64036: हन्तेर्जः

Padacheda: हन्तेः | S | 6 | 1 |

जः | S | 1 | 1 |

Sutrartha

हन् -धातोः अङ्गस्य हि-प्रत्यये परे ‘ज’ आदेशः भवति ।

‘हन्’ (हिंसागत्योः) इति अदादिगणस्य परस्मैपदी धातुः । लोट्-लकारस्य मध्यमपुरुषैकवचनस्य ‘हि’ प्रत्यये परे अस्य धातोः ‘ज’ इति आदेशः भवति । अनेकाल्त्वात् अयम् सर्वादेशरूपेण आगच्छति । प्रक्रिया इयम् - हन् + लोट् [लोट् च (3.3.162) इति लोट्] → हन् + सिप् [तिप्तस्.. (3.4.78) इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः] → हन् + शप् + तिप् [कर्तरि शप् (3.1.68) इति शप्] → हन् + सिप् [अदिप्रभृतिभ्यः शपः (2.4.72) इति शपः लुक्] → हन् + हि [सेह्यर्पिच्च (3.4.87) इति ‘हि’ आदेशः] → ज+ हि [हन्तेर्जः (6.4.36) इति हि-प्रत्यये परे हन्-इत्यस्य ज-आदेशः] → जहि ज्ञातव्यम् - ‘ज + हि’ इत्यत्र अतो हेः (6.4.105) इत्यस्य प्रसक्तिः नास्ति यतः असिद्धवदत्राभात् (6.4.22) इत्यनेन हन्-इत्यस्य जकारादेशः अतो हेः (6.4.105) इत्यर्थमसिद्धः अस्ति ।

Sutrartha (English)

The ‘हन्’ धातु gets the ‘ज’ आदेश when followed by the हि-प्रत्यय of लोट्लकार.

Vasu English Summary

ज is substituted for हन् before the Imperative affix हि।

Vasu English Translation

ज is substituted for हन् before the Imperative affix हि। Thus जहि शत्रून् ॥

Kashika

हन्तेर्धातोर्ज इत्ययमादेशो भवति हौ परतः। ज॒हि शत्रू॒न् (ऋ० ३.४७.२)॥

Siddhanta Kaumudi

हौ परे । आभीयतया जस्यासिद्धत्वाद्धेर्न लुक् । जहि । हनानि । हनाव । हनाम । अहन् । अहताम् । अघ्नन् । अहनम् ॥

Laghu Siddhanta Kaumudi

हौ परे॥

Balamanorama

हन्तेर्जः - हन्तेर्जः ।शा हौ इत्यतो हौ इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — हौ परे इति । कृते जादेशेअतो हे॑रिति हेर्लुकमाशङ्क्य आह — आभीयतयेति । जहीति । हतात् हतम् । हत । हनानीति । आटः पित्त्वेन हित्त्वाऽभावान्नोपधालोप इति भावः । अहन्निति । लङस्तिपिइतश्चे॑ति इकारलोपेसंयोगान्तस्ये॑ति तकारलोपः । न्याय्यत्वाद्धल्ङ्यादिलोपो वा । अहनमिति । अहन्व । अहन्म । झलादिपरकत्वाऽभावान्नोपधादीर्घः । विधिलिङि हन्यात् हन्यताम् इत्यादि । आशीर्लिङि वधादेशं वक्ष्यन्नाह-

Tattvabodhini

हन्तेर्जः - आभीयतयेति । सन्निपातपरिभाषयाऽपि हेर्लुङ् नेति वक्तुं शक्यमिति केचित् । तन्मन्दम् ।अतो हे॑ रित्यारम्भसामर्थ्यात्तस्या अप्रवृत्तेरिति नव्याः ।

Padamanjari

श्तिपा निर्देशो यङ्लुग्निवृत्यर्थः । अनुदातेपदेशावनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति ॥ उपदिश्यन्ते इत्युपदेशाः, अनुदाताश्च ते उपदेशाश्च अनुदातोपदेशाः । उपदिश्यमानावस्थायामनुदाता इत्यर्थः । अनुनासिकेति पृथक्पदं लुप्तषष्ठीकमनुदातोपदेशानां विशेषणम्, तेन तदन्तविधिः । यमिरमीत्यादि । यमिर्यमन्तेषु इति श्लोको वक्ष्यते । वनतेरिति । वन षण सम्भक्तौ । सनोतेरात्वं वक्ष्यतीति । जनसनखनां सञ्झलोः इत्यनेन । अतत, अतथा इति । तनादिभ्यस्तथासोः इति सिचो लुक् । इह च यथा स्यादिति । अन्यथा क्तिनि नित्स्वरेण सम्प्रत्युदातत्वान्न स्यात् । इह च मा भूदिति । अन्यथा प्रत्ययस्वरे कृते शेषनिधाते सम्प्रत्यनुदातत्वाच्छान्त इत्यादावपि स्यात् ॥

Prakriyasarvasvam

हन्तेर्हौ जभावः स्यात् । ‘अतो हेः’ इति हेलुकि प्राप्ते ‘असिद्धवदत्राभात्’ इति जत्वस्यासिद्धत्वान्न स्यात् । हिसंश्रयो जभावः, लुक् च हेरेव प्राप्तः इत्येकाश्रयत्वम् । जहि, हतात् । हतम् । हत । हनानि । हनाव, हनाम । लङि इलोपे हन् त् । ‘हल्ङ्याभ्य—’ इति तिलोपः । अहन् । अहताम् । अघ्नन् । सिपि तिब्वत् । अहन् । अहतम् । अहत । अहनम् । अहन्व ।

Sutra Prayogas

  • जहि (भट्टिकाव्यम्): हन्तेर्जः इति हौ परतो जः।