64071: लुङ्लङ्लृङ्क्ष्वडुदात्तः¶
Padacheda: लुङ्-लङ्-लृङ्क्षु | S | 7 | 3 |
अट् | S | 1 | 1 |
उदात्तः | S | 1 | 1 |
Sutrartha¶
लुङ्लकारे, लङ्लकारे, लृङ्लकारे च परे अङ्गस्य उदात्तः अट्-आगमः भवति ।
लुङ्लकारस्य , लङ्लकारस्य, लृङ्लकारस्य प्रत्यये परे अङ्गस्य ‘अट्’ आगमः भवति । सः च उदात्तसंज्ञकः भवति । यथा - 1. पठ् + लङ् [अनद्यतने लङ् (3.2.111) इति लङ्] → अट् + पठ् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अट्-आगमः] → अ + पठ् + तिप् [तिप्तस्.. (3.4.78) इति तिप्] → अ + पठ् + शप् + ति [कर्तरि शप् (3.1.68) इति शप्] → अ + पठ् + अ + त् [इतश्च (3.4.100) इति इकारलोपः] → अपठत् 2. पठ् + लुङ् [लुङ् (3.2.110) इति लुङ्] → पठ् + च्लि + ल् [च्लि लुङि (3.1.43) इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् ‘च्लि’] → पठ् + सिच् + ल् [च्लेः सिच् (3.1.44) इति च्ले-इत्यस्य सिच्-आदेशः ।] → अट् पठ् + स् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अट्-आगमः] → अ पठ् + स् + तिप् [तिप्तस्.. (3.4.78) इति तिप्] → अ पठ् + स् + त् [इतश्च (3.4.100) इति इकारलोपः] → अ पठ् + इट् स् + त् [आर्द्धधातकस्य इड्वलादेः (7.2.35) इति इडागमः] → अ पठ् + इ स् + ईट् त् [अस्तिसिचोऽपृक्ते (7.3.96) इति ईट्-आगमः] → अ पठ् / पाठ् + इ स् + ई त् [अतो हलादेर्लघोः (7.2.7) इति वैकल्पिकवृद्धिः] → अ पठ्/पाठ् + इ + ई + त् [इट ईटि (8.2.28) इति सकारलोपः] → अपठीत् / अपाठीत् [<!सिज्लोप एकादेशे सिद्धो वाच्यः!> अनेन वार्तिकेन सवर्णदीर्घ-एकादेशे कर्तव्ये सिच्लोपः सिद्धः अस्ति । अतः अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] [ अस्य अर्थः अयम् - यदि एकादेशः कर्तव्यः अस्ति, तर्हि सिच्-प्रत्ययस्य कृतः लोपः (यद्यपि त्रिपाद्या क्रियते, तथापि, सपादसप्ताध्याय्याः) एकादेश-कारकेभ्यः सूत्रेभ्यः सिद्धः अस्ति । इत्युक्ते, एतानि सूत्राणि सकारलोपं द्रष्टुं शक्नुवन्ति । ] 3. पठ + लृङ् [लिङ्निमित्ते लृङ् क्रियातिपत्तौ (3.3.139) इति लृङ्] → अट् + पठ् + लृङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अट्-आगमः] → अट् + पठ् + स्य + लृङ् [ स्यतासी लृलुटोः (3.1.33) इति विकरणम् ‘स्य’] → अ + पठ् + स्य + तिप् [तिप्तस्.. (3.4.78) इति तिप्] → अ+ पठ् + इट् स्य + ति [आर्द्धधातुकस्य इड्वलादेः (7.2.35) इति इडागमः] → अ पठ् + इ स्य + त् [इतश्च (3.4.100) इति इकारलोपः] → अपठिष्यत् [आदेशप्रत्यययोः (8.3.59) इति षत्वम् ] विशेषः - 1. यस्मात् प्रत्ययविधिः तदादि प्रत्ययेङ्गम् (1.4.13) अनया व्याख्यया लकारस्य अङम् ‘धातुः’ अस्ति, यतः धातोः (3.1.91) अस्मिन् अधिकारे लकाराः पाठिताः सन्ति । अतः उपसर्गस्य उपस्थितौ अपि अडागमः केवलम् धातोः एव भवति, उपसर्गस्य न । यथा - सम् + गम् + लङ् [अनद्यतने लङ् (3.2.111) इति लङ् । समो गम्यृच्छि.. (1.3.29) इति आत्मनेपदम्] → सम् + अट् + गम् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अट्-आगमः । अयमागमः धातोः पूर्वम् भवति, उपसर्गात् पूर्वम् न ।] → सम् + अ + गम् + त [तिप्तस्.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषेकवचनस्य प्रत्ययः ‘त’] → सम् + अ + गम् + शप् + त [कर्तरि शप् (3.1.68) इति शप्] → सम् + अ + गछ् + अ + त [इषुगमियमां छः (7.3.77) इति छकारादेशः] → सम् + अ + गत् छ् + अ + त [ छे च (6.1.73) इति तुगागमः] → सम् + अ + गच् छ् + अ + त [स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वम्] → समगच्छत 2. यदि धातोः आदिवर्णः स्वरः अस्ति (यथा - अट्, इण् - आदयः), तर्हि वर्तमानसूत्रेण प्रोक्तस्य अडागमस्य अपवादत्वेन आडजादीनाम् (6.4.72) अनेन सूत्रेण आडागमः भवति । यथा, इष्-धातोः लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - इष् + लङ् [अनद्यतने लङ् (3.2.111) इति लङ् । ] आट् + इष् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इत्यनेन अडागमे प्राप्ते अपवादत्वेन आडजादीनाम् (6.4.72) इति आडागमः] → आ + इष् + तिप् [तिप्तस्.. (3.4.78) इति तिप्] → आ + इष् + शप् + ति [कर्तरि शप् (3.1.68) इति शप्] → आ + इछ् + अ + ति [इषुगमियमां छः (7.3.77) इति छकारादेशः] → ऐछ् + अ + ति [आटश्च इति वृद्धि-एकादेशः] → ऐत् छ् + अ + ति [छे च (6.1.73) इति तुगागमः । षत्वतुकोरसिद्धः (6.1.86) इत्यनेन वृद्धि-एकादेशः तुगागमार्थमसिद्धः अस्ति ।] → ऐत् छ् + अ + त् [इतश्च (3.4.100) इति इकारलोपः] → ऐत् छ् + अ + त् [ स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वम्] → ऐच्छत् 3. यदि धातोः आदिवर्णः व्यञ्जनमस्ति, परन्तु प्रक्रियायाम् तस्य स्थाने स्वरादेशः भवति, तथापि अनेन सूत्रेण अडागमः न भवति, अपितु अपवादत्वेन आडजादीनाम् (6.4.72) अनेन सूत्रेण आडागमः भवति । यथा, ‘वेञ्’ धातोः कर्मणि-प्रयोगे लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - वेञ् + लङ् [अनद्यतने लङ् (3.2.111)] → वेञ् + त [भावकर्मणोः (1.3.13) इति आत्मनेपदम् । तिप्तस्झि.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य ‘त’ प्रत्ययः] → वेञ् + यक् + त [सार्वधातुके यक् (3.1.67) इति यक्-विकरणम्] → उ + य + त [वचिस्वपियजादीनां किति (6.1.15) इति सम्प्रसारणम् , सम्प्रसारणाच्च (6.1.108) इति पूर्वरूपः] → आट् + उ + य + त [आडजादीनाम् (6.4.72) इति आडागमः ।] → औयत [आटश्च (6.1.90) इति वृद्धि-एकादेशः] वस्तुतः अट्-आगमः लकारस्य उपस्थितौ, लादेशात् पूर्वमेव भवितुमर्हति, यतः अस्मिन् सूत्रे ‘लुङ्-लङ्-लृङ्क्षु ‘ इति निर्दिष्टमस्ति । तथापि, लकारस्य तिबादयः आदेशाः अन्तरङ्गकार्याणि सन्ति, तथा अडागमः बहिरङ्गकार्यमस्ति । अतः अन्तरङ्गकार्यात् अनन्तरम् यदि अङ्गस्य आदिवर्णे परिवर्तनं भूत्वा तस्य स्वरादेशः भवेत्, तर्हि आदौ तादृशमादेशं कृत्वा अनन्तरमेव आडागमः करणीयः । एवं नास्ति चेत् तु आरम्भे एव अडागमः करणीयः । ज्ञातव्यम् - आगमाः अनुदात्ताः भवन्ति इयम् काचन परिभाषा अस्ति । अनया परिभाषया सर्वे आगमाः अनुदात्ताः विधीयन्ते । परन्तु अस्मिन् सूत्रे ‘उदात्तः’ इति स्पष्टरूपेण निर्दिष्टमस्ति, अतः अयमागमः उदात्तः एव ज्ञातव्यः ।
Sutrartha (English)¶
In case of the लुङ्लकार, लङ्लकार and लृङ्लकार, the अङ्ग gets an ‘अट्’ आगम, which is also उदात्त.
Vasu English Summary¶
अट् acutely accented (उदात्त) is the augment of the verbal अङ्ग (stem) in the Aorist, Imperfect and the Conditional.
Vasu English Translation¶
अट् acutely accented (उदात्त) is the augment of the verbal अङ्ग (stem) in the Aorist, Imperfect and the Conditional. Thus अकार्षीत्, अहार्षीत्, अकरोत्, अहरत् and अकरष्यित्, अहिरिष्यत् ॥
Kashika¶
लुङ् लङ् लृङ् इत्येतेषु परतोऽङ्गस्याडागमो भवति, उदात्तश्च स भवति । लुङ् — अकार्षीत्। अहार्षीत्। लङ् — अकरोत्। अहरत्। लृङ् — अकरिष्यत्। अहरिष्यत्॥
Siddhanta Kaumudi¶
एषु परेष्वङ्गस्याडागमः स्यात्स चोदात्तः ॥
Laghu Siddhanta Kaumudi¶
एष्वङ्गस्याट्॥
Balamanorama¶
लुङ्लङ्लृङ्क्ष्वडुदात्तः - लुङ्लङ्लृङ्क्ष्वु । अङ्गस्येत्यधिकृतम् । तादह — एषु परेषु अङ्गस्येति । अन्तरङ्गत्वान्नित्यत्वात्परत्वाच्च यथायथं तिपि शपि विकरणे गुणेऽवादेशे विकरणविशिष्टस्याङ्गस्य अडागमः ।लावस्थायामेवाऽडागम॑ इति तु पक्षान्तरं भाष्ये स्थितम् ।
Nyaas¶
उदात्तश्च स भवति इति। आगमानुदात्तत्वे प्राप्त उदात्तत्वं विधीयते। एतच्चोदात्तवचनम्? अभेदका इह शास्त्रे गुणाः` (पु।प।वृ।57) इत्यस्यार्थस्य ज्ञापकम्। कथं कृत्वा? यदि च भेदका गुणाः स्युः, तदोदात्तयुक्तेनैवाटं समुच्चारयेत्। पश्यत्वाचार्यः -अभेदका इह शास्त्रे गुणाः इति, यतः स्वरान्तरनिवृत्त्यर्थमुदात्तवचनं कृतवान्। किमेतस्य ज्ञापनेन प्रयोजनम्? वृद्धिरादैच् (1.1.1) इत्यत्रोदात्तादिभेदभिन्नानामपि वृद्धिसंज्ञा सिध्यतीति॥
Prakriyasarvasvam¶
एषु परेष्वङ्गस्योदात्तोऽडागमः स्यात् । अभवत्, अभवद् । तसादेस्तामादि । अभवताम् । झ अन्ति । इलोपः शबादिः संयोगान्तलोपश्च । अडागमः । अभवन् । अभवः अभवतम् अभवत । भव अम् । ‘अमि पूर्वः’ । अट् । अभवम् अभवाव अभवाम । तङि प्राग्वदट् । अभवत । अभवेताम् । अभवन्त । अभवथाः । अभवेथाम् । अभवध्वम् । अभवे अभवावहि अभवामहि । अभवेच्छन्नमित्यस्मिन्निटि कृष्णे च्छन्नमितिवद् वा तुक् ज्ञेयः ॥ भावे-अभूयत । कर्मणि अभूयत अभूयेताम् इत्यादि तङ्वत् ॥ लङ् ।