64045: सनः क्तिचि लोपश्चास्यान्यतरस्याम् ======================================== **Padacheda:** सनः | S | 6 | 1 | क्तिचि | S | 7 | 1 | लोपः | S | 1 | 1 | च | S | 0 | 0 | अस्य | S | 6 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The long आ is optionally substituted for the final of सन् before the affix क्तिच् and there is also optional elision of the nasal. Vasu English Translation ------------------------ The long आ is optionally substituted for the final of सन् before the affix क्तिच् and there is also optional elision of the nasal. Thus we have three forms सातिः꣡, सन्तिः꣡ and सतिः꣡ ॥ The word अन्यतरस्याम् 'optionally' has been employed in the *sutra* for the sake of clearness only; for the विभाषा of (6.4.43) could have been read into it by *anuvritti*. Lest any one should doubt, that the *anuvritti* of विभाषा had ceased with the last aphorism, this word अन्यतरस्याम् is employed here. Bhashya ------- सनः क्तिचि लोपश्चास्यान्यतरस्याम् (3043) (अन्यतरस्यांग्रहणप्रत्याख्यानभाष्यम्) इहान्यतरस्यां ग्रहणं शक्यमकर्तुम् । कथम् ? सनः क्तिचि लोपश्च आत्वं च विभाषेति ॥ (लोपपदस्यापि प्रत्याख्यानभाष्यम्) अपर आह - सर्व एवायं योगः शक्योऽवक्तुम् । कथम् ? इह लोपोऽपि प्रकृतः, आत्वमपि प्रकृतम्, विभाषाग्रहणमपि प्रकृतम् । तत्र केवलमभिसम्बन्धमात्रं कर्तव्यम् - सनः क्तिचि लोपश्च आत्वं च विभाषा ॥ Kashika ------- सनोतेरङ्गस्य क्ति चि प्रत्यये परत आकार आदेशो भवति, लोपश्चास्यान्यतरस्याम्। सातिः, सन्तिः, सतिः। अन्यतरस्यांग्रहणं विस्पष्टार्थम्। येसंबद्धं हि विभाषाग्रहणमिह निवृत्तमित्याशङ्क्येत॥ Siddhanta Kaumudi ----------------- सनोतेः क्तिचि आत्वं वा स्याल्लोपश्च वा । सनुतात् । सातिः । सतिः । सन्तिः । देवा एनं देयासुर्देवदत्तः ॥ Padamanjari ----------- अस्यग्रहणमनन्तरस्य क्तिचो मा भूद्, व्यवहितस्यापि धातोरेव यथा स्यात् । क्रियमाणे हि तस्मिन्कायित्वेन प्राधान्यव्द्यवहितस्यापि धातोरेव परामर्शो भवति । अन्यतरस्यांग्रहणमनर्थकम्, विभाषा इति प्रकृतत्वाद् अत आह - अन्यतरस्यांग्रहणमिति । ननु नैतद्विस्पष्टनीयं प्रकृतमनुवर्तत इति तदाह ये संबद्धं हीति ॥ Nyaas ----- अस्यग्रहणमनन्तरस्य क्तिचो लोपो मा भूत; व्यवहितस्यापि नलोपो यथा स्यादित्येवमर्थम्। अथ क्रियमाणेऽप्यस्यग्रहणे कस्मादेव क्तिचो लोपो न भवति? अस्यग्रहणसामर्थ्यात्। अथान्यतरस्यांग्रहणं किमर्थम्, यावता `विभाषा` (6.4.46) इत्यनुवर्तते? इत्याह -`अन्यतरस्यांग्रहणम्` इत्यादि। कथं पुनर्विभाषाग्रहणस्य निवृत्तिराशङ्क्यते, यतो विस्पष्टार्थमन्यतरस्यांग्रहँ कृतम्? इत्याह -`यकारसम्भन्धं हि` [ये सम्बबद्धं हि -काशिका] इत्यादि। तद्विभाषाग्रहणं यकारादिप्रत्ययस्य सम्बन्धेन। इह च `ये` इत्येतस्मिन्? निवृत्ते क्तिचो निमित्तान्तरस्योपादानातदतस्तान्निवृत्तौ विभाषाग्रहणमपि निवृत्तमिति कस्यचिदाशङ्का स्यात्, अतो विस्पष्टार्थमन्यतस्यांग्रहणं क्रियते॥ Prakriyasarvasvam ----------------- दानार्थस्य सनेः क्तिचि परेऽन्त्यलोपः आत्वं च वा स्यात् । सतिः सातिः सन्तिः ॥