64045: सनः क्तिचि लोपश्चास्यान्यतरस्याम्¶
Padacheda: सनः | S | 6 | 1 |
क्तिचि | S | 7 | 1 |
लोपः | S | 1 | 1 |
च | S | 0 | 0 |
अस्य | S | 6 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The long आ is optionally substituted for the final of सन् before the affix क्तिच् and there is also optional elision of the nasal.
Vasu English Translation¶
The long आ is optionally substituted for the final of सन् before the affix क्तिच् and there is also optional elision of the nasal. Thus we have three forms सातिः꣡, सन्तिः꣡ and सतिः꣡ ॥ The word अन्यतरस्याम् ‘optionally’ has been employed in the sutra for the sake of clearness only; for the विभाषा of (6.4.43) could have been read into it by anuvritti. Lest any one should doubt, that the anuvritti of विभाषा had ceased with the last aphorism, this word अन्यतरस्याम् is employed here.
Bhashya¶
सनः क्तिचि लोपश्चास्यान्यतरस्याम् (3043) (अन्यतरस्यांग्रहणप्रत्याख्यानभाष्यम्) इहान्यतरस्यां ग्रहणं शक्यमकर्तुम् । कथम् ? सनः क्तिचि लोपश्च आत्वं च विभाषेति ॥ (लोपपदस्यापि प्रत्याख्यानभाष्यम्) अपर आह - सर्व एवायं योगः शक्योऽवक्तुम् । कथम् ? इह लोपोऽपि प्रकृतः, आत्वमपि प्रकृतम्, विभाषाग्रहणमपि प्रकृतम् । तत्र केवलमभिसम्बन्धमात्रं कर्तव्यम् - सनः क्तिचि लोपश्च आत्वं च विभाषा ॥
Kashika¶
सनोतेरङ्गस्य क्ति चि प्रत्यये परत आकार आदेशो भवति, लोपश्चास्यान्यतरस्याम्। सातिः, सन्तिः, सतिः। अन्यतरस्यांग्रहणं विस्पष्टार्थम्। येसंबद्धं हि विभाषाग्रहणमिह निवृत्तमित्याशङ्क्येत॥
Siddhanta Kaumudi¶
सनोतेः क्तिचि आत्वं वा स्याल्लोपश्च वा । सनुतात् । सातिः । सतिः । सन्तिः । देवा एनं देयासुर्देवदत्तः ॥
Padamanjari¶
अस्यग्रहणमनन्तरस्य क्तिचो मा भूद्, व्यवहितस्यापि धातोरेव यथा स्यात् । क्रियमाणे हि तस्मिन्कायित्वेन प्राधान्यव्द्यवहितस्यापि धातोरेव परामर्शो भवति । अन्यतरस्यांग्रहणमनर्थकम्, विभाषा इति प्रकृतत्वाद् अत आह - अन्यतरस्यांग्रहणमिति । ननु नैतद्विस्पष्टनीयं प्रकृतमनुवर्तत इति तदाह ये संबद्धं हीति ॥
Nyaas¶
अस्यग्रहणमनन्तरस्य क्तिचो लोपो मा भूत; व्यवहितस्यापि नलोपो यथा स्यादित्येवमर्थम्। अथ क्रियमाणेऽप्यस्यग्रहणे कस्मादेव क्तिचो लोपो न भवति? अस्यग्रहणसामर्थ्यात्। अथान्यतरस्यांग्रहणं किमर्थम्, यावता विभाषा (6.4.46) इत्यनुवर्तते? इत्याह -अन्यतरस्यांग्रहणम् इत्यादि। कथं पुनर्विभाषाग्रहणस्य निवृत्तिराशङ्क्यते, यतो विस्पष्टार्थमन्यतरस्यांग्रहँ कृतम्? इत्याह -यकारसम्भन्धं हि [ये सम्बबद्धं हि -काशिका] इत्यादि। तद्विभाषाग्रहणं यकारादिप्रत्ययस्य सम्बन्धेन। इह च ये इत्येतस्मिन्? निवृत्ते क्तिचो निमित्तान्तरस्योपादानातदतस्तान्निवृत्तौ विभाषाग्रहणमपि निवृत्तमिति कस्यचिदाशङ्का स्यात्, अतो विस्पष्टार्थमन्यतस्यांग्रहणं क्रियते॥
Prakriyasarvasvam¶
दानार्थस्य सनेः क्तिचि परेऽन्त्यलोपः आत्वं च वा स्यात् । सतिः सातिः सन्तिः ॥