64046: आर्धधातुके¶
Padacheda: आर्धधातुके | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
From this up to युप्लुवोर्दीर्घश्छन्दसि (6.4.68), inclusive, is always to be supplied the words ‘ before an affix called आर्धधातुक – आर्द्धधातुकं शेषः (3.4.114) etc.’
Vasu English Translation¶
From this up to युप्लुवोर्दीर्घश्छन्दसि (6.4.68), inclusive, is always to be supplied the words ‘ before an affix called आर्धधातुक – आर्द्धधातुकं शेषः (3.4.114) etc.’ This is an adhikara sutra and extends upto (6.4.69) (exclusive). In all the sutras upto (6.4.68) should be supplied the phrase “before an affix called ardhadhatuka”. Thus (6.4.48) teaches “the अ standing at the end of a verbal stem is elided”. To complete the sense we should add: “before an ardhadhatuka affix”. Thus the final अ of the verbal stem चिकीर्ष is elided before the ardhadhatuka affix तृ, as चिकीर्षितृ, जिहीर्षितृ, but the final अ is not elided before a sarvadhatuka affix, as the अ of भव in भवति, भवतः ॥ The luk-elision of शप् after roots of अदादि class, implies that there is never lopa of शप् ॥
The following purposes are served by this sutra, i. e. an ardhatuka affix causes the following special changes (1) अतोलोपः - The elision of अ of a stem, as shown above, in चिकीर्षिता, चिकीर्षितुम्, (2) यलोपश्च, The elision of य by (6.4.49), (6.4.50) : as बेभिदिता, बेभिदितुम्, बेभिदितव्यम् from बेभिद्य the Intensive stem. Before Sarvadhatuka, we have बेभिद्यते, चेच्छिद्यते ॥ (3) णिलोपश्च प्रयोजनम्, The elision of णि by (6.4.51), as कारणा हारणा पाच्यते (पाचि + यक् + ते = पाच् + य + ते), याज्यते ॥ In Sarvadhatuka, पाचयति, याजयति, कारयति, हारयति ॥ (4) आल्लोपः, the elision of आ, (6.4.64) – as पपतुः, पपुः, ववतुः ववुः, In Sarvadhatuka, यान्ति, वान्ति (5) ईत्वम् – The substitution of long ई for आ in some roots, (6.4.65) as धीयते, दीयते; in Sarvadhatuka अदाताम्, अधाताम् (6) एत्वम् – The substitution of ए for आ, (6.4.68); as स्नेयात्, ग्लेयात्; in Sarvadhatuka, स्नायात्, ग्लायात् ॥ This is confined to the Precative (asirlin). (7) चिण्वद्भावश्च सीयुटि, the treatment of the Precative like Aorist Passive in चिण्, by (6.4.62). as कारिषीट, हारिषीट ॥ In Sarvadhatuka क्रियेत, ह्रियेत ॥
_Kaisika :-
अतो लोपो यलोपश्च णिलोपश्च प्रयोजनम् । आल्लोप ईत्वमेत्वं च चिण्वभावश्च सीयुटि ॥
Bhashya¶
आर्धधातुके (3044) (अधिकारप्रयोजनाधिकरणम्) (अधिकाराक्षेपभाष्यम्) कानि पुनरार्धधातुकाधिकारस्य प्रयोजनानि ? (अधिकारप्रयोजने श्लोकवार्तिकम्) अतो लोपो यलोपश्च णिलोपश्च प्रयोजनम् । आल्लोप इर्त्वमेत्वं च चिण्वद्भावश्च सीयुटि ॥ 1 ॥ अतो लोपः - चिकीर्षिता, चिकीर्षितुम् । आर्द्धधातुक इति किमर्थम् ? चिकीर्षति ॥ (प्रयोजनाक्षेपभाष्यम्) नैतदस्ति प्रयोजनम् । अस्त्वत्र सनोऽकारलोपः, शपोऽकारस्य श्रवणं भविष्यति ॥ (समाधानभाष्यम्) शप एव तर्हि मा भूदिति ॥ (आक्षेपभाष्यम्) एतदपि नास्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति - नानेन शपोऽकारस्य लोपो भवतीति, यदयमदिप्रभृतिभ्यः शपो लुकं शास्ति ॥ (ज्ञापकाक्षेपभाष्यम्) नैतदस्ति ज्ञापकम् । कार्यार्थमेतत्स्यात् । वित्तः, मृष्ट इति ॥ (प्रकारान्तरेण समाधानभाष्यम्) यत्तर्हि आकारान्तेभ्यो लुकं शास्ति - याति, वाति । अस्तेश्च । अस्तेश्च शपो लुकं शास्ति । अस्ति ॥ (अधिकारप्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् - वृक्षस्य । अतो लोपः प्राप्नोति ॥ (अधिकारप्रयोजनभाष्यम्) यलोपोऽपि प्रयोजनम् - बेभिदिता, चेछिदिता । आर्धधातुक इति किमर्थम् ? बेभिद्यते । चेछिद्यते ॥ (अधिकारप्रयोजनभाष्यम्) णिलोपः प्रयोजनम् - याज्यते, पाच्यते । आर्धधातुक इति किमर्थम् ? पाचयति, याजयति ॥ (अधिकारप्रयोजनभाष्यम्) आल्लोपः - ययतुः, ययुः ववतुः, ववुः । आर्धधातुक इति किमर्थम् ? यान्ति, वान्ति ॥ (अधिकारप्रयोजनभाष्यम्) इर्त्वम् - धीयते, दीयते । आर्धधातुक इति किमर्थम् ? अदाताम् । अधाताम् ॥ (अधिकारप्रयोजनभाष्यम्) एत्वम् - ग्लेयात्, म्लेयात् । आर्धधातुक इति किमर्थम् ? स्नायात् । स्नायाताम् ॥ (अधिकारप्रयोजनभाष्यम्) चिण्वद्भावश्च सीयुटि । चिण्वद्भावे सीयुटि किमुदाहरणम् ? कारिषीष्ट, हारिषीष्ट । आर्धधातुक इति किमर्थम् ? क्रियेत, ह्रियेत । नैतदुदाहरणम् । यका व्यवहितत्वान्न भविष्यति । इदं तर्ह्युदाहरणम् - प्रस्तुवीत । इदं चाप्युदाहरणम् - क्रियेत, ह्रियेत । ननु चोक्तं - यका व्यवहितत्वान्न भविष्यतीति । यक एव तर्हि मा भूदिति । किञ्च स्यात् ? वृद्धिः, वृद्धौ कृतायां युक् प्रसज्येत ॥
Kashika¶
आर्धधातुक इत्यधिकारः। न ल्यपि (६.४.६९) इति प्रागेतस्माद् यदित ऊर्ध्वमनुक्रमिष्याम आर्धधातुक इत्येवं तद् वेदितव्यम्। वक्ष्यति — अतो लोपः (६.४.८) — चिकीर्षिता । जिहीर्षिता। आर्धधातुक इति किम्? भवति, भवतः। अदिप्रभृतिभ्यः शपो लुग्वचनं (२.४.७२) प्रत्ययलोपलक्षणप्रतिषेधार्थं स्यादित्येतद् न ज्ञापकं शपो लोपाभावस्य। यस्य हलः (६.४.४९) — बेभिदिता। बेभिदितुम्। बेभिदितव्यम् आर्धधातुक इति किम्? बेभिद्यते। णेरनिटि (६.४.५१) — कारणा। हारणा। आर्धधातुक इति किम्? कारयति। हारयति। आतो लोप इटि च (६.४.६४) ययतुः, ययुः। ववतुः, ववुः। आर्धधातुक इति किम्? यान्ति। वान्ति। घुमास्थागापाजहातिसां हलि (६.४.६६) — दीयते। धीयते। आर्धधातुक इति किम्? अदाताम्। अधाताम्। वान्यस्य संयोगादेः (६.४.६८) — स्नेयात् स्नायात्। आर्धधातुक इति किम्? स्नायात्। आशीर्लिङोऽन्यत्र न भवति। स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (६.४.६२) — कारिषीष्ट। हारिषीष्ट। आर्धधातुक इति किम्? क्रि येत। ह्रियेत। यगन्तस्याजन्तत्वात् चिण्वद्भावे सति वृद्धिः स्यात्, ततश्च युक् प्रसज्येत।
अतो लोपो यलोपश्च णिलोपश्च प्रयोजनम्।
आल्लोप ईत्वमेत्वं च चिण्वद्भावश्च सीयुटि॥
Siddhanta Kaumudi¶
इत्यधिकृत्य ॥
Padamanjari¶
चिकीर्षितेति । सनन्तातृच् भवतीति सर्वत्रातो लोपे कृते अतो दीर्घो यञि इत्यस्य कोऽवकाशः, वचनात्पचाव त्यादिउ लोपं बाधित्वा दीर्घोऽस्तु । तत्र चरितार्थमदुपदेशाल्लसर्वधातुकानुदातत्वम् इति तदपि न ज्ञापकं सार्वधातुकेऽतो लोपाभावस्य यतर्ह्यदिप्रभृतिभ्यः शपो लुकं शास्ति तज्ज्ञापयति - न शपोऽतो लोप इति तत्राह - अदिप्रमृतिभ्यः शप इति । ये तर्हि न गुणवृद्धिभाजोऽदिप्रभृतयस्तेषामदादिषु पाठोनर्थकः सत्यम् वृक्षत्वम्, वृक्षतेत्यादावतो लोपे आर्दधधातुकाधिकारस्य प्रयोजनम् - बेभिद्यते इत्यत्र शपि सार्वधातुके न भवति । यङे यकारोपशस्तु हलन्तेषु चरितार्थः । कारवतीति । णिज्विधानं प्रत्ययलक्षणार्थमियङ्थ च स्यात् । यान्तीति । ननु श्नाभ्यस्तयोरात्ः इत्येन्नियमार्थ भविष्यत् - सार्वधातुके श्नाभ्यस्तयोरेवेति नैतदस्ति विपरीतोऽपि नोयमः स्यात् - श्नाभ्यस्तयोः सार्वधातुक एवेति, तदा च ययतुरित्यादौ न स्यात् । श्नाग्रहणं तूतरार्थ स्यात् । अदातामिति । लुङ्, गातिस्थाघु इत्यादिना सिचो लुक् । चिण्वद्भावे सति वृद्धिः स्यादिति । नन्वतो लोपो वृद्धेः पूर्वविप्रतिषेधे, तद्यथा - चिकीर्षक इति, अदिहनिमावाप्रभृतिभ्यः शपो लुग्विधानेन सार्वधातुकेऽतोलोपाभावस्य ज्ञापितत्वात्स्वाश्रयोऽतो लापो मा एभूच्चिण्वद्भावातु चिणि तस्य दर्शनात्स्यादेव । वृत्तिकारेण तु प्राप्तिमात्रमाश्रित्य वृद्धिः स्यात् - इत्युक्तम् । दोषोपलक्षणं वृद्धग्रहणम्, लोपेऽपि रुपासिद्धरेव । ततो युक् प्रसज्येतेति । आद्गुणः, इति तु वार्णत्वान्न लभ्यते, इट्प्रसङ्गस्तु विशेषाभावान्नोक्तः । प्रयोजनसंग्रहर्श्लोको गतार्थः । भ्रस्जो रोपधयोरमन्यतरस्याम्, दीङे युडचि क्ङिति इत्यत्र तु नास्य प्रयोजनम्, कथम् भृज्जतेः सार्वधातुके तुदादित्वाच्छः, तत्र ग्रहिज्यादिसूत्रेण सम्प्रसारणम् । दीङेऽपि दिवादित्वान् श्यना भाव्यमित्युक्तान्येव प्रयोजनानि । असिद्धत्वनिवृत्यर्थं द्वितीयाध्यायगोचरोः । आदेशा नेह विहिता वुगाल्लोपौ प्रयोजनम् ॥ अन्यथा - अस्त्यादेशस्य भवतेरसिद्धत्वान्न वुग्भवेत् । न चाचख्यतुरित्यादावाल्लोपः ख्याञसिद्धितः ॥
Nyaas¶
चिकीर्षिता इति। सन्नन्तात्? तुच्। भवति, भवतः इति। आर्धधातुके इत्यधिकारात्? सार्वधातुकेऽत्र शपो लोपो न भवति। यद्यत्र शपो लोपो मा भूदित्येवमर्थ आर्धधातुकाधिकारः क्रियते, तर्हि न कर्तव्यः, ज्ञापकादेव शपो लोपो न भविष्यति, आचार्यप्रवृत्तिज्र्ञापयति -नानेन शपो लोपो भवति इति यदयम्? अदिप्रभृतिभ्यः शपः (2.4.72) इति शपो लुकं शस्ति? इत्यत आह -अदिप्रभृतिभ्यः इत्यादि। इतिकरणो हेतौ। असति हि प्रयोजने ज्ञापकं भवति। अस्ति चादिप्रभृतिभ्यः शपो लुग्वचनस्य प्रयोजनम्। किं तत्? वित्तः इत्यत्र गुणो मा भूत्। यदि वित्तः इत्यत्र लोपः स्यात्, प्रत्ययलक्षणेन पुगन्तलघूपधस्य (7.3.86) इति गुणः स्यात्। मृष्टः इत्यत्र मृजेर्वृद्धिः (7.2.114) लुकि तु सति न भवति, न लुमताङ्गस्य (1.1.63) इति प्रत्ययलक्षणप्रतिषेधात्। तस्माददिप्रभृतिभ्यः शपो लुग्वचनं प्रत्ययलक्षमप्रतिषेधार्थं स्यादिति न ज्ञापकं शपो लोपाभावस्य। बेभिदिता इति। यङो लोपः। बेभिद्यते इत्यत्र शपि सार्वधातुके न भवति।कारणा इति। ण्यासश्रन्थो युच् (3.3.107) । कारयति इति शपि सार्वधातुके न भवति। पपतुः, पपुः। ववतुः ववुः` इति। अतुसुसौ। पातेर्वातेश्च आतो लोप इटि च (6.4.64) इत्यकारलोपः।दीयते धीयते इति। आर्धधातुके यकीत्त्वम्। अदाताम्? अधाताम् इति। लुङ, तस्थस्थ (3.4.101) इति तसस्ताम्; गातिस्था (2.4.77) इत्यादिना सिचो लुक्। स्नायात्, स्नेयात् इति। स्नातेराशिषि लिङ, तस्य लिङाशिषि (3.4.116) इत्यार्धधातुकसंज्ञा, यासुट्, स्कोः संयोगाद्योः (8.2.29) इत्यादिना सकारलोपः। आशीर्लिङोऽक्यत्र न भवति इति। आशीर्लिङोऽन्यद्? विष्यादिलिङः, तत्र न भवति; तस्य सार्वधातुकसंज्ञकत्वात्। तेन तत्र नित्यं स्नायात् इत्येवं भवति। अत्र लिङः सलोपोऽनन्त्यस्य (7.2.79) इति सकारलोपः। कारिषीष्ट इति। आशिषि लिङः, सीयुट्, भावकर्मणोः (1.3.13) इत्यात्मनेपदम्, सुट्? तिथोः (3.4.107) इति सुट्? चिण्वद्भावाद्वृद्धिः। क्रियेत इति। विष्यादिलिङः। पूर्ववदात्मनेपदम्, सार्वधातुके यक्, सीयुडीकरेण सह आद्गुणः (6.1.87) लोपो व्योर्वलि (6.1.66) इति यकारलोपः, रिङशयग्लिङक्षु (7.4.28) इति रिङादेशः। अत्र चिण्वद्भादेन यो दोषः स्यात्? तं यगन्तस्य इत्यादिना दर्शयति। यद्यत्र चिण्वद्भावात्? वृद्धिः स्यात्, ततश्च आतो युक्? चिण्कृतोः (7.3.33) इति युक्? प्रसज्येत। अतो लोपो यलोपश्च इत्यादि। आर्धधातुकाधिकारप्रयोजनसंग्रहश्लोकः। गतार्थः। नन्वत्र भ्रस्जो रोपधयो रमन्यतरस्याम् (6.4.47) इति रम्, दीङो युडचि क्ङिति (6.4.63) इति युडार्धधातुकाधिकार एव विधास्यते, तत्? कस्मात्? तौ तत्र प्रयोजनत्वेन नोपात्तौ? एवं मन्यते -भ्रस्जो रम्भाव आर्धधातुकाधिकारं न प्रयोजयति, स, तु तुदादौ पठते, ततः सार्वधातुके परतः शेन भवितव्यम्। शे च सति पूर्वविप्रतिषेधाद्? ग्रहिजयादि (6.1.16) सूत्रेण सम्प्रसारणेन भवितव्यम्। युडपि नैव प्रयोजयति, दीङो हि दिवादित्वात्? सार्वधातुके श्यना भवितव्यम्। ततोऽजादित्वाभावादेव युडागमस्याभाव एव। आर्धधातुके इति यदार्धधातुकसामान्यं विवक्ष्यते, तदा सामान्ये पौर्वापर्यासम्भवात्? विषयसप्तमीयम्। यदार्धधातुकव्यक्तिस्तदा परसप्तमी। प्रतिपादितञ्चास्मभिः न धातुलोपः (1.1.4) इत्यत्र ज्ञापकद्वारेण परसप्तमीत्वं विषयसप्तमीत्वञ्चास्येति॥