64070: मयतेरिदन्यतरस्याम्¶
Padacheda: मयतेः | S | 6 | 1 |
इत् | S | 1 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
इ may optionally be substituted for the आ of मा (मयति) before ल्यप् ।
Vasu English Translation¶
इ may optionally be substituted for the आ of मा (मयति) before ल्यप् । Thus अपमित्य or अपमध्य ॥
Kashika¶
मयतेरिकारादेशो वा भवति ल्यपि परतः। अपमित्य, अपमाय ॥
Siddhanta Kaumudi¶
मेङ इकारोऽन्तादेशः स्याद्वा ल्यपि । अपमित्य याचते । अपमाय । उदीचां ग्रहणाद्यथाप्राप्तमपि । याचित्वा अपमयते ॥
Laghu Siddhanta Kaumudi¶
अभ्यासस्यादेरतो दीर्घः स्यात्। आत। आततुः। आतुः। आतिथ। आतथुः। आत। आत। आतिव। आतिम। अतिता। अतिष्यति। अततु॥
Tattvabodhini¶
मयतेरिदन्यतरस्याम् - अपमित्येति ।समासेऽनञ्पूर्वे॑ति वक्ष्यमाणेन क्त्वो ल्यपि तुक् । याचित्वा प्रणिददातीत्यर्थः ।
Nyaas¶
न ल्यपि (6.4.69) इति प्रतिषेधादाकारस्य श्रवणे प्राप्ते सतीत्त्वमारभ्यते। अपमित्य इति। मेङ्? प्रणिदाने (धातुपाठः-961)। उदीचां माङी व्यतीहारे (3.4.19) इति क्त्वा, इत्त्वे कृते तुक्। ननु च अपमित्ययाचिताभ्यां कक्कनौ (4.4.21) इति निपातनात्? सिद्धमेतत्? तदपार्थकोऽयमारम्भः? नैतदस्ति; चाधकान्यपि निपातनानि भवन्ति (नी।प।वृ।109) इति पक्षे अपमायेति न स्यात्। माङ्? माने (धातुपाठः-1088) [माने शब्दे च - धातुपाठः-] इत्यस्य भविष्यतीति चेत्? न; अर्थभेदात्। अथापि अबाधकान्यपि निपातनानि (नौ।प।वृ।110) स्युः? एवमप्यारब्धव्यमेवेदमसन्देहार्थम्? असति ह्रस्मिन्? सन्देहः स्यात् - किं मयतेरिदं निपातनम्, अथ धात्वन्तरस्येति। उपसर्गनियमश्च विज्ञायेत - अपपूर्वस्यैवेति। अस्मस्तु सत्यन्योपसर्गस्यापि भवतीत्येतदर्थो युक्त आरम्भः॥
Prakriyasarvasvam¶
अस्य ल्यपि वेत् स्यात् । इत्वे तुक् । अपमित्य अपमाय वा याचते । याचने नापमयत इत्युत्तरकाले क्त्वा । अनुदङ्मते याचित्वापमयत इत्यपि ॥