64034: शास इदङ्हलोः¶
Padacheda: शासः | S | 6 | 1 |
इत् | S | 1 | 1 |
अङ्-हलोः | S | 7 | 2 |
Sutrartha¶
Vasu English Summary¶
Before the Aorist in अङ् and before an affix beginning with a consonant having an indicatory क् or ङ् there is the substitution of ई for the vowel of शास्।
Vasu English Translation¶
Before the Aorist in अङ् and before an affix beginning with a consonant having an indicatory क् or ङ् there is the substitution of ई for the vowel of शास्। Thus अन्वशिषत्, अन्वशिषताम् and अन्वशिषन्; so also शिष्टः (with क्त), शिष्टवान् (with क्तवतु), तौ शिष्टः वयं शिष्मः (with the tense-affixes तः and मः which are ङित् by (1.2.4)). The स is changed to ष by (8.3.60). Why do we say ‘before the affixes of अ Aorist and consonant affixes’? Observe शासति, शशासतु, शशासुः ॥
Vart:- There is the substitution of इ for the vowel of शास् before the affix क्वि ॥ As आर्यशीः = आर्यान् शास्ति ॥ So also मित्रशीः ॥ The form is thus evolved, शास् + क्वि = शिस् + ० = शिर + ० = शीः (the short इ being lengthened by (8.2.76)).
The root शास् is that root which takes अङ् aorist; namely the second Adadi शास् (शासु अनुशिष्टौ), and not the Bhvadi and the first Adadi शास (आङ शासु इच्छायाम्) Therefore not here आशास्ते, आशास्यमानः ॥
Vart:- But before क्विप्, this शास् also is changed, as आशीः, आशिषौ, आशिषः ॥ Or this is an irregular form indicated by the author in the word क्षियाशीः used in (8.2.104).
Bhashya¶
शास इदङ्हलोः (3032) (6539 उपसंख्यानवार्तिकम् ॥ 1 ॥) - शास इत्त्वे आशासः क्वावुपसंख्यानम् - शास इत्त्वे आशासः क्वावुपसंख्यानं कर्तव्यम् । आशीरिति ॥ (नियमार्थत्वोपपादकभाष्यम्) किं पुनरिदं नियमार्थम्, आहोस्विद्विध्यर्थम् ? कथं नियमार्थं स्यात्, कथं वा विध्यर्थम् ? यदि तावच्छासिमात्रस्य ग्रहणम्, ततो नियमार्थम् । अथ हि यस्माच्छासेरङि्वहितस्तस्य ग्रहणम्, ततो विध्यर्थम् ॥ (नियमासम्भवदर्शकं भाष्यम्) यद्यपि शासिमात्रग्रहणम्, एवमपि विध्यर्थमेव । कथम् ? । अङि हलादावुच्यते, न चात्र हलादिं पश्यामः । ननु च क्विबेव हलादिः । क्विपो लोपे कृते हलाद्यभावान्न प्राप्नोति । इदमिह सम्प्रधार्यम् - क्विलोपः क्रियताम्, अङ्हलोरित्त्वमिति । किमत्र कर्तव्यम् ? परत्वादङ्हलोरित्त्वम् । नित्यः क्विलोपः, कृतेऽप्यङ्हलोरित्त्वे प्राप्नोत्यकृतेऽपि । नित्यत्वात् क्विपो लोपे कृते हलाद्यभावान्न प्राप्नोति । एवं तर्हि प्रत्ययलक्षणेन भविष्यति । वर्णाश्रये नास्ति प्रत्ययलक्षणम् ॥ (नियामकत्वोपपादकभाष्यम्) यदि वा कानि चिद्वर्णाश्रयाण्यपि लक्षणेन भवन्ति, तथा चेदमपि भविष्यति । अथवैवं वक्ष्यामि - शास इदङ्हलोः । ततः - क्वौ । क्वौ च शास इद्भवति । आर्यशीः, मित्रशीः । ततः - आङः । आङ्पूर्वाच्च क्वौ शास इद्भवति । आशीरिति । इदमिदानीं किमर्थम् ? नियमार्थम् । आङ्पूर्वाच्छासेः क्वावेव । क्व मा भूत् ? आशास्ते, आशास्यते, आशास्यमाने - इति । तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । अविशेषेण शास इद्भवतीत्युक्त्वा ततोऽङीति वक्ष्यामि । तन्नियमार्थं भविष्यति - अङ्येवाजादौ, नान्यस्मिन्नजादौ ॥ (अनिष्टाक्षेपभाष्यम्) इहापि तर्हि नियमादित्वं प्राप्नोति - आशास्ते, आशास्यते, आशास्यमान इति ॥ (समाधानभाष्यम्) यस्माच्छासेरङि्वहितस्तस्य ग्रहणम्, न चैतस्माच्छासेरङि्वहितः । कथमाशीरिति ? निपातनात्सिद्धम् । किं निपातनम् ? क्षियाशीः प्रैषेषु तिङाकाङ्क्षम् (8.2.104) इति ॥
Kashika¶
शास उपधाया इकारादेशो भवति अङि परतो हलादौ च क्ङिति। अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्। हलादौ किति — शिष्टः। शिष्टवान्। ङिति — आवां शिष्वः। वयं शिष्मः। इत्वे कृते शासिवसिघसीनां च (८.३.६०) इति षत्वम्। अङ्हलोरिति किम्? शासति। शशासतुः, शशासुः॥ क्वौ च शास इत्त्वं भवतीति वक्तव्यम्॥ आर्यान् शास्तीति। मित्रशीः। यस्मात् शासेरङ् विहितः शासु अनुशिष्टौ इति तस्यैवेदं ग्रहणमिष्यते। आङः शासु इच्छायाम् इत्यस्य न भवति। आशास्ते। आशास्यमानः॥ क्विप्प्रत्यये तु तस्यापि भवतीति वक्तव्यम्॥ आशीः, आशिषौ, आशिषः। क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् (८.२.१०४) इति निपातनाद् वा सिद्धम्॥
Siddhanta Kaumudi¶
शास उपधाया इत्स्यादङि हलादौ क्ङिति च । शासिवसि-(SK2410) इति षः । शिष्टः । शासति । शशासतुः । शास्तु-शिष्टात् । शिष्टाम् । शासतुः ॥
Laghu Siddhanta Kaumudi¶
शास उपधाया इत्स्यादङि हलादौ क्ङिति। शिष्यः। वृत्यः। आदृत्यः। जुष्यः॥
Balamanorama¶
शास इदङ्हलोः - शास इदङ्हलोः । ‘अनिदितां हलः’ इत्यत उपधायाः क्ङिति इत्यनुवर्तते । तदा — शास उपधाया इति । शासतीति । जक्षादित्वेन अभ्यस्तत्वाददादेश इति भावः । शास्सि शिष्ठः शिष्ठ । शास्मि शिष्वः शिष्मः । ‘आशास्ते’ इत्यत्र तु नेत्त्वम्, अडओग्यस्य परस्मैपदिन एव ग्रहणादिति भाष्ये स्पष्टम् । शशासेति । शशासिथ । शासिता । शासिष्यति । शास् हि इति स्थिते आह -
Tattvabodhini¶
शास इदङ्हलोः - शास इदङ्हलोः । अङि अशिषत् । क्ङिति — शिष्टः । शिष्टवान् । शिष्यात् । शिष्यास्ताम् । अङ्साहचर्यात्परस्मैपद एवेत्वम् । नेह - आशास्ते । अन्ये तु यस्माच्छासेरङ् संभवति तस्यैवेत्वमिति व्याख्याय व्यतिशिष्टे व्यतिशिढ्वे इत्यात्मनेपदेऽपि इत्वं स्वीकुर्वन्ति ।
Padamanjari¶
अङ्गाक्षिप्तस्य प्रत्ययस्य हला विशेषणातदादिविधिरित्याह - हलादौ च क्ङितीति । क्वौ च शास इति । नित्यात्वात्क्विपो लोपे हलादेरभावाद्वचनम् । प्रत्ययलक्षणेन तु सिद्धम्, यत्र कार्ये वर्णरुपमेव निमितत्वे नाश्रीयते तद्वर्णाश्रयत्वात् प्रत्ययलक्षणेन न भवति, यथा - रायः कुलं रैकुलमित्यायादेशः । यतु वर्णविशिष्टप्रत्ययनिमितं तद्भवत्येव, यथा - अतृणेडिति, हलादौ पिति सार्वधातुके विधीयमानस्तृणह इमागमः, इदमपीत्वं हलादौ क्ङिति प्रत्यये विधीयमानं लोपेऽपि भवति । आर्यशीरिति । सकारस्य रुत्वे र्वोरुपधायाः इति दीर्घः । अथाऽऽशास्ते, आशास्यामान इत्यत्र कस्मान्न भवति इत्याह - यस्माच्छासेरिति । अङ्विधौ तावत्परस्मैपदिभ्यामर्तिसर्तिभ्यां साहचर्यात्परस्मैपदिनः शासेर्ग्रहणम्, इहाप्यङ्संसर्गाद्विशिष्टस्य शासेर्ग्रहणं संसर्गस्य विशेषावगतिहेतुत्वात् । यथा - सवत्सा धेनुरानीयतां सकलभा सकिशोरेति गवादिर्घेनुः प्रतीयते । ननु च नात्राङ् केवलो निमितम्, अपि तु हलादिरपि, स चात्मनेपदिनोऽपि सम्भवति, तत्कुतः संसर्गाद्विशिष्टस्य प्रतीतिः नैष दोषः साधारणासाधारणसम्बन्धिसन्निपाते यस्यासाधारणः सम्बन्धी सन्निहितस्तस्यैव ग्रहणं भवति, यथा वृद्धानां किशोरीणां च मध्ये धेनवो बध्यन्ते इत्युक्ते बडवा धनवो बध्यन्ते । एतस्मादङ्हलोर्द्वयोरप्युपादाने यस्माच्छासेरङ् विहितस्तस्यैव ग्रहणम् । शासिवसिघसीतनां चेति षत्वविधौ शासिमात्रस्य ग्रहणं द्रष्टव्यमाशिषिलिङ्लोटौ इत्यादिनिर्देशात् ॥
Nyaas¶
अन्वशिषत् इति। सर्त्तिशास्त्यर्तिभ्यश्च (3.1.56) इति च्लेरङादेशः शिष्वः, शिष्मः इति। वस्मसोरुदाहरणे, अदादित्वाच्छपो लुक्। शासति इति। जक्षित्यादयः षट् (6.1.6) इत्यभ्यस्तसंज्ञा, अदभ्यस्तात् (7.1.4) इति झेरदादेशः। शशासतुः, शशासुः इति। लिटतुस्युसि रूपे। क्वौ च शासः इति। क्वौ परतः शासेरित्त्वं भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम् -यद्यपि कृताकृतप्रसङ्गित्वेन नित्यत्वादत्र पूर्वमित्त्वात्? क्विब्लोपस्य विधानम्, तथापि लुप्तेऽपि तस्मिन्? प्रत्ययलक्षणेनात्रेत्त्वं भविष्यति। वर्णाश्रये प्रत्ययलक्षणं नास्ति (व्या।प।96) इत्येतत्तु प्रायिकम्। तथा हि -वर्णश्रयेऽपि क्वचिद्भवति। तद्यथा -अतृणेट् इति। अत्र तृ ह इम् (7.3.92) इतीमागमः। अथ वा वर्णाश्रयमेवेदमित्त्वं न भवति। कथम्? अङ्गग्रहणेनात्र प्रत्ययः सन्निधापितः। स हल्ग्रहणेन विशिष्यते। अत एव वृत्तावुक्तम् -हलादौ क्ङिति इति। तेन यद्यपि क्विब्? वर्णात्मकः प्रत्ययः, तथापि नासौ वर्णरूपत्वेनाश्रीयते, किं तर्हि? प्रत्ययरूपत्वेन।आर्यशीः इति। सकारस्य रुत्वे कृते र्वोरुपधाया दीर्घः (8.2.76) इति दीर्घः।अथ आशास्ते, आशास्यमानः इत्यत्र कथमित्त्वं न भवति? इत्याह -यस्माच्छासेः इत्यादि द्वाविमौ शासी -एकः परस्मैपदी, अपरस्त्वात्मनेपदी, तत्र यस्मात्? शासेरङ् विहितं तस्येवं ग्रहणम्। स च शासु अनुशिष्टौ (धातुपाठः-1075) इत्यस्य सत्तिशास्त्यर्त्तिभ्यश्च (3.1.56) इति विधीयते, तत्र परस्मैपदेषु (3.1.55) इत्यनुवर्तते, अस्यैव परस्मैपदे सम्भवात्। कथं पुनः सामान्येनोपादाने परस्मैपदिन एव विज्ञायते? अङः संसर्गात्। संसर्गे हि सति विशेषपरिच्छेदो भवति, तथा हि -सकिशोरा धेनुरानीयताम् इत्युक्ते किशोरेण संसर्गाद्? वडवायामेव सम्प्रत्ययो भवति। इह शासेरित्त्वं प्रत्यङ निमित्तत्वेनोपात्तः, अतस्तेन संसर्गाद्? विशिष्ठ एव परस्मैपदी शासिः प्रतीयते। ननु चाङेवात्र केवलो निमित्तत्वेन नोपात्तः, किं तर्हि? हलपि, स चात्मनेपदिनोऽपि सम्भवति, तत्? कुतोऽङ्संसर्गाद्? विशिष्टस्य शासेः प्रतीति? नैतदस्ति; साधारणासाधारणसम्बन्धिसन्निपाते यस्यासाधारणः सन्निहितः सम्बन्धी तत्रैव प्रत्ययो जायते। तथा हि वृद्धानां किशोरणाञ्च मध्ये धेनवोऽनुबध्यन्ताम् इत्युक्ते बडवा एव प्रतीयन्ते। तस्मादङहलोरुपदानेऽपि यस्मादङ विहितस्तस्यैव ग्रहणं युक्तम्।यदि तर्हि यतोऽङ विहितस्तस्येदं ग्रहणम्, एवं सति यथाशास्ते, आशास्यमान इत्यत्र न भवति, तथा क्विप्प्रत्ययेऽपि न स्यात्? इत्यत आह -क्विप्प्रत्यये ति इत्यादि। क्षियासीः इत्यादि। अथ वा नैव तस्या ह्रपि क्विष्प्रत्यय इत्येवं वक्तव्यमिति। विक्लपर्थो वाशब्दः। अथ तशब्दः किमर्थः, आन्तरतम्याद्दीर्घो मा भूदिति चेत्? नैतदस्ति; भाव्यमानोऽण्? सवर्णान्न गृह्णाति (व्या।प।35) इति न भविष्यति? एवं तर्हि विस्पष्टार्थः। अथासन्देहार्थः कस्मान्न भवति? शास यङङलोः इत्युच्यमाने सन्देहः स्यात् -किमयमिकारः कृतयणादेशो निर्दिष्टः? आहोस्विदीकारः? अथ वा यकार इति? नास्ति सन्देहः, यदयम्? तदशिष्यं संज्ञाप्रमाणत्वात् (1.2.53) इति निर्देशं करोति, ततो निश्चीयते -इकारोयम्, न हीकारः, नापि यकार इति॥
Prakriyasarvasvam¶
अङि हलादौ किङिति च परे ‘शासु अनुशिष्टौवि’त्यस्योपधाया इत् स्यात् । शिस् य ।
Vartika¶
क्वौ च शास इत्वं भवतीति वक्तव्यम् ।
Sutra Prayogas¶
आशिषच्च (भट्टिकाव्यम्): शास इदङ्हलोः इति शासेरुपधाया इत्वम्।
अशिषन् (भट्टिकाव्यम्): शास इदङ्-हलोः इतीत्वम्।
अशिषत् (भट्टिकाव्यम्): शास इदहलोः इति इकारः।
प्रशिष्यास्त्वं (भट्टिकाव्यम्): शास इदङ् हलोः इति इत्वम्।