64071: लुङ्लङ्लृङ्क्ष्वडुदात्तः =============================== **Padacheda:** लुङ्-लङ्-लृङ्क्षु | S | 7 | 3 | अट् | S | 1 | 1 | उदात्तः | S | 1 | 1 | Sutrartha --------- **लुङ्लकारे, लङ्लकारे, लृङ्लकारे च परे अङ्गस्य उदात्तः अट्-आगमः भवति ।** लुङ्लकारस्य , लङ्लकारस्य, लृङ्लकारस्य प्रत्यये परे अङ्गस्य 'अट्' आगमः भवति । सः च उदात्तसंज्ञकः भवति । यथा - 1. पठ् + लङ् [**अनद्यतने लङ्** (3.2.111) इति लङ्] → अट् + पठ् + लङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अट्-आगमः] → अ + पठ् + तिप् [**तिप्तस्..** (3.4.78) इति तिप्] → अ + पठ् + शप् + ति [**कर्तरि शप्** (3.1.68) इति शप्] → अ + पठ् + अ + त् [**इतश्च** (3.4.100) इति इकारलोपः] → अपठत् 2. पठ् + लुङ् [**लुङ्** (3.2.110) इति लुङ्] → पठ् + च्लि + ल् [**च्लि लुङि** (3.1.43) इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि'] → पठ् + सिच् + ल् [**च्लेः सिच्** (3.1.44) इति च्ले-इत्यस्य सिच्-आदेशः ।] → अट् पठ् + स् + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अट्-आगमः] → अ पठ् + स् + तिप् [**तिप्तस्..** (3.4.78) इति तिप्] → अ पठ् + स् + त् [**इतश्च** (3.4.100) इति इकारलोपः] → अ पठ् + इट् स् + त् [**आर्द्धधातकस्य इड्वलादेः** (7.2.35) इति इडागमः] → अ पठ् + इ स् + ईट् त् [**अस्तिसिचोऽपृक्ते** (7.3.96) इति ईट्-आगमः] → अ पठ् / पाठ् + इ स् + ई त् [**अतो हलादेर्लघोः** (7.2.7) इति वैकल्पिकवृद्धिः] → अ पठ्/पाठ् + इ + ई + त् [**इट ईटि** (8.2.28) इति सकारलोपः] → अपठीत् / अपाठीत् [ अनेन वार्तिकेन सवर्णदीर्घ-एकादेशे कर्तव्ये सिच्लोपः सिद्धः अस्ति । अतः **अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः] [ अस्य अर्थः अयम् - यदि एकादेशः कर्तव्यः अस्ति, तर्हि सिच्-प्रत्ययस्य कृतः लोपः (यद्यपि त्रिपाद्या क्रियते, तथापि, सपादसप्ताध्याय्याः) एकादेश-कारकेभ्यः सूत्रेभ्यः सिद्धः अस्ति । इत्युक्ते, एतानि सूत्राणि सकारलोपं द्रष्टुं शक्नुवन्ति । ] 3. पठ + लृङ् [**लिङ्निमित्ते लृङ् क्रियातिपत्तौ** (3.3.139) इति लृङ्] → अट् + पठ् + लृङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अट्-आगमः] → अट् + पठ् + स्य + लृङ् [ **स्यतासी लृलुटोः** (3.1.33) इति विकरणम् 'स्य'] → अ + पठ् + स्य + तिप् [**तिप्तस्..** (3.4.78) इति तिप्] → अ+ पठ् + इट् स्य + ति [**आर्द्धधातुकस्य इड्वलादेः** (7.2.35) इति इडागमः] → अ पठ् + इ स्य + त् [**इतश्च** (3.4.100) इति इकारलोपः] → अपठिष्यत् [**आदेशप्रत्यययोः** (8.3.59) इति षत्वम् ] विशेषः - 1. **यस्मात् प्रत्ययविधिः तदादि प्रत्ययेङ्गम्** (1.4.13) अनया व्याख्यया लकारस्य अङम् 'धातुः' अस्ति, यतः **धातोः** (3.1.91) अस्मिन् अधिकारे लकाराः पाठिताः सन्ति । अतः उपसर्गस्य उपस्थितौ अपि अडागमः केवलम् धातोः एव भवति, उपसर्गस्य न । यथा - सम् + गम् + लङ् [**अनद्यतने लङ्** (3.2.111) इति लङ् । **समो गम्यृच्छि..** (1.3.29) इति आत्मनेपदम्] → सम् + अट् + गम् + लङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अट्-आगमः । अयमागमः धातोः पूर्वम् भवति, उपसर्गात् पूर्वम् न ।] → सम् + अ + गम् + त [**तिप्तस्..** (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषेकवचनस्य प्रत्ययः 'त'] → सम् + अ + गम् + शप् + त [**कर्तरि शप्** (3.1.68) इति शप्] → सम् + अ + गछ् + अ + त [**इषुगमियमां छः** (7.3.77) इति छकारादेशः] → सम् + अ + गत् छ् + अ + त [ **छे च** (6.1.73) इति तुगागमः] → सम् + अ + गच् छ् + अ + त [**स्तोः श्चुना श्चुः** (8.4.40) इति श्चुत्वम्] → समगच्छत 2. यदि धातोः आदिवर्णः स्वरः अस्ति (यथा - अट्, इण् - आदयः), तर्हि वर्तमानसूत्रेण प्रोक्तस्य अडागमस्य अपवादत्वेन **आडजादीनाम्** (6.4.72) अनेन सूत्रेण आडागमः भवति । यथा, इष्-धातोः लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - इष् + लङ् [**अनद्यतने लङ्** (3.2.111) इति लङ् । ] आट् + इष् + लङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इत्यनेन अडागमे प्राप्ते अपवादत्वेन **आडजादीनाम्** (6.4.72) इति आडागमः] → आ + इष् + तिप् [**तिप्तस्..** (3.4.78) इति तिप्] → आ + इष् + शप् + ति [**कर्तरि शप्** (3.1.68) इति शप्] → आ + इछ् + अ + ति [**इषुगमियमां छः** (7.3.77) इति छकारादेशः] → ऐछ् + अ + ति [**आटश्च** इति वृद्धि-एकादेशः] → ऐत् छ् + अ + ति [**छे च** (6.1.73) इति तुगागमः । **षत्वतुकोरसिद्धः** (6.1.86) इत्यनेन वृद्धि-एकादेशः तुगागमार्थमसिद्धः अस्ति ।] → ऐत् छ् + अ + त् [**इतश्च** (3.4.100) इति इकारलोपः] → ऐत् छ् + अ + त् [ **स्तोः श्चुना श्चुः** (8.4.40) इति श्चुत्वम्] → ऐच्छत् 3. यदि धातोः आदिवर्णः व्यञ्जनमस्ति, परन्तु प्रक्रियायाम् तस्य स्थाने स्वरादेशः भवति, तथापि अनेन सूत्रेण अडागमः न भवति, अपितु अपवादत्वेन **आडजादीनाम्** (6.4.72) अनेन सूत्रेण आडागमः भवति । यथा, 'वेञ्' धातोः कर्मणि-प्रयोगे लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - वेञ् + लङ् [**अनद्यतने लङ्** (3.2.111)] → वेञ् + त [**भावकर्मणोः** (1.3.13) इति आत्मनेपदम् । **तिप्तस्झि..** (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः] → वेञ् + यक् + त [**सार्वधातुके यक्** (3.1.67) इति यक्-विकरणम्] → उ + य + त [**वचिस्वपियजादीनां किति** (6.1.15) इति सम्प्रसारणम् , **सम्प्रसारणाच्च** (6.1.108) इति पूर्वरूपः] → आट् + उ + य + त [**आडजादीनाम्** (6.4.72) इति आडागमः ।] → औयत [**आटश्च** (6.1.90) इति वृद्धि-एकादेशः] वस्तुतः अट्-आगमः लकारस्य उपस्थितौ, लादेशात् पूर्वमेव भवितुमर्हति, यतः अस्मिन् सूत्रे 'लुङ्-लङ्-लृङ्क्षु ' इति निर्दिष्टमस्ति । तथापि, लकारस्य तिबादयः आदेशाः अन्तरङ्गकार्याणि सन्ति, तथा अडागमः बहिरङ्गकार्यमस्ति । अतः अन्तरङ्गकार्यात् अनन्तरम् यदि अङ्गस्य आदिवर्णे परिवर्तनं भूत्वा तस्य स्वरादेशः भवेत्, तर्हि आदौ तादृशमादेशं कृत्वा अनन्तरमेव आडागमः करणीयः । एवं नास्ति चेत् तु आरम्भे एव अडागमः करणीयः । ज्ञातव्यम् - **आगमाः अनुदात्ताः भवन्ति** इयम् काचन परिभाषा अस्ति । अनया परिभाषया सर्वे आगमाः अनुदात्ताः विधीयन्ते । परन्तु अस्मिन् सूत्रे 'उदात्तः' इति स्पष्टरूपेण निर्दिष्टमस्ति, अतः अयमागमः उदात्तः एव ज्ञातव्यः । Sutrartha (English) ------------------- In case of the लुङ्लकार, लङ्लकार and लृङ्लकार, the अङ्ग gets an 'अट्' आगम, which is also उदात्त. Vasu English Summary -------------------- अट् acutely accented (उदात्त) is the augment of the verbal अङ्ग (stem) in the Aorist, Imperfect and the Conditional. Vasu English Translation ------------------------ अट् acutely accented (उदात्त) is the augment of the verbal अङ्ग (stem) in the Aorist, Imperfect and the Conditional. Thus अकार्षीत्, अहार्षीत्, अकरोत्, अहरत् and अकरष्यित्, अहिरिष्यत् ॥ Kashika ------- लुङ् लङ् लृङ् इत्येतेषु परतोऽङ्गस्याडागमो भवति, उदात्तश्च स भवति । लुङ् — अकार्षीत्। अहार्षीत्। लङ् — अकरोत्। अहरत्। लृङ् — अकरिष्यत्। अहरिष्यत्॥ Siddhanta Kaumudi ----------------- एषु परेष्वङ्गस्याडागमः स्यात्स चोदात्तः ॥ Laghu Siddhanta Kaumudi ----------------------- एष्वङ्गस्याट्॥ Balamanorama ------------ **लुङ्लङ्लृङ्क्ष्वडुदात्तः** - लुङ्लङ्लृङ्क्ष्वु । अङ्गस्येत्यधिकृतम् । तादह — एषु परेषु अङ्गस्येति । अन्तरङ्गत्वान्नित्यत्वात्परत्वाच्च यथायथं तिपि शपि विकरणे गुणेऽवादेशे विकरणविशिष्टस्याङ्गस्य अडागमः ।लावस्थायामेवाऽडागम॑ इति तु पक्षान्तरं भाष्ये स्थितम् । Nyaas ----- `उदात्तश्च स भवति` इति। आगमानुदात्तत्वे प्राप्त उदात्तत्वं विधीयते। एतच्चोदात्तवचनम्? अभेदका इह शास्त्रे गुणाः` (पु।प।वृ।57) इत्यस्यार्थस्य ज्ञापकम्। कथं कृत्वा? यदि च भेदका गुणाः स्युः, तदोदात्तयुक्तेनैवाटं समुच्चारयेत्। पश्यत्वाचार्यः -`अभेदका इह शास्त्रे गुणाः` इति, यतः स्वरान्तरनिवृत्त्यर्थमुदात्तवचनं कृतवान्। किमेतस्य ज्ञापनेन प्रयोजनम्? **वृद्धिरादैच्** (1.1.1) इत्यत्रोदात्तादिभेदभिन्नानामपि वृद्धिसंज्ञा सिध्यतीति॥ Prakriyasarvasvam ----------------- एषु परेष्वङ्गस्योदात्तोऽडागमः स्यात् । अभवत्, अभवद् । तसादेस्तामादि । अभवताम् । झ अन्ति । इलोपः शबादिः संयोगान्तलोपश्च । अडागमः । अभवन् । अभवः अभवतम् अभवत । भव अम् । 'अमि पूर्वः' । अट् । अभवम् अभवाव अभवाम । तङि प्राग्वदट् । अभवत । अभवेताम् । अभवन्त । अभवथाः । अभवेथाम् । अभवध्वम् । अभवे अभवावहि अभवामहि । अभवेच्छन्नमित्यस्मिन्निटि कृष्णे च्छन्नमितिवद् वा तुक् ज्ञेयः ॥ भावे-अभूयत । कर्मणि अभूयत अभूयेताम् इत्यादि तङ्वत् ॥ लङ् ।