64072: आडजादीनाम् ================= **Padacheda:** आट् | S | 1 | 1 | अजादीनाम् | S | 6 | 3 | Sutrartha --------- **लुङ्लकारे, लङ्लकारे, लृङ्लकारे च परे अजादेः अङ्गस्य उदात्तः आट्-आगमः भवति ।** लुङ्लकारस्य , लङ्लकारस्य, लृङ्लकारस्य प्रत्यये परे अङ्गस्य **लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इत्यनेन अट्-आगमे प्राप्ते अपवादत्वेन वर्तमानसूत्रेण आट्-आगमः भवति । आट्-आगमे कृते च तस्य आट्-आगमस्य तथा अङ्गस्य आदिस्वरस्य **आटश्च** इत्यनेन पूर्वपरयोः एकः वृद्धि-एकादेशः भवति । यथा - 1. ईक्ष् + लङ् [**अनद्यतने लङ्** (3.2.111) इति लङ्] → आट् + ईक्ष् + लङ् [**आडजादीनाम्** (6.4.72) इति आट्-आगमः] → आ + ईक्ष् + त [**तिप्तस्..** (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः 'त'] → आ + ईक्ष् + शप् + त [**कर्तरि शप्** (3.1.68) इति शप्] → ऐक्षत [**आटश्च** (6.1.90) इति वृद्धि-एकादेशः] 2. ईक्ष् + लुङ् [**लुङ्** (3.2.110) इति लुङ्] → ईक्ष् + च्लि + ल् [**च्लि लुङि** (3.1.43) इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि'] → ईक्ष् + सिच् + ल् [**च्लेः सिच्** (3.1.44) इति च्ले-इत्यस्य सिच्-आदेशः ।] → आट् ईक्ष्+ स् + ल् **आडजादीनाम्** (6.4.72) इति आट्-आगमः] → आ ईक्ष् + स् + त [**तिप्तस्..** (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः 'त'] → आ ईक्ष् + इट् स् + त [**आर्द्धधातकस्य इड्वलादेः** (7.2.35) इति इडागमः] → ऐक्ष् + इ स् + त [**आटश्च** (6.1.90) इति वृद्धि-एकादेशः] → एक्षिष् + त [**आदेशप्रत्यययोः** (8.3.59) इति प्रत्ययावयवस्य सकारस्य षत्वम्] → ऐक्षिष्ट [**ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम्] 3. ईक्ष् + लृङ् [**लिङ्निमित्ते लृङ् क्रियातिपत्तौ** (3.3.139) इति लृङ्] → आट् + ईक्ष् + लृङ् [**आडजादीनाम्** (6.4.72) इति आट्-आगमः] → आ + ईक्ष् + स्य + लृङ् [ **स्यतासी लृलुटोः** (3.1.33) इति विकरणम् 'स्य'] → आ + ईक्ष् + स्य + त [**तिप्तस्..** (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः 'त'] → आ+ ईक्ष् + इट् स्य + त [**आर्द्धधातुकस्य इड्वलादेः** (7.2.35) इति इडागमः] → ऐक्ष् + इ स्य + त [**आटश्च** (6.1.90) इति वृद्धि-एकादेशः] → ऐक्षिष्यत [**आदेशप्रत्यययोः** (8.3.59) इति प्रत्ययावयवस्य सकारस्य षत्वम्] विशेषः - यदि धातोः आदिवर्णः व्यञ्जनमस्ति, परन्तु प्रक्रियायाम् तस्य स्थाने स्वरादेशः भवति, तर्हि **लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इत्यनेन अडागमः न भवति, अपितु अपवादत्वेन **आडजादीनाम्** (6.4.72) अनेन सूत्रेण आडागमः भवति । यथा, 'वेञ्' धातोः कर्मणि-प्रयोगे लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - वे + लङ् [**अनद्यतने लङ्** (3.2.111)] → वे + त [**भावकर्मणोः** (1.3.13) इति आत्मनेपदम् । **तिप्तस्झि..** (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः] → वे + यक् + त [**सार्वधातुके यक्** (3.1.67) इति यक्-विकरणम्] → उ + य + त [**वचिस्वपियजादीनां किति** (6.1.15) इति सम्प्रसारणम् , **सम्प्रसारणाच्च** (6.1.108) इति पूर्वरूपः] → आट् + उ + य + त [**आडजादीनाम्** (6.4.72) इति आडागमः ।] → औयत [**आटश्च** (6.1.90) इति वृद्धि-एकादेशः] अस्य कारणम् एतत् - अडागमः / आडागमः लादेशापेक्षया बहिरङ्गकार्यमस्ति । अतः लादेशैः यदि अङ्गे परिवर्तनम् क्रियते, तर्हि तत् परिवर्तनमादौ कृत्वा ततः एव अडागमः / आडागमः क्रियते । Sutrartha (English) ------------------- For the लुङ्लकार, लङ्लकार and लृङ्लकार, an अजादि अङ्ग gets an आट्-आगम, which is also उदात्त. Vasu English Summary -------------------- आट् acutely accented (उदात्त) is the augment of a verbal अङ्ग (stem) beginning with a vowel in the Aorist, Imperfect and the Conditional. Vasu English Translation ------------------------ आट् acutely accented (उदात्त) is the augment of a verbal अङ्ग (stem) beginning with a vowel in the Aorist, Imperfect and the Conditional. Thus ऐक्षिष्ट, ऐक्षत, ऐक्षिष्यत; औव्जीत्, औव्जत्, औव्जिष्यत् ॥ ऐहिष्ट, ऐहत and ऐहष्य औम्भीत्, औम्भत्, and औम्भिष्यत् ॥ The *Vriddhi* takes place by (6.1.90). The Passive Imperfect (लङ्) of यज्, वप् and वह are ऐज्यत, औप्यत and औह्यत formed by आट् and not अट् ॥ First, the affixes of the Imperfect are added and then the Passive characteristic यक् is added to these roots, which causes the vocalisation of the semi-vovels, and we have इज्यत, उप्यत, and उह्यत stems (6.1.15). The stems having now assumed a form in which they begin with a vowel, take आट् ॥ The addition of tense-affixes being an *antaranga* operation precedes the addition of augment. After the affixes have been added, the *vikarana* यक, being *nitya*, is added and precedes in order the augment, the latter being so far *anitya*; after यक् addition the roots assume a form in which we can add आट् ॥ Why आट् is considered *anitya* depends on the following maxim :- शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति "when the word-form in reference to which a rule teaches something; after the taking effect of another rule that applies simultaneously would be different from what it was before that other rule had taken effect, then the former rule is not *nitya*." Kashika ------- आडागमो भवत्यजादीनां लुङ्लङ्ऌङ्क्षु परतः, उदात्तश्च स भवति। ऐक्षिष्ट। ऐहिष्ट। औब्जीत्। औम्भीत्। लङ् — ऐक्षत। ऐहत। औब्जत्। औम्भत्। लृङ् — ऐक्षिष्यत। ऐहिष्यत। औब्जिष्यत्। औम्भिष्यत्। इह ऐज्यत औप्यत औह्यतेति लङि कृते लावस्थायामडागमादन्तरङ्गत्वाद् लादेशः क्रियते। तत्र कृते विकरणो नित्यत्वादडागमं बाधते। शब्दान्तरप्राप्तेरडागमस्यानित्यत्वम्, कृते हि विकरणान्तस्याङ्गस्य तेन भवितव्यम्,अकृते तु धातुमात्रस्य। **शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति**(परि०४२), न तु शब्दान्तरादिति विकरणो नित्यः। विकरणे कृते संप्रसारणमडागमाद् नित्यत्वादेव भवति, संप्रसारणे च कृतेऽजाद्यङ्गं जातमिति आडजादीनामित्याडागमः॥ Siddhanta Kaumudi ----------------- अजादीनामाट् स्याल्लुङादिषु । अटोऽपवादः । आटश्च (SK269) । ऐधत । ऐधेताम् । ऐधन्त । ऐधथाः । ऐधेथाम् । ऐधध्वम् । ऐधे । ऐधावहि । ऐधामहि ॥ Laghu Siddhanta Kaumudi ----------------------- अजादेरङ्गस्याट् लुङ्लङॢङ्क्षु। आतत्। अतेत्। अत्यात्। अत्यास्ताम्। लुङि सिचि इडागमे कृते - Balamanorama ------------ **आडजादीनाम्** - अथ एधधातोर्लङि लुङ्लङ्लृङ्क्ष्वडुदात्त इत्यडागमे वृदिंध बाधित्वा परत्वादतो गुण इति पररूपे प्राप्ते — आडजादीनां । लुङादिष्विति । 'लुङ्लङ्लृङ्क्ष्वि' त्यनुवृत्तेरिति भावः । अटोऽपवाद इति । अटि सति पररूपं स्यादिति भावः ।आटश्चेत्यनन्तरंवृद्धि॑रिति शेषः । यद्यपि वृद्धिरेचीति वा वृद्धौ इदं सिध्यति तथापि ऐक्षतेत्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् । ऐधतेति । लङस्तादेशे शपि आडागमे आटश्चेति वृद्धिः । लङादेशानां टिदादेशत्वाऽभावादेत्वं न भवति ।आडजादीना॑मिति सूत्रं भाष्ये प्रत्याख्यातम् । ऐधेतामिति । आतामि शपि आटि वृद्धिः । 'आतो ङित' इत्याकारस्य #इय् । आद्गुणः । आटो वृद्धिः । ऐधावहि ऐधमहीति । वहिमह्योः शप्, आट्, वृद्धिः । इति लङ्प्रक्रिया । Tattvabodhini ------------- **आडजादीनाम्** - एतच्चाऽजादीनमटा सिद्धमिति वार्तिककृता प्रत्याख्यातम् । ननु अटिसतिवृद्धिरेची॑त्यनेन ऐधतेत्यादिसिद्धावपि ऐन्ददित्यादि न सिध्येत् । किं चअतो गुणे॑ इति पररूपप्रवृत्त्या ऐधतेत्याद्यपि न सिध्येत् । यदि तुआटश्चे॑ति सूत्रम्अटश्चे॑ति क्रियेत तर्हि अस्वपोऽहसदित्यत्र वृद्धिः स्यात् ।॒रुदश्च पञ्चभ्यः॑,अङ्गाग्र्यगालवयो॑रित्यडागमस्य सत्त्वात्,अतो रोरप्लुता॑दिति रोरुत्वे सति अच्परत्वाच्चेति चेन्न,उपसर्गादृति धातौ॑ इत्यतो धातावित्यपकृष्याऽजादौ धाताविति व्याख्यानात् । न च अस्वपोऽस्तीत्यादावोकारस्यान्तवद्भावेनाऽट्त्वात्परत्राजादिधातुसत्त्वाच्चोक्तदोषस्तदवस्थ इति वाच्यम्, आदित्यनुवत्र्य अकाररूपादटोऽचि परे वृद्धिरिति व्याख्यानात् । एतेन अटश्चेत्युक्तौअट गतौ॑ इत्यस्माल्ल्युटि अटनमित्यत्रातिप्रसङ्गः स्यादित्येतदपि निरस्तमम् । न चैवमपि आतत् आतीदित्यादि न सिध्यति ।अटश्चे॑त्यस्यैन्ददित्यादौ सावकाशतया परत्वादिहअतो गुणे॑ इत्यस्यैव प्रवृत्तेरिति वाच्यं, चकारोऽत्र पुनर्वृद्धिविधानार्थ इत्यभ्युपगमादन्तरङ्गत्वाद्वाअटश्चे॑त्यस्यैव प्रवृत्तेः । स्यादेतत् — आडजादीना॑मिति सूत्राऽभावे आस्तामासन् इति कथमटा सिध्यति ।श्नसो॑रित्याल्लोपेनअटश्च॑ इतितत्र वृद्ध्यप्रवृत्तेः । मैवम् । अन्तरङ्गत्वात्प्रागेवाऽऽडागमे कृते वृद्धौ च कृतायां पश्चात् श्नसोरल्लोपस्याऽप्रसक्तेः । न चवार्णादाङ्गं बलीयः॑ इति वृद्धेःप्रागल्लोप एव स्यादिति शङ्क्यं, व्याश्रयत्वात्,वार्णादाङ्ग॑मिति परिभाषाया अनित्यत्वाद्वा । तत्र हिश्नसोरल्लोपः॑ इति तपरकरणमेव लिङ्गं ,यदि वृद्धेः प्रागेवाल्लोपः स्यात्तर्हि किंतेन तपरकरणेनेति । यद्यपि वैदिकप्रक्रियायामानट् आव इत्यादौछन्दस्यापि दृश्यते॑ इत्याडागमस्य वक्ष्यमाणत्वात्तदर्थमाट्सूत्रं कर्तव्यं तथाप्याटं विनैवाड्व्यत्ययेन, आङ्पूर्वकत्वेन वा तत्र कथंचिद्व्याख्येयमिति स्थितस्य गतिमाहुः । Padamanjari ----------- ऐज्यतेत्यादौ यजिवपिवहीनां हलादित्वादाणन प्राप्नोति, सम्प्रसारणे कृतेऽजादित्वाद्भविष्यति, परत्वाल्लादेशेभ्यः प्रागटा भवितव्यम्, ततो लादेशैः, ततो यका, ततः सम्प्रसारणेन, अत आह - इहेति । लादेशास्यान्तरङ्गत्वं लकारमात्रापेक्षित्वात् । अडागमस्तु लकारविशेषमङ्गं चापेक्षते इति बहिरङ्गः, कृताकृतप्रसङ्गत्वाद्वकरणस्य नित्यत्वम् । नन्वडागमोऽपि कृतेऽपि विकरणे प्राप्नोत्यकृतेऽपीति नित्य एव, ततश्च परत्वादडागम एव प्राप्नोति, तत्राह - शब्दान्तरप्राप्तोरिति । शब्दान्तरप्राप्तिमेव दर्शयति - कृते हीति । अङ्गस्याडागमः कृते विकरणोऽपि शब्दान्तरप्रप्तेरनित्यः तथा हि स कृतेऽडागमे तदादेर्धातोर्भवति, तथाकृते तु धातुमात्रात् अत आह - शब्दान्तरस्येति । षष्ठीनिर्द्देष्टस्य यद्विधीयते आगम आदेशो वा तत्रैषा परिभाषा, न पञ्चमीनिर्देश इत्यर्थः । नित्यत्वादेवेति । एवकारः पौनर्वचनिकः, नित्यत्वादडागमं बाधते इति पूर्वमुक्तम्, तत्रापि स एव हेतुरिति । अडागमस्तु सम्प्रसारणे कृते न प्राप्नोति, आटा बाधितत्वात् । यस्य निमितं लक्षणान्तरेण विहन्यते इति तु न सार्वत्रिकमिति भावः । अयं योगः शक्योऽकर्तुम्, अजादीनामपि पूर्वसूत्रेण अडेवास्तु । कथमाटश्चेति वृद्धिः अटश्चेति वक्ष्यामि । इहापि तर्हि प्राप्नोति - अकार्षीत् अचीति वर्तते । एवमपि स्वपेर्लङ्, सिप्, अड् गार्ग्यगालवयोः इति सिपोऽट्, रुत्वम्, हशि च इत्युत्वम् - अस्वपो हसतीत्यत्र वृद्धप्रसङ्गः अजादौ धातौ वृद्धिं वक्ष्यामि । तर्हि धाताविति वक्तव्यम् न वक्तव्यम् यदेतद् उपसर्गादृति धातौ इति, तत्पूर्वत्रापकृष्यते, अटश्च इत्यत्र चकारस्तस्यैव विधेः समुच्चयार्थः - अटो विध्यन्तरं बाधित्वा वृद्धिरेव यथा स्यात् । तेनाटिटदित्यादौ परमप्यतो गुणे पररुपं बाधित्वा वृद्धिरेव भवति । यथा सिद्धान्तेऽपि, औसीयत् औङ्करीयत् उस्यपदान्तात्, ओमाङेश्च एइति पररुपं न भवति । उतरार्थं तर्ह्याड्वचनम् च्छन्दस्यपि दृश्यते - सुरुचो वेन आवः अट एवात्र छान्दसं दीर्घत्वं भविष्यति - पूरुषो नारक इति । यथा आसन्नित्यत्रापि लावस्थायामेवाटि कृते अ - अस् - ल् इति स्थिते अटश्चेति वृद्धिश्च प्राप्नोति, लादेशाश्च, तत्रान्तरङ्गत्वाल्लादेशः । वृद्धर्ह्यटमचं च निमितमपेक्षते, कृते लादेशे वृद्धिश्च प्राप्नोति, श्नसोरल्लोपः च, तत्रान्तरङ्गत्वाद्वृद्धिः । नानाश्रयत्वाच्च वार्णादाङ्गं बलीयः इति नास्ति कृतायां वृद्धौ तपरकरणादाकारस्य लोपाभावः । इह च आयन्निति इणो लङ् इटि अ - इ - अन्, अटश्चेति वृद्धिः प्राप्नोति, इणो यण् इति यणादेशश्च, तत्रान्तरङ्गत्वाद्वृद्धः, नानाश्रयत्वाच्चवार्णादाङ्गं बलीयः, इति नास्ति, इणो यण् एः इति योगविभागादिवर्णान्तस्येणो यण्विधानादेकारस्य तदभावादायादेशे सिद्धिमिष्टम् । अत्र श्लौकौ - अजादीनामटा सिद्धं वृद्ध्यर्थमिति चेदटः । अस्वपो हलतीत्यत्र धातौ वृद्धिमटः स्मरेत् ॥ पररुपं गुणेनाट ओमाङेरुसि तत्समम् । च्छन्दोऽर्थं बहुलं दीर्घ इणस्त्योरन्तरङ्गतः ॥ Nyaas ----- `ऐक्षिष्ट, ऐहिष्ट` इति। `ईक्ष दर्शने` (धातुपाठः-610) `ईह चेष्टायाम्` (धातुपाठः-632) -अनुदात्तेतौ, `आटश्च` (6.1.87) इति वृद्धिः। `औब्जीत्? `औम्भीत्` इति। `उब्ज आर्जने` (धातुपाठः-1303), `उभ उन्भपूरणे` (धातुपाठः-1319,1320), `आर्धधातुकस्येट्` (7.2.35) , `अस्ति सिचोऽपृक्ते` (7.3.96) इतीट्? `इट ईटि` (8.2.28) इति सिचो लोपः। अथैज्यत, औप्यत, औह्रतेत्यत्र कथमाट्; यतो यजिवपिवहिभ्यो लङः विहितः कर्मणि, ते च हलादयः, नाजादयः। न च शक्यते वक्तुम् -सम्प्रसारणे कृतेऽजादित्वं भविष्यतीति। यस्मात्? प्रागेव लादेशात्? परत्वादडागमेन भवितव्यम्, ततो लादेशेन, ततो यका, ततः सम्प्रसारणेन? इत्यत आह -`इह` इत्यादि। यद्यप्यडागमः परः, तथाप्यन्तरङ्गत्वादादेशस्य पूर्व स एव क्रियते। लादेशो हि धातोर्विहितं लकारमात्रमपेक्ष्य भवतीत्यन्तरङ्गः। अडागमस्तु लकारविशेषम्; अङ्गस्य विधीयमानत्वात्। अङ्गञ्च प्रत्ययमपेक्षत इति बरिरङ्गः। पूर्वोत्पत्तिनियित्तोपलक्षणमात्रं चेहान्तरङ्गत्वम्, तेन नित्यत्वमप्युक्तं भवति। लादेशो हि नित्यः, कृतेऽप्यटि प्राप्नोति, अकृतेऽपि; अडागमस्त्वनित्यः, शब्दान्तरप्रप्तेः। कृते हि लादेशे नित्यत्वाद्विकरणेन भवितव्यम्। विकरणे च कृते विकरणान्तरस्याङ्गस्य तेन भवितव्यम्, अकृते तु धातुमात्रस्य। तस्मादन्तरङ्गत्वान्नित्यत्वाच्चाडागमात्पूर्वं लादेशः क्रियते। `तत्र कृते` इति। लादेशे कृते। `विकरणः` इति। यक्। `नित्यत्वात्` इति। कृताकृतप्रसङ्गित्वेन विकरणस्य नित्यत्वम्। स हि कृतेऽप्यटि प्राप्नोति, अकृतेऽपि। स्यादेतत् -अडागमोऽपि कृते विकरणे प्राप्नोति अकृतेऽपि, अतस्तस्यापि नित्यत्वम्, तत्रोभयोर्नित्यत्वे परत्वादडागम एव पूर्वं भविष्यति? इत्यत आह -`शब्दान्तरप्राप्तिः` इत्यादि। कथं पुनः शब्दान्तरप्राप्तिः? इत्याह -`कृते हि` इत्यादि। अङ्गस्याडागमो विधीयते; कृते च विकरणे तदादिग्रहणस्य स्यादिति नुमर्थत्वाद्विकरणान्तमङ्गे भवति, अकृते तु धातुमात्रम्। अन्यच्च विकरणान्तादङ्गाद्धातुमात्रमङ्गम्, अतोऽन्यस्य कृते प्राप्नोति, अकृते त्वन्यस्य इति स्फुटैव शब्दान्तरप्राप्तिः, तत्रैतत्स्यात्। विकरणस्यापि शब्दान्तरप्राप्तेरेवानित्यत्वम्, तथा हि -तेनापि कृते सत्यडागमे तदादेर्धातोर्भवितव्यम्; अकृते धातुमात्रादित्यत आह -`शब्दान्तरस्य च` इत्यीदि। यद्यप्यटः कृताकृतयोरेवावस्थयोर्विकरमः शब्दान्तरात्? प्राप्नोति, तथापि न तस्यानित्यत्वमुपपद्यते, यस्मात्? `शब्दान्तरस्य प्राप्नुवन्? विधिरनित्यो भवति` (व्या।प।100) इत्येषा हि शास्त्रव्यवस्था; न तु `शब्दान्तरात्? प्राप्नुवन्? विधिरनित्यः` इत्येषा। न च विकरणः कस्यचिच्छब्दस्यागम आदेशो वा विधीयते; यतः `शब्दान्तरस्य प्राप्नुवन्? विधिरनित्यः` स्यात्। तथा हि -सार्वधातुके परे धातोः परः प्रत्ययो विधीयते, न तु तस्यागमः, आदेशो वेति कुतो विकरणस्यानित्यत्वम्। विकरणे तर्हि कृते सम्प्रसारणात्पूर्वमाडागमो भविष्यति? इत्यत आह -`विकरणे कृते सम्प्रसारणम्` इत्यादि। नित्यत्वन्तु सम्प्रसारणस्य पूर्ववत्; कृताकृतप्रसङ्गित्वात्। आडागमस्तु कृते सम्प्रसारणे प्राप्नोति, कृते हि सम्प्रसारणेऽजादित्वादाटा भवितव्यमित्यनित्योऽयमाडागमः॥ Prakriyasarvasvam ----------------- अजादीनामङ्गानां लुङ्लङ्लृङ्क्षूदात्त आट् स्यात् । आ ऋतीयत । 'आटश्च' इति द्वयोः सह रपरा वृद्धिः । आर्तीयत । आर्तीयताम् । आर्तीयन्त । लुङादौ ईयङपसे आर्तीयिष्ट । आर्तीयिषाताम् । आर्तीयिध्वम्, आर्तीयिध्वम् । चिणि आर्तीयि । शेषं तद्वत् । लिटि प्राग्वदाम् । ईयङस्तद्वत्त्वात् कृञस्तङेव । ऋतीयाञ्चक्रे इत्यादि । भ्वस्त्योः कर्तरि तङ् न । ऋतीयाम्बभूव । ऋतीयामास । कर्मणि तु त्रयाणां तङेव । आशीरादौ ऋतीयिषीष्ट । ऋतीयिषीध्वम्, ऋतीयि- षीध्वम् । ऋतीयिता । ऋतीयिष्यते । आर्तीयिष्यत । लुङादौ ईयङभावात् तङ् न । आर्तीत् । आर्तिष्टाम् । कर्मणि आर्ति । आर्तिषाताम् । आर्तिध्वम्, आर्तिढ्वम् । लिटि णलि गुणः । द्वित्वम् । हलादिशेषः । अ अर्त् अ । 'अत आदेः' दीर्घः । आ अत् अ । Sutra Prayogas -------------- * **व्याञ्जि** (शिशुपालवधम्): `आडजादीनाम्` इत्याडागमः। * **समारन्त** (भट्टिकाव्यम्): `आडजादीनाम्` इति भाषाविपयस्य प्रयोगः। * **प्रपलायिष्ट** (भट्टिकाव्यम्): `आडजादीनाम्` इति आट्।