र चकारस्तस्यैव विधेः समुच्चयार्थः - अटो विध्यन्तरं बाधित्वा वृद्धिरेव यथा स्यात् । तेनाटिटदित्यादौ परमप्यतो गुणे पररुपं बाधित्वा वृद्धिरेव भवति । यथा सिद्धान्तेऽपि, औसीयत् औङ्करीयत् उस्यपदान्तात्, ओमाङेश्च एइति पररुपं न भवति । उतरार्थं तर्ह्याड्वचनम् च्छन्दस्यपि दृश्यते - सुरुचो वेन आवः अट एवात्र छान्दसं दीर्घत्वं भविष्यति - पूरुषो नारक इति । यथा आसन्नित्यत्रापि लावस्थायामेवाटि कृते अ - अस् - ल् इति स्थिते अटश्चेति वृद्धिश्च प्राप्नोति, लादेशाश्च, तत्रान्तरङ्गत्वाल्लादेशः । वृद्धर्ह्यटमचं च निमितमपेक्षते, कृते लादेशे वृद्धिश्च प्राप्नोति, श्नसोरल्लोपः च, तत्रान्तरङ्गत्वाद्वृद्धिः । नानाश्रयत्वाच्च वार्णादाङ्गं बलीयः इति नास्ति कृतायां वृद्धौ तपरकरणादाकारस्य लोपाभावः । इह च आयन्निति इणो लङ् इटि अ - इ - अन्, अटश्चेति वृद्धिः प्राप्नोति, इणो यण् इति यणादेशश्च, तत्रान्तरङ्गत्वाद्वृद्धः, नानाश्रयत्वाच्चवार्णादाङ्गं बलीयः, इति नास्ति, इणो यण् एः इति योगविभागादिवर्णान्तस्येणो यण्विधानादेकारस्य तदभावादायादेशे सिद्धिमिष्टम् । अत्र श्लौकौ - अजादीनामटा सिद्धं वृद्ध्यर्थमिति चेदटः । अस्वपो हलतीत्यत्र धातौ वृद्धिमटः स्मरेत् ॥ पररुपं गुणेनाट ओमाङेरुसि तत्समम् । च्छन्दोऽर्थं बहुलं दीर्घ इणस्त्योरन्तरङ्गतः ॥

Nyaas

ऐक्षिष्ट, ऐहिष्ट इति। ईक्ष दर्शने (धातुपाठः-610) ईह चेष्टायाम् (धातुपाठः-632) -अनुदात्तेतौ, आटश्च (6.1.87) इति वृद्धिः। औब्जीत्? `औम्भीत् इति। उब्ज आर्जने (धातुपाठः-1303), उभ उन्भपूरणे (धातुपाठः-1319,1320), आर्धधातुकस्येट् (7.2.35) , अस्ति सिचोऽपृक्ते (7.3.96) इतीट्? इट ईटि (8.2.28) इति सिचो लोपः। अथैज्यत, औप्यत, औह्रतेत्यत्र कथमाट्; यतो यजिवपिवहिभ्यो लङः विहितः कर्मणि, ते च हलादयः, नाजादयः। न च शक्यते वक्तुम् -सम्प्रसारणे कृतेऽजादित्वं भविष्यतीति। यस्मात्? प्रागेव लादेशात्? परत्वादडागमेन भवितव्यम्, ततो लादेशेन, ततो यका, ततः सम्प्रसारणेन? इत्यत आह -इह इत्यादि। यद्यप्यडागमः परः, तथाप्यन्तरङ्गत्वादादेशस्य पूर्व स एव क्रियते। लादेशो हि धातोर्विहितं लकारमात्रमपेक्ष्य भवतीत्यन्तरङ्गः। अडागमस्तु लकारविशेषम्; अङ्गस्य विधीयमानत्वात्। अङ्गञ्च प्रत्ययमपेक्षत इति बरिरङ्गः। पूर्वोत्पत्तिनियित्तोपलक्षणमात्रं चेहान्तरङ्गत्वम्, तेन नित्यत्वमप्युक्तं भवति। लादेशो हि नित्यः, कृतेऽप्यटि प्राप्नोति, अकृतेऽपि; अडागमस्त्वनित्यः, शब्दान्तरप्रप्तेः। कृते हि लादेशे नित्यत्वाद्विकरणेन भवितव्यम्। विकरणे च कृते विकरणान्तरस्याङ्गस्य तेन भवितव्यम्, अकृते तु धातुमात्रस्य। तस्मादन्तरङ्गत्वान्नित्यत्वाच्चाडागमात्पूर्वं लादेशः क्रियते। तत्र कृते इति। लादेशे कृते। विकरणः इति। यक्। नित्यत्वात् इति। कृताकृतप्रसङ्गित्वेन विकरणस्य नित्यत्वम्। स हि कृतेऽप्यटि प्राप्नोति, अकृतेऽपि। स्यादेतत् -अडागमोऽपि कृते विकरणे प्राप्नोति अकृतेऽपि, अतस्तस्यापि नित्यत्वम्, तत्रोभयोर्नित्यत्वे परत्वादडागम एव पूर्वं भविष्यति? इत्यत आह -शब्दान्तरप्राप्तिः इत्यादि। कथं पुनः शब्दान्तरप्राप्तिः? इत्याह -कृते हि इत्यादि। अङ्गस्याडागमो विधीयते; कृते च विकरणे तदादिग्रहणस्य स्यादिति नुमर्थत्वाद्विकरणान्तमङ्गे भवति, अकृते तु धातुमात्रम्। अन्यच्च विकरणान्तादङ्गाद्धातुमात्रमङ्गम्, अतोऽन्यस्य कृते प्राप्नोति, अकृते त्वन्यस्य इति स्फुटैव शब्दान्तरप्राप्तिः, तत्रैतत्स्यात्। विकरणस्यापि शब्दान्तरप्राप्तेरेवानित्यत्वम्, तथा हि -तेनापि कृते सत्यडागमे तदादेर्धातोर्भवितव्यम्; अकृते धातुमात्रादित्यत आह -शब्दान्तरस्य च इत्यीदि। यद्यप्यटः कृताकृतयोरेवावस्थयोर्विकरमः शब्दान्तरात्? प्राप्नोति, तथापि न तस्यानित्यत्वमुपपद्यते, यस्मात्? शब्दान्तरस्य प्राप्नुवन्? विधिरनित्यो भवति (व्या।प।100) इत्येषा हि शास्त्रव्यवस्था; न तु शब्दान्तरात्? प्राप्नुवन्? विधिरनित्यः इत्येषा। न च विकरणः कस्यचिच्छब्दस्यागम आदेशो वा विधीयते; यतः शब्दान्तरस्य प्राप्नुवन्? विधिरनित्यः स्यात्। तथा हि -सार्वधातुके परे धातोः परः प्रत्ययो विधीयते, न तु तस्यागमः, आदेशो वेति कुतो विकरणस्यानित्यत्वम्। विकरणे तर्हि कृते सम्प्रसारणात्पूर्वमाडागमो भविष्यति? इत्यत आह -विकरणे कृते सम्प्रसारणम् इत्यादि। नित्यत्वन्तु सम्प्रसारणस्य पूर्ववत्; कृताकृतप्रसङ्गित्वात्। आडागमस्तु कृते सम्प्रसारणे प्राप्नोति, कृते हि सम्प्रसारणेऽजादित्वादाटा भवितव्यमित्यनित्योऽयमाडागमः॥

Prakriyasarvasvam

अजादीनामङ्गानां लुङ्लङ्लृङ्क्षूदात्त आट् स्यात् । आ ऋतीयत । ‘आटश्च’ इति द्वयोः सह रपरा वृद्धिः । आर्तीयत । आर्तीयताम् । आर्तीयन्त । लुङादौ ईयङपसे आर्तीयिष्ट । आर्तीयिषाताम् । आर्तीयिध्वम्, आर्तीयिध्वम् । चिणि आर्तीयि । शेषं तद्वत् । लिटि प्राग्वदाम् । ईयङस्तद्वत्त्वात् कृञस्तङेव । ऋतीयाञ्चक्रे इत्यादि । भ्वस्त्योः कर्तरि तङ् न । ऋतीयाम्बभूव । ऋतीयामास । कर्मणि तु त्रयाणां तङेव । आशीरादौ ऋतीयिषीष्ट । ऋतीयिषीध्वम्, ऋतीयि- षीध्वम् । ऋतीयिता । ऋतीयिष्यते । आर्तीयिष्यत । लुङादौ ईयङभावात् तङ् न । आर्तीत् । आर्तिष्टाम् । कर्मणि आर्ति । आर्तिषाताम् । आर्तिध्वम्, आर्तिढ्वम् । लिटि णलि गुणः । द्वित्वम् । हलादिशेषः । अ अर्त् अ । ‘अत आदेः’ दीर्घः । आ अत् अ ।

Sutra Prayogas

  • व्याञ्जि (शिशुपालवधम्): आडजादीनाम् इत्याडागमः।

  • समारन्त (भट्टिकाव्यम्): आडजादीनाम् इति भाषाविपयस्य प्रयोगः।

  • प्रपलायिष्ट (भट्टिकाव्यम्): आडजादीनाम् इति आट्।