64044: तनोतेर्यकि

Padacheda: तनोतेः | S | 6 | 1 |

यकि | S | 7 | 1 |

Sutrartha


Vasu English Summary

The long आ is optionally substituted for the final of तन् before the Passive characteristic यक्।

Vasu English Translation

The long आ is optionally substituted for the final of तन् before the Passive characteristic यक्। Thus तायते or तन्यते; but no option is allowed in तन्तन्यते with यङ् ॥

Kashika

तनोतेर्यकि परतो विभाषा आकार आदेशो भवति। तायते, तन्यते। यकीति किम्? तन्तन्यते॥

Siddhanta Kaumudi

आकारोऽन्तादेशो वा स्यात् । तायते । तन्यते । ये विभाषा (SK2391) । जायते । जन्यते ॥

Laghu Siddhanta Kaumudi

आकारोऽन्तादेशो वा स्यात्। तायते, तन्यते॥

Balamanorama

तनोतेर्यकि - तनोतेर्यकि ।विड्वनोरित्यत आदिति,ये विभाषे॑त्यतो विभाषेति चानुवर्तते । तदाह — आकारोऽन्तादेशो वा स्यादिति । शेषपूरणमिदम् । तायते तन्यते इति । कर्मणि लकारः ।

Tattvabodhini

तनोतेर्यकि - तनोतेर्यकि ।विड्वनो॑रिति सुत्रादादिति,ये विभाषे॑त्यतो विभाषेति चानुर्तते । यकि किम् । तंतन्यते ।

Prakriyasarvasvam

तनु विस्तारे । स्वरितेत् । ‘तनादिकृञ्भ्य उः’ (३-१-७९) । कृञस्त- नादित्वेऽपि पृथगुक्तिर्व्यर्थेति माधवः*। तनोति । तनुतः । तन्वन्ति । तनोषि । तनुथः । तनोमि । ‘लोपश्चास्य-’ (६-४-१०७) इति वा लोपः । तन्वः, तनुवः । तन्मः, तनुमः । तनुते । तन्वाते । तन्वते । तनुषे । तनुध्वे । तन्वे । तन्वहे, तनुवहे । सार्वधातुके, सुनोतिवत् । कर्मणि, आत्वं वा स्यात् । तायते, तन्यते । लुङि ‘अतो हलादेः-’ (७-२-७) इति वा वृद्धिः । अतानीत्, अतनीत् । तङि,

Sutra Prayogas

  • वितायमानं (किरातार्जुनीयम्): तनोतेर्यकि इति वैकल्पिक आकारादेशः।

  • प्रतायते (शिशुपालवधम्): तनोतेर्यकि इत्यात्वम्।