64073: छन्दस्यपि दृश्यते

Padacheda: छन्दसि | S | 7 | 1 |

अपि | S | 0 | 0 |

दृश्यते | T | | |

Sutrartha

वेदेषु - लुङ्लकारे, लङ्लकारे, लृङ्लकारे अनजादीनामपि आडागमः दृश्यते ।

आडजादीनाम् (6.4.72) इत्यनेन केवलं अजादि-धातूनाम् विषये प्रोक्तः आट्-आगमः वेदेषु हलादि-धातूनाम् विषये अपि (बहुलम्) दृश्यते । यथा - ‘सुरुचो वेन आवः’ (अथर्ववेदः, 4.1.1) - इत्यत्र ‘आवः’ इति रूपम् वृञ्-धातोः लृङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपमस्ति । अत्र अडागमस्य स्थाने आडागमः कृतः दृश्यते । प्रक्रिया इयम् - वृञ् + लुङ् [लुङ् (3.2.110) इति लुङ्] → वृ + च्लि + ल् [च्लि लुङि (3.1.43) इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् ‘च्लि’] → वृ + सिच् + ल् [च्लेः सिच् (3.1.44) इति च्ले-इत्यस्य सिच्-आदेशः ।] → आट् वृ + स् + ल् [छन्दस्यपि दृश्यते (6.4.72) इति हलादि-धातोः अपि आट्-आगमः] → आ + वर् + स् + ल् [सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणः, उरण् रपरः (1.1.51) इति सः रपरः] → आ वर् + स् + तिप् [तिप्तस्.. (3.4.78) इति तिप्] → आ वर् + स् + त् [इतश्च (3.4.100) इति इकारलोपः] → आ वर् + त् [अस्तिसिचोऽपृक्ते → आ वर् + स् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.168) इति अपृक्त-तकार-लोपः] → आ वर् स् [रात्सस्य (8.3.24) इति रेफात् परस्य सकारस्य लोपः] → आवः [खरवसानयोर्विसर्जनीयः (8.3.15) इति रेफस्य विसर्गः]

Sutrartha (English)

In वेदाः , even the verbs that are not अजादि can be seen to get आट्-आगम for लुङ्लकार, लङ्लकार, and लृङ्लकार.

Vasu English Summary

The आट् augment is found in the छन्दस् (Vedas) also.

Vasu English Translation

The आट् augment is found in the छन्दस् (Vedas) also. It is found there before the roots beginning with a vowel as well as before consonant roots. Thus आवः, आनक्, and आयुनक् ॥ आवः is the Aorist of वृञ्, the affix being elided by (2.4.80). आनक् from नश् (2.4.80), and आयुनक् is the Imperfect of युञ् ॥

Kashika

छन्दसि विषय आडागमो दृश्यते। यत्र हि विहितस्ततोऽन्यत्रापि दृश्यते। आडजादीनाम् (६.४.७२) इत्युक्त मनजादीनामपि दृश्यते। सु॒रुचो॑ वे॒न आ॑वः (मा०सं० १३.३)। आनक्। आयुनक्। आव इति वृञो लुङि मन्त्रे घसह्वर० (२.४.८०) इति लेर्लुकि कृते च भवति। तथा आनगिति नशेः। आयुनगिति युजेर्लङि॥

Siddhanta Kaumudi

अनजादीनामित्यर्थः । आनट् (आन॑ट्) । आवः (आ॑वः) । न माङ्योगे (SK2228) ॥

Nyaas

यतो विहितस्ततोऽन्यत्रापि भवति इति। अपिशब्दात्? तत्रापि। आवः इति। गुणे रपरत्वपे च कृते तिपो हलङ्यादिना (6.1.66) लोपः, रेफस्य विसर्जनीयः। तथा इत्यादि। यथा आवः इति मन्त्रे घसह्वर (2.4.80) इत्यादिना लेर्लुकि कृते भवति, तथानगिति लेर्लुकि कृते नशेर्भवतीत्यर्थः। तत्र नर्शर्वा (8.2.63) इति कुत्वम्। आयुनक् इति। युजिर्? योगे (धातुपाठः-1444) रुधादित्वात्? श्नम्, चोः कुः (8.2.30) इति कुत्वम् - गकारः, तस्य चर्त्वम् - ककारः। बहुलं छन्दस्यामाङ्योगेऽपि (6.4.75) इति वक्ष्यति, तस्यैवायं प्रपञ्चः॥