64035: शा हौ ============ **Padacheda:** शा | S | 1 | 1 | हौ | S | 7 | 1 | Sutrartha --------- **शास्-धातोः अङ्गस्य हि-प्रत्यये परे 'शा' आदेशः भवति ।** 'शास्' (अनुशिष्टौ) इति अदादिगणस्य परस्मैपदी धातुः । लोट्-लकारस्य मध्यमपुरुषैकवचनस्य 'हि' प्रत्यये परे अस्य धातोः 'शा' इति आदेशः भवति । प्रक्रिया इयम् - शास् + लोट् [**लोट् च** (3.3.162) इति लोट्] → शास् + सिप् [**तिप्तस्..** (3.4.78) इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः] → शास् + शप् + तिप् [**कर्तरि शप्** (3.1.68) इति शप्] → शास् + सिप् [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्] → शास् + हि [**सेह्यर्पिच्च** (3.4.87) इति 'हि' आदेशः] → शास् + धि [**हुझल्भ्यो हेर्धिः** (6.4.101) इति झलन्तात् परस्य हि-प्रत्ययस्य धि-आदेशः] → शा + हि [**शा हौ** (6.4.35) इति हि-प्रत्यये परे शास्-इत्यस्य शा-आदेशः] अत्र एतत् स्मर्तव्यम् यत् **हुझल्भ्यो हेर्धिः** (6.4.101) तथा च **शा हौ** (6.4.35) एते द्वे अपि सूत्रे **असिद्धवदत्राभात्** (6.4.22) अस्मिन् अधिकारे आगच्छतः । अतः **हुझल्भ्यो हेर्धिः** (6.4.101) इत्यनेन हकारस्य कृतः धकारादेशः **शा हौ** (6.4.35) इत्यनेन न दृश्यते । **शा हौ** (6.4.35) इत्यस्य दृष्ट्या तु तत्र हकारः एव अस्ति । अतः तत्र **शा हौ** (6.4.35) इत्यस्य प्रयोगः भवितुमर्हति । ज्ञातव्यम् - 1. 'शा' इति अनेकाल्-आदेशः अस्ति, अतः **अनेकाल्शित्सर्वस्य** (1.1.55) इत्यनेन अयमादेशः सर्वादेशरूपेण आगच्छति । 2. इदं सूत्रम् **शास इदङ्हलोः ** (6.4.34) इति पूर्वसूत्रस्य अपवादरूपेण स्वीकर्तव्यम्, इति नागेशेन शेखरे स्पष्टीकृतम् अस्ति । अतएव अत्र प्रक्रियायाम् प्रकृतसूत्रेण 'शा' इत्यादेशे कृते तस्य आभीय-असिद्धत्त्वात् 'शास्' इत्येव दृष्ट्वा **शास इदङ्हलोः ** (6.4.34) इति पुनः इकारादेशः न भवति । प्रश्नः - त्रिपाद्यां **धि च** (8.2.25) इति किञ्चन सूत्रं विद्यते । अनेन सूत्रेण धकारादौ प्रत्यये परे सकारस्य लोपः उक्तः अस्ति । अतः 'शास् + धि' इत्यत्र **शा हौ** (6.4.35) इत्यस्य स्थाने **धि च** (8.2.25) इति सूत्रस्य प्रयोगं कृत्वा अपि इष्टसिद्धिः भवत्येव, अतश्च **शा हौ** (6.4.35) इति सूत्रमेव अनावश्यकम् किल ? उत्तरम् - **शा हौ** (6.4.35) इति सूत्रं निष्कास्यते चेत् 'शास् + धि' इत्यत्र **शास इदङ्हलोः ** (6.4.34) इत्यनेन अनिष्टः इकारादेशः सम्भवति । तद्वारणार्थमेव **शा हौ** (6.4.35) इति सूत्रम् निर्मितम् । प्रश्नः २ - तर्हि **शा हौ** (6.4.35) इत्यस्य स्थाने 'आ हौ' इत्येव सूत्रम् पर्याप्तम् । तत्र **अनिदितां हल उपधायाः क्ङिति** (6.4.24) इत्यस्मात् सूत्रात् 'उपधायाः' इत्यस्य अनुवृत्तिं कृत्वा 'शास्-धातोः उपधा-आकारस्य आकारादेशः भवति' इति आकारस्य पुनः आकारादेशम् उक्त्वा तद्विधानसामर्थ्यात् **शास इदङ्हलोः ** (6.4.34) इत्यनेन सिद्धम् इत्त्वम् निवारयितुम् शक्यम् । ततश्च 'शास् + धि' इत्येव स्थिते **धि च** (8.2.25) इत्यनेन सकारलोपः सम्भवत्येव । उत्तरम् - सत्यम् । परन्तु **धि च** (8.2.25) इत्यस्य सूत्रस्य अर्थज्ञापने कश्चन गौणः पक्षः अपि विद्यते । अस्मिन् पक्षे **धि च** (8.2.25) अनेन सूत्रेण केवलं सिच्-प्रत्ययस्य सकारस्यैव लोपः सम्भवति, न अन्येषाम् सकाराणाम् । ये वैयाकरणाः एतादृशं पक्षं मन्यन्ते, तेषां मतेन अत्र **धि च** (8.2.25) इत्यस्य प्रसक्तिरेव नास्ति । प्रायः अस्य पक्षस्य समर्थनार्थमेव पाणिनिना **शा हौ** (6.4.35) इति सूत्रम् उक्तम् स्यात् । Sutrartha (English) ------------------- The शास्-धातु gets the 'शा' आदेश when followed by the हि-प्रत्यय of लोट्लकार. Vasu English Summary -------------------- Before the Imperative affix हि , शा is substituted for शास्। Vasu English Translation ------------------------ Before the Imperative affix हि , शा is substituted for शास्। Thus अनुशाधि, प्रशाधि ॥ The हि is changed to धि by (6.4.101). See (6.4.22). The *anuvritti* of उपधायाः is not here, so शा is substituted in the room of the full word शास् and not only for the penultimate vowel of शास् ॥ The *anuvritti* of कित् and ङित् also is not here. Therefore, when this हि is treated as पित् (3.4.88), then too the substitution takes place, though a पित् *Sarvadhatuka* is not ङित् (1.2.4). Thus शाधि is also found in the Vedas as having acute on the first syllable, which can only be when धि is पित् and consequently *anudatta* (3.1.4) Kashika ------- शासो हौ परतःशा इत्ययमादेशो भवति। अनुशाधि। प्रशाधि। उपधाया इति निवृत्तम्, ततः शास इति स्थानेयोगा (१.१.४९) षष्ठी भवति। क्ङितीत्येतदपि निवृत्तम्। तेन यदा **वा छन्दसि** (३.४.८८) इति पित्त्वं हिशब्दस्य, तदाप्यादेशो भवत्येव। शाधीत्याद्युदात्तमपि छन्दसि दृश्यते॥ Siddhanta Kaumudi ----------------- शास्तेः शादेशः स्याद्धौ परे । तस्याभीयत्वेनासिद्धत्वाद्धेर्धिः । शाधि । अशात् । अशिष्टाम् । अशासुः । अशाः । अशात् । शिष्यात् । सर्तिशास्ति-(SK2382) इत्यङ् । अशिषत् । अशासिष्यत् ॥ ।{$ {!1076 दीधीङ्!} दीप्तिदेवनयोः $}। एतदादयः पञ्चधातवश्छान्दसाः दीधीते । एरनेकाचः-(SK272) इति यण् । दीध्याते ॥ Balamanorama ------------ **शा हौ** - शा हौ । 'शा' इति लुप्तप्रथमाकम् ।शास इदङित्यतः शास इत्यनुवर्तते । तदाह — शास्तेरिति । इत्त्वापवारदः । ननु शासेः शाभावे सति झल्परत्वाऽभावात्कतं हेर्धिरित्यत आह — तस्याभीयत्वेनेति । यद्यपिधि चे॑ति सलोपे शाधीति सिद्धम्, तथापि सलोपस्याऽसिद्धत्वात्शास इ॑दिति इत्त्वं स्यात् । तन्निवृत्तये शाविधानमित्याहुः । लङ्याह — अशादिति । 'तिप्यनस्ते' रिति दत्वे चर्त्वविकल्प इति भावः । अशासुरिति । अभ्यस्तत्वाज्जुसिति भावः । अशाः अशादिति ।सिपि धातो॑रिति रुत्वदत्वविकल्प इति भावः । अशिष्टमशिष्ट । अशासमशिष्व अशिष्म । शिष्यादिति ।शास इत् इति इत्त्वेशासिवसी॑ति ष इति भावः । अशिषदिति । अङि इत्त्वमिति भावः । दीधीङ्धातुरीकारान्तः । ङित्त्वादात्मनेपदी । एतदादयः पञ्चेति । इदं च माधवानुरोधेन । तत्त्वं त्वग्रे वक्ष्यते । जक्षित्यादित्वादभ्यस्तत्वाज्झस्य अदादेशः । दीध्यते । दीधीषे दीध्याथे दीधीध्वे । लट इडादेशे आह — Tattvabodhini ------------- **शा हौ** - शा हौ । शादेश इति ।धि चे॑ति सलोपेन शाधीति रूपे सिद्धेऽपि सलोपस्याऽसिद्धत्वात्शासै॑दिति इत्वं स्यात्; तद्वारणाय शाविधानमित्याहुः । Padamanjari ----------- उपधाया इति निवृतमिति । तद्धि उपधाग्रहणं क्ङ्तीत्यिनेन सम्बद्धम्, तैह च क्ङिद्ग्रहणं निवृतम् इति वक्ष्यति, तेन तत्सम्बद्धमुपधाग्रहणं च निवृतम् । स्थानेयोगा षष्ठी भवतीति । एतच्च शब्दाधिकारपक्षस्याश्रयणाल्लभ्यते, अर्थाधिकारे त्विहाप्यवयवसम्बन्धान्न सर्वस्य स्यात् । क्ङ्तीत्यिपि निवृतमिति । उतरत्र पुनः क्ङिद्ग्रहणात् । तेनेति । अन्यथा सार्वधातुकमपित् इति वचनात्पित्वपक्षे ङ्तिवाभावाच्छाभावो न स्यात् । मा भूत्पित्वपक्षे, दृश्यमानस्तु प्रयोगोऽपित्वपक्षेऽप्युपपद्यते अत आह - शाधीत्याद्यौदातमपीति । यदि तु पिति शाभावो न स्यात्, तदा शाधीत्येतत्सतिशिष्टेन प्रत्यस्वरेणान्तोदात एव स्यात् । आद्यौदातमपि दृश्यते, तस्मात्पित्यपि शाभाव एव द्रष्टव्यः । इह आ हौ वक्तव्यम्, उपधाया इत्येव, आकारस्याकारवचनमित्ववाधानार्थम्, ततः हुढल्भ्यो हेर्धिः इति धित्वम्, धि चेति सकारलोपः । येषां तु धि सकारे सिचो लोपः इति पक्षः, तेषां शाभाव एव विधेय अन्यथा उपधायाः त्यिस्य निवृतावपि सकारस्याकारे तस्यासिद्धत्वाद्यद्यपि धित्वं लभ्यते, उपधायास्तु पूर्वेणेत्वमाशङ्क्येत, अविरोधात् ॥ Nyaas ----- यद्यत्र `उपधायाः` (6.4.24) इति वर्तते, ततो यथा पूर्वसूत्रे `शासः` (6.4.34) इत्यवयवभूता षष्ठी, तथेहापि स्यात्? एवञ्चोपधाया एवायमादेशः, प्रसज्येत, सर्वादेशश्चेष्यत इति मनसि कृत्वाह -`उपधाया इति निवृत्तम्` इति। तद्धि उपधागरहणं क्ङिद्ग्रहणेन सम्बद्धम्, इह च क्ङिद्ग्रहणं निवृत्तम्। तस्मात्? `उपधायाः` (6.4.24) इत्यस्यापि निवृत्तिर्भवति। `क्ङिति` इत्येतदपि निवृत्तम्` इति। `अनुदात्तोपदेश` (6.4.37) इत्यादौ सूत्रे पुनः क्ङिद्ग्रहणात्। `तेन` इत्यादिना क्ङिद्ग्रहणे निवृत्ते यदिष्टं सम्पद्यते तद्दर्शयति -यद्यत्र `क्ङिति` (6.4.24) इत्येतदनुवर्तेतततो `वा च्छन्दसि` (3.4.88) इति यसमिन्पक्षे हेरपित्त्वं न भवति तस्मिन्? पक्षे **सार्वधातुकमपित्** (1.2.4) इति वचनात्? ङित्त्वं नास्तीति शाभावो न स्यात्। क्ङिद्ग्रहणे तु निवृत्तेऽपित्त्वपक्षेऽपि भवत्येव। स्यादेतत् -व्यवस्थितविभाषाविज्ञानाच्छास उत्तरस्य हेः पित्त्वं न भविष्यति, ततो नार्थः क्ङिद्ग्रहणेन निवर्त्तितेन? इत्यत आह -`शाधीत्येतत्` इत्यादि। यदि शास उत्तरस्य हेः पक्षे पित्त्वं न स्यात्, तदा शाधीत्येतत्? सतिशिष्टत्वेन प्रत्ययस्वरेणान्तोदात्तमेव स्यात्। आद्युदात्तमपि च्छन्दसीष्यते। तच्च हेः पित्त्वे सति धातुस्वरेण सम्पद्यते, नान्यथा। तस्मादवश्यं च्छन्दसि यक्षे पित्त्वं विधेयम्। अथ `आ हौ` इत्येवं कस्मान्नोक्तम्, अकोरेऽपि हि **अलोऽन्त्यस्य** (1.1.52) इति सकारस्य विहिते सवर्णदीर्घत्वेन शाधीत्येतत्? सिद्धं भवति? न सिद्ध्यति; पूर्वसूत्रेणोपधाया इत्त्वं स्यात्। न चायं तस्य बाधको युज्यते; असति च सम्भवे बाधनं भवति, अस्ति च सम्भवो यदुभयं स्यात्, अत्रास्ति सम्भवः। तस्मादकारेऽन्त्यस्य विहित उपधाया इत्त्वं स्यादेव॥ `हन्तेः` इति। स्पिपा निर्देशो यङलुग्निवृत्त्यर्थः -`जङ्घहि`॥ Sutra Prayogas -------------- * **शाधि** (भट्टिकाव्यम्): `शासेः शा हौ` इति शाभावः। * **अनुशाधि** (भट्टिकाव्यम्): `शा हौ` इति शादेशः।