64035: शा हौ

Padacheda: शा | S | 1 | 1 |

हौ | S | 7 | 1 |

Sutrartha

शास्-धातोः अङ्गस्य हि-प्रत्यये परे ‘शा’ आदेशः भवति ।

‘शास्’ (अनुशिष्टौ) इति अदादिगणस्य परस्मैपदी धातुः । लोट्-लकारस्य मध्यमपुरुषैकवचनस्य ‘हि’ प्रत्यये परे अस्य धातोः ‘शा’ इति आदेशः भवति । प्रक्रिया इयम् - शास् + लोट् [लोट् च (3.3.162) इति लोट्] → शास् + सिप् [तिप्तस्.. (3.4.78) इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः] → शास् + शप् + तिप् [कर्तरि शप् (3.1.68) इति शप्] → शास् + सिप् [अदिप्रभृतिभ्यः शपः (2.4.72) इति शपः लुक्] → शास् + हि [सेह्यर्पिच्च (3.4.87) इति ‘हि’ आदेशः] → शास् + धि [हुझल्भ्यो हेर्धिः (6.4.101) इति झलन्तात् परस्य हि-प्रत्ययस्य धि-आदेशः] → शा + हि [शा हौ (6.4.35) इति हि-प्रत्यये परे शास्-इत्यस्य शा-आदेशः] अत्र एतत् स्मर्तव्यम् यत् हुझल्भ्यो हेर्धिः (6.4.101) तथा च शा हौ (6.4.35) एते द्वे अपि सूत्रे असिद्धवदत्राभात् (6.4.22) अस्मिन् अधिकारे आगच्छतः । अतः हुझल्भ्यो हेर्धिः (6.4.101) इत्यनेन हकारस्य कृतः धकारादेशः शा हौ (6.4.35) इत्यनेन न दृश्यते । शा हौ (6.4.35) इत्यस्य दृष्ट्या तु तत्र हकारः एव अस्ति । अतः तत्र शा हौ (6.4.35) इत्यस्य प्रयोगः भवितुमर्हति । ज्ञातव्यम् - 1. ‘शा’ इति अनेकाल्-आदेशः अस्ति, अतः अनेकाल्शित्सर्वस्य (1.1.55) इत्यनेन अयमादेशः सर्वादेशरूपेण आगच्छति । 2. इदं सूत्रम् शास इदङ्हलोः ** (6.4.34) इति पूर्वसूत्रस्य अपवादरूपेण स्वीकर्तव्यम्, इति नागेशेन शेखरे स्पष्टीकृतम् अस्ति । अतएव अत्र प्रक्रियायाम् प्रकृतसूत्रेण ‘शा’ इत्यादेशे कृते तस्य आभीय-असिद्धत्त्वात् ‘शास्’ इत्येव दृष्ट्वा **शास इदङ्हलोः ** (6.4.34) इति पुनः इकारादेशः न भवति । प्रश्नः - त्रिपाद्यां **धि च (8.2.25) इति किञ्चन सूत्रं विद्यते । अनेन सूत्रेण धकारादौ प्रत्यये परे सकारस्य लोपः उक्तः अस्ति । अतः ‘शास् + धि’ इत्यत्र शा हौ (6.4.35) इत्यस्य स्थाने धि च (8.2.25) इति सूत्रस्य प्रयोगं कृत्वा अपि इष्टसिद्धिः भवत्येव, अतश्च शा हौ (6.4.35) इति सूत्रमेव अनावश्यकम् किल ? उत्तरम् - शा हौ (6.4.35) इति सूत्रं निष्कास्यते चेत् ‘शास् + धि’ इत्यत्र शास इदङ्हलोः ** (6.4.34) इत्यनेन अनिष्टः इकारादेशः सम्भवति । तद्वारणार्थमेव **शा हौ (6.4.35) इति सूत्रम् निर्मितम् । प्रश्नः २ - तर्हि शा हौ (6.4.35) इत्यस्य स्थाने ‘आ हौ’ इत्येव सूत्रम् पर्याप्तम् । तत्र अनिदितां हल उपधायाः क्ङिति (6.4.24) इत्यस्मात् सूत्रात् ‘उपधायाः’ इत्यस्य अनुवृत्तिं कृत्वा ‘शास्-धातोः उपधा-आकारस्य आकारादेशः भवति’ इति आकारस्य पुनः आकारादेशम् उक्त्वा तद्विधानसामर्थ्यात् शास इदङ्हलोः ** (6.4.34) इत्यनेन सिद्धम् इत्त्वम् निवारयितुम् शक्यम् । ततश्च ‘शास् + धि’ इत्येव स्थिते **धि च (8.2.25) इत्यनेन सकारलोपः सम्भवत्येव । उत्तरम् - सत्यम् । परन्तु धि च (8.2.25) इत्यस्य सूत्रस्य अर्थज्ञापने कश्चन गौणः पक्षः अपि विद्यते । अस्मिन् पक्षे धि च (8.2.25) अनेन सूत्रेण केवलं सिच्-प्रत्ययस्य सकारस्यैव लोपः सम्भवति, न अन्येषाम् सकाराणाम् । ये वैयाकरणाः एतादृशं पक्षं मन्यन्ते, तेषां मतेन अत्र धि च (8.2.25) इत्यस्य प्रसक्तिरेव नास्ति । प्रायः अस्य पक्षस्य समर्थनार्थमेव पाणिनिना शा हौ (6.4.35) इति सूत्रम् उक्तम् स्यात् ।

Sutrartha (English)

The शास्-धातु gets the ‘शा’ आदेश when followed by the हि-प्रत्यय of लोट्लकार.

Vasu English Summary

Before the Imperative affix हि , शा is substituted for शास्।

Vasu English Translation

Before the Imperative affix हि , शा is substituted for शास्। Thus अनुशाधि, प्रशाधि ॥ The हि is changed to धि by (6.4.101). See (6.4.22). The anuvritti of उपधायाः is not here, so शा is substituted in the room of the full word शास् and not only for the penultimate vowel of शास् ॥ The anuvritti of कित् and ङित् also is not here. Therefore, when this हि is treated as पित् (3.4.88), then too the substitution takes place, though a पित् Sarvadhatuka is not ङित् (1.2.4). Thus शाधि is also found in the Vedas as having acute on the first syllable, which can only be when धि is पित् and consequently anudatta (3.1.4)

Kashika

शासो हौ परतःशा इत्ययमादेशो भवति। अनुशाधि। प्रशाधि। उपधाया इति निवृत्तम्, ततः शास इति स्थानेयोगा (१.१.४९) षष्ठी भवति। क्ङितीत्येतदपि निवृत्तम्। तेन यदा वा छन्दसि (३.४.८८) इति पित्त्वं हिशब्दस्य, तदाप्यादेशो भवत्येव। शाधीत्याद्युदात्तमपि छन्दसि दृश्यते॥

Siddhanta Kaumudi

शास्तेः शादेशः स्याद्धौ परे । तस्याभीयत्वेनासिद्धत्वाद्धेर्धिः । शाधि । अशात् । अशिष्टाम् । अशासुः । अशाः । अशात् । शिष्यात् । सर्तिशास्ति-(SK2382) इत्यङ् । अशिषत् । अशासिष्यत् ॥ ।{$ {!1076 दीधीङ्!} दीप्तिदेवनयोः $}। एतदादयः पञ्चधातवश्छान्दसाः दीधीते । एरनेकाचः-(SK272) इति यण् । दीध्याते ॥

Balamanorama

शा हौ - शा हौ । ‘शा’ इति लुप्तप्रथमाकम् ।शास इदङित्यतः शास इत्यनुवर्तते । तदाह — शास्तेरिति । इत्त्वापवारदः । ननु शासेः शाभावे सति झल्परत्वाऽभावात्कतं हेर्धिरित्यत आह — तस्याभीयत्वेनेति । यद्यपिधि चे॑ति सलोपे शाधीति सिद्धम्, तथापि सलोपस्याऽसिद्धत्वात्शास इ॑दिति इत्त्वं स्यात् । तन्निवृत्तये शाविधानमित्याहुः । लङ्याह — अशादिति । ‘तिप्यनस्ते’ रिति दत्वे चर्त्वविकल्प इति भावः । अशासुरिति । अभ्यस्तत्वाज्जुसिति भावः । अशाः अशादिति ।सिपि धातो॑रिति रुत्वदत्वविकल्प इति भावः । अशिष्टमशिष्ट । अशासमशिष्व अशिष्म । शिष्यादिति ।शास इत् इति इत्त्वेशासिवसी॑ति ष इति भावः । अशिषदिति । अङि इत्त्वमिति भावः । दीधीङ्धातुरीकारान्तः । ङित्त्वादात्मनेपदी । एतदादयः पञ्चेति । इदं च माधवानुरोधेन । तत्त्वं त्वग्रे वक्ष्यते । जक्षित्यादित्वादभ्यस्तत्वाज्झस्य अदादेशः । दीध्यते । दीधीषे दीध्याथे दीधीध्वे । लट इडादेशे आह —

Tattvabodhini

शा हौ - शा हौ । शादेश इति ।धि चे॑ति सलोपेन शाधीति रूपे सिद्धेऽपि सलोपस्याऽसिद्धत्वात्शासै॑दिति इत्वं स्यात्; तद्वारणाय शाविधानमित्याहुः ।

Padamanjari

उपधाया इति निवृतमिति । तद्धि उपधाग्रहणं क्ङ्तीत्यिनेन सम्बद्धम्, तैह च क्ङिद्ग्रहणं निवृतम् इति वक्ष्यति, तेन तत्सम्बद्धमुपधाग्रहणं च निवृतम् । स्थानेयोगा षष्ठी भवतीति । एतच्च शब्दाधिकारपक्षस्याश्रयणाल्लभ्यते, अर्थाधिकारे त्विहाप्यवयवसम्बन्धान्न सर्वस्य स्यात् । क्ङ्तीत्यिपि निवृतमिति । उतरत्र पुनः क्ङिद्ग्रहणात् । तेनेति । अन्यथा सार्वधातुकमपित् इति वचनात्पित्वपक्षे ङ्तिवाभावाच्छाभावो न स्यात् । मा भूत्पित्वपक्षे, दृश्यमानस्तु प्रयोगोऽपित्वपक्षेऽप्युपपद्यते अत आह - शाधीत्याद्यौदातमपीति । यदि तु पिति शाभावो न स्यात्, तदा शाधीत्येतत्सतिशिष्टेन प्रत्यस्वरेणान्तोदात एव स्यात् । आद्यौदातमपि दृश्यते, तस्मात्पित्यपि शाभाव एव द्रष्टव्यः । इह आ हौ वक्तव्यम्, उपधाया इत्येव, आकारस्याकारवचनमित्ववाधानार्थम्, ततः हुढल्भ्यो हेर्धिः इति धित्वम्, धि चेति सकारलोपः । येषां तु धि सकारे सिचो लोपः इति पक्षः, तेषां शाभाव एव विधेय अन्यथा उपधायाः त्यिस्य निवृतावपि सकारस्याकारे तस्यासिद्धत्वाद्यद्यपि धित्वं लभ्यते, उपधायास्तु पूर्वेणेत्वमाशङ्क्येत, अविरोधात् ॥

Nyaas

यद्यत्र उपधायाः (6.4.24) इति वर्तते, ततो यथा पूर्वसूत्रे शासः (6.4.34) इत्यवयवभूता षष्ठी, तथेहापि स्यात्? एवञ्चोपधाया एवायमादेशः, प्रसज्येत, सर्वादेशश्चेष्यत इति मनसि कृत्वाह -उपधाया इति निवृत्तम् इति। तद्धि उपधागरहणं क्ङिद्ग्रहणेन सम्बद्धम्, इह च क्ङिद्ग्रहणं निवृत्तम्। तस्मात्? उपधायाः (6.4.24) इत्यस्यापि निवृत्तिर्भवति। क्ङिति इत्येतदपि निवृत्तम्` इति। अनुदात्तोपदेश (6.4.37) इत्यादौ सूत्रे पुनः क्ङिद्ग्रहणात्। तेन इत्यादिना क्ङिद्ग्रहणे निवृत्ते यदिष्टं सम्पद्यते तद्दर्शयति -यद्यत्र क्ङिति (6.4.24) इत्येतदनुवर्तेतततो वा च्छन्दसि (3.4.88) इति यसमिन्पक्षे हेरपित्त्वं न भवति तस्मिन्? पक्षे सार्वधातुकमपित् (1.2.4) इति वचनात्? ङित्त्वं नास्तीति शाभावो न स्यात्। क्ङिद्ग्रहणे तु निवृत्तेऽपित्त्वपक्षेऽपि भवत्येव। स्यादेतत् -व्यवस्थितविभाषाविज्ञानाच्छास उत्तरस्य हेः पित्त्वं न भविष्यति, ततो नार्थः क्ङिद्ग्रहणेन निवर्त्तितेन? इत्यत आह -शाधीत्येतत् इत्यादि। यदि शास उत्तरस्य हेः पक्षे पित्त्वं न स्यात्, तदा शाधीत्येतत्? सतिशिष्टत्वेन प्रत्ययस्वरेणान्तोदात्तमेव स्यात्। आद्युदात्तमपि च्छन्दसीष्यते। तच्च हेः पित्त्वे सति धातुस्वरेण सम्पद्यते, नान्यथा। तस्मादवश्यं च्छन्दसि यक्षे पित्त्वं विधेयम्। अथ आ हौ इत्येवं कस्मान्नोक्तम्, अकोरेऽपि हि अलोऽन्त्यस्य (1.1.52) इति सकारस्य विहिते सवर्णदीर्घत्वेन शाधीत्येतत्? सिद्धं भवति? न सिद्ध्यति; पूर्वसूत्रेणोपधाया इत्त्वं स्यात्। न चायं तस्य बाधको युज्यते; असति च सम्भवे बाधनं भवति, अस्ति च सम्भवो यदुभयं स्यात्, अत्रास्ति सम्भवः। तस्मादकारेऽन्त्यस्य विहित उपधाया इत्त्वं स्यादेव॥ हन्तेः इति। स्पिपा निर्देशो यङलुग्निवृत्त्यर्थः -जङ्घहि

Sutra Prayogas

  • शाधि (भट्टिकाव्यम्): शासेः शा हौ इति शाभावः।

  • अनुशाधि (भट्टिकाव्यम्): शा हौ इति शादेशः।